________________
बृहद्वत्तिः ।
हेतुभूनेन य उद्दिश्यतेऽभिधीयते स द्रव्योद्देशः, यथा द्रव्यपतिरित्यादि । यदिवा, ततस्तस्माद् द्रव्यादुद्देशोऽभिधानप्रवृत्तिव्योद्देशः, यथा विशेषाद्रव्यवानित्यादि । अथवा, तस्मिन् द्रव्ये सत्युद्देशोऽभिधानप्रवृत्तिद्रव्योद्देशः, यथा सद्रव्य इत्यादिः सिंहासने राजा, चूते कोकिलः,
वने मयूर इत्यादि वा । एममुद्दिश्यते तत् , उद्दिश्यते तेन वेत्यादिव्युत्पत्त्या क्षेत्रम् , क्षेत्री, क्षेत्रपतिः, क्षेत्रे जातं क्षेत्रमित्यादिकः ॥६४४॥ सर्वोऽपि क्षेत्रोद्देश इति ।। १४९१ ॥ १४९२ ॥
कालो कालाईयं कालोवेयं ति कालजायं ति । संखेवो त्ति समासो अंगाईणं तओ तिण्हं ॥ १४९३ ॥ अंग-सुयक्खंध-ज्झयणाणं नियनियप्पभेयसंगहओ । होइ समासुद्देसो जहंगमंगी तज्झेया ॥ १४९४ ॥ एमेव य सुयक्खंधो तस्सज्झेया तयत्थविण्णाया। अज्झयणं अज्झयणी तस्सज्झेया तयत्थण्णो ॥१४९५॥
'कालो त्ति काल एवोद्दिश्यमानत्वादुद्देशः कालोदेशः । तेन वा कालेनोद्देशः कालोद्देशः, यथा कालातीतं कालातिक्रान्तमिदं वस्त्विति । ततो वा कालादुद्देशः कालोद्देशः, यथा कालोपेतं कालप्राप्तमिति । तस्मिन् वा काले जातं कालजातमित्यादिकः कालोद्देशः। अथ समासोद्देशं विवक्षुराह- 'संखेवो इत्यादि' संक्षेपेण विस्तरवतः संकोचनं समास उच्यते । तकोऽयं चेहाङ्गादीनां त्रयाणां विवक्षितः। एतदेव दर्शयति- 'अङ्गेत्यादि' अङ्गं, श्रुतस्कन्धः, अध्ययनम् , इत्येष समासो भवति । कुतः, इत्याह-निजनिजमभेदसंग्रहादिति । अस्याङ्गादिसमासस्योद्देशनमभिधानं समासोदेशः । कः ?, इति दर्शयति- यथा 'अङ्गम्' इति, तदेवोद्दिश्यमानत्वादुद्देश इत्यर्थः । तेन वाङ्गरूपसमासेनोद्देशः समासोद्देशः, यथा- अङ्गीति, तस्याङ्गात्मकसमासादुद्देशः, यथा तदध्येता- अङ्गाध्येतेत्यर्थः । एवं श्रुतस्कन्धात्मकसमास एवोद्दिश्यमानत्वादुद्देशः, यथा श्रुतस्कन्ध इति । तेन वोदेशः- यथा श्रुतस्कन्धीति । तस्माद् वोदेशः, यथा तस्य श्रुतस्कन्धस्याध्येता । तस्मिन् वोद्देशः, यथा तदर्थविज्ञाता श्रुतस्कन्धार्थज्ञ इत्यादि । एवमध्ययनात्मकसमास एवोद्दिश्यत इत्युद्देशः, यथाअध्ययनमिति । तेन वोदेशः, यथा- 'अध्ययनी' इति । तस्माद् बोद्देशः, यथा- तस्याध्ययनस्याध्येता, तस्मिन् वाध्ययने सत्युद्देशः, यथा तदर्थज्ञोऽध्ययनार्थवित , इत्यादि विवक्षया सर्व भावनीयमिति ॥ १४९३ ॥ १४९४ ।। १४९५ ॥
, कालः कालातीतं कालोपेतमिति कालजातमिति । संक्षेप इति समासोऽजादीनां तकस्त्रयाणाम् ॥ १४९३ ॥ अङ्ग-श्रुतस्कन्धा ऽध्ययनानां निजनिजप्रभेदसंग्रहतः । भवति समासोदेशो यथाङ्गमङ्गी तदभ्येता ॥ १४९४ ॥ एवमेव च श्रुतस्कन्धस्तस्यायेता तदर्थविज्ञाता । अध्ययनमध्ययनी तस्याध्येता तदर्थज्ञः ॥ १४९५ ॥
॥६४४॥
Jan Education Internatio
For Personal and Private Use Only
www.janeltrary.org