________________
विशेषा ०
॥६४२ ॥
Jain Educationis Internation
विशेषाकारग्राहकम् । ततस्तस्मात् कारणाद् वस्तुनः सामान्याभिधानलक्षणः प्रथममुद्देशः, ततस्तस्यैव विशेषाभिधानरूपो निर्देशः ॥ इति गाथार्थः || १४८६ ॥
तदेवं स्थापित आदावुद्देशः । अथ 'तत्त्व-भेद-पर्यायैर्व्याख्या' इति कृत्वा तमेव भेदकथनद्वारेण व्याख्यातुमाह---
नाठवणा दविए खित्ते काले समासउसे । उद्देसुद्देसम्मि य भावम्मि होइ अट्ठमओ || १४८७ ॥ नामादिभेदादुद्देशोऽष्टविधः, तद्यथा - नामोद्देशः, स्थापनादेशः, द्रव्योद्देशः, क्षेत्रोद्देशः कालोद्देशः, समासोद्देशः, उद्देशोद्देशः, भावोदेशो भवत्यष्टमकः ॥ इति निर्मुक्तिगाथासंक्षेपार्थः ॥ १४८७ ॥
तत्र नामोद्देशं व्याख्यातुमाह भाष्यकारः---
नाम जसो नामे स एव जो जेणं । उद्देस्सो नामस्स व नामुद्देसोऽभिहाणं ति ॥ १४८८ ॥
यस्य जीवादेर्वस्तुन 'उद्देश:' इति नाम क्रियते स नामोद्देशः, नामरूप उद्देशो नामोद्देशः, यथा गोपालदारकादेरुदेश इति नाम । 'नामेणुद्देस एव जो जेणं ति' यो घट-पट-स्तम्भादिः पदार्थों येन घट-पट-स्तम्भादिनान्नोद्दिश्यते प्रतिपाद्यते सोऽपि घटपटादिपदार्थो नामोद्देश इति उच्यते, उद्दिश्यतेऽभिधीयते प्रतिपाद्यते निजेन नाम्नेति कृत्वा । 'उद्देसो नामस्स व नामुद्देसो ति' नाम्नो वा वस्तुसामान्याभिधानस्योदेशन मुच्चारणं नामोद्देशः । किमुक्तं भवति ?, इत्याह- 'अभिहाणं ति' वस्तुनः सामान्यं यदभिधानं स नामोदेश इत्यर्थः । यथा- आम्रादेर्वृक्षादि नाम । वाशब्दः सर्वत्र प्रकारान्तरसूचकः ।। १४८८ ॥
अत्र परोऽतिप्रसङ्गमुद्भावयन्नाह -
एवं नणु सव्त्रो चिय नामुद्देसो जओऽभिहाणं ति । दव्वाईणं तेहिं व तेसु व जंकीरए जस्स ॥ १४८९ ॥
ननु यदि वस्तुनः सामान्याभिधानमात्र मुद्देशोऽभिधीयते, एवं तर्हि सर्व एवायं स्थापना- द्रव्य-क्षेत्र कालाद्युद्देशो नामोद्देश एव प्राप्नोतिः यतो द्रव्याणामपि हेम-रजतादीनां हेमादिकं सामान्याभिधानमस्ति, तैर्वा कुसुम्भ-हरिद्रादिद्रव्यैर्हेतुभूतैर्वस्त्रादीनां रक्तं पीत
१ नाम स्थापना द्वव्ये क्षेत्रे काले समासोद्देशे । उद्देशोद्देशे च भावे च भवत्यष्टमकः ॥ १४८७ ।।
२ नाम यस्योद्देशो नानोदेश एव यो येन । उद्देशो नानो वा नामोद्देशोऽभिधानमिति ।। १४८८ ॥
३ एवं ननु सर्व एव नामोद्देशो यतोऽभिधानमिति । द्रव्यादीनां तैव तेषु वा यत् क्रियते यस्य ॥ १४८९
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६४२॥
www.jainelibrary.org