________________
विशेषा०
॥६१५॥
Jain Educationa Internati
'काष्ठे' इति काष्ठविषयो दृष्टान्तः । यथा काष्ठे कश्चिद् रूपकार आकारमात्रमेवोन्मीलयति, कश्चित् तु तत्रैव स्थूलावयत्र रूपं किञ्चिद् निष्पादयति, अपरस्तु सुविभक्तविचित्रोत्कृष्टनिःशेषाङ्गोपाङ्गावयवयुक्तं निर्वर्तयति । एवं काष्टकल्प सामायिकादिसूत्रम् । तत्र भाषकः किञ्चिदर्थमात्रमेव व्याचष्टे । विभाषकस्तु तस्यैवानेकप्रकारैरर्थमाख्याति । वार्तिककरस्तु निरवशेषैरपि व्याख्याप्रकारैस्तदर्थं प्रतिपादयति । पुस्तं लेप्यम्, तद्दृष्टान्तेऽपि काष्टवदेव सर्व वाच्यम् । चित्रदृष्टान्ते तु यथा कोऽपि चित्रकारो वर्तिकाभिः कुड्यादिषु रूपस्याकारमात्रं लिखति । कचित्तु तत्रैव हरितालादिवर्णकै गौरवर्णादिभावान् दर्शयति । कश्चित्तु निरवशेषानपि तद्गतभावान् सत्यापयति । दाष्टन्तिकयोजना तु तथैवेति । श्रीगृहं भाण्डागारम्, तदस्यास्तीति श्रीगृहको भाण्डागारिकः । तत्र कोऽप्यसौ 'अत्र भाजने रत्नानि सन्ति' इत्येतावन्मात्रमेव जानाति, अपरस्तु तज्जाति-माने अपि वेत्ति, अन्यस्तु सर्वास्तद्गुण-दोषानप्यवबुध्यत एव । एवं प्रथम द्वितीय तृतीय श्री गृहिक तुल्या यथासंख्यं भाषक विभाषक वार्तिककरा विज्ञेयाः । पोण्डमविकसितावस्थं कमलम् । तच्च यथेषद्विकसिता ऽर्धविकसित सर्व विकसितभेदात् त्रिधा भवति, एवं भाषकादिव्याख्यानमपीति । देशनं देशः कथनं सोऽस्यास्तीति देशिकः, तत्र यथा कश्चिद् देशिकः पन्थानं पृष्टो दिमात्रोपदेशेनैव तं कथयति, कश्चित् व्यवस्थितग्राम-नगरादिभेदेन अपरस्तु समस्ततदुत्थगुण-दोषाख्यानद्वारेणापि तमुपदिशति । दार्शन्तिकयोजना तथैव । एवमेतानि भाषकविभाषक व्यक्तीकरविषयाण्युदाहरणानि प्रतिपादितानि । इति नियुक्तिगाथासंक्षेपार्थः ।। १४२५ ।।
विस्तरार्थ भाष्यकारः प्राह-
पेढो रुवागारं थूलावयवोवदंसणं बीओ । तइओ सव्वावयवे निद्दोसे सव्वहा कुणइ ॥ १४२६ ॥ कट्ठसमाणं सुत्तं तदत्थरूवेगभासणं भासा । थूलत्थाण विभासा सव्वेसिं वत्तियं नेयं ॥ १४२७ ॥
प्रथमगाथायां प्रथम-द्वितीय-तृतीयशब्दवाच्या रूपकारः, द्वितीयगाथायां तु दाष्टन्तिकयोजना । तत्र काष्ठस्थानीयं सूत्रम् । ‘तदत्थरूवेगभासणं ति' तस्य च सूत्रस्यार्थस्तदर्थस्तस्य चानन्तरूपत्वाद् यदेकरूपभाषणं सा भाषा - स भाषकव्यापार इत्यर्थः स्थूलार्थानां तु कियतामपि भाषणं विभाषा, सर्वेषां तु निरवशेषाणामर्थानां भाषणं वार्तिकं ज्ञेयमिति ।। १४२६।१४२७ ॥
१ प्रथमो रूपाकारं स्थूलावयवोपदर्शनं द्वितीयः । तृतीयः सर्वावयवान् निर्दोषान् सर्वथा करोति । १४२६ ।। काष्ठसमानं सूत्रं तदर्थरूपैकभाषणं भाषा । स्थूलार्थानां विभाषा सर्वेषां वार्तिकं ज्ञेयम् ॥ १४२७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६१५॥
www.jainelibrary.org