SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥७१४॥ अथ पराभिप्रायमाशङ्कय प्रतिविधातुमाह अह मन्नसि खणिओ वि हु सुमरइ विन्नाणसंतइगुणाओ। तहवि सरीरादण्णो सिद्धो विण्णाणसंताणो ॥१६७२॥ इदत्तिः। अथैवं मन्यसे त्वम्- क्षणिकोऽपि क्षणभङ्गुरोऽपि जीवः पूर्ववृत्तान्तं स्मरत्येव । कुतः ? इत्याह-विज्ञानानां विज्ञानक्षणानां संततिः संतानस्तस्या गुणस्तत्सामर्थ्यरूपस्तस्मादिति, क्षणसंतानस्यावस्थितत्वात् क्षणनश्वरोऽपि स्मरतीत्यर्थः। अत्रोत्तरमाह- ननु तथाप्येवमपि सति ज्ञानलक्षणसन्तानस्याग्रेतनशरीरसंक्रान्तेर्भवान्तरसद्भावः सिध्यति, सर्वशरीरेभ्यश्च विज्ञानसंतानस्येत्थमर्थान्तरता साधिता भवति, अविच्छिन्न विज्ञानसन्तानात्मकश्चैवं शरीरादर्थान्तरभूत आत्मा सिद्धो भवतीति । तदेवं परभवमङ्गीकृत्याविनष्टस्मरणमावेदितम् ॥ १६७२ ॥ ___ इदानीमिहभवमङ्गीकृत्याह-| अथवा, क्षणिकत्वमभ्युपगम्योक्तम् , अधुना तत् क्षणिकमेव न भवतीत्याह-- न य सव्वहेव खणिअंनाणं पुबोवलइसरणाओ। खणिओ न सरइ भूयं जह जम्माणंतरविनट्ठो॥१६७३॥ न च सर्वथैव क्षणिकं ज्ञानं वक्तुं युज्यते । कथश्चित्तु क्षणिकतां भगवानपीच्छत्येव, इति 'सर्वथैव' इत्युक्तम् । कस्मात् पुनर्ज्ञानं न क्षणिकम् ? इत्याह-पूर्वोपलब्धस्य बालकालाद्यनुभूतस्यार्थस्य वृद्धत्वाद्यवस्थायामपि स्मरणदर्शनात् । न चैतदेकान्तक्षणिकत्वे सत्युपपद्यते । कुतः ? इत्याह- 'खणिओ इत्यादि' यः क्षणिको नायं भूतमतीतं स्मरति, यथा जन्मानन्तरविनष्टः, एकान्तक्षणिक चेष्यते ज्ञानम् , अतः स्मरणाभावप्रसङ्ग इति ॥ १६७३ ॥ क्षणिकज्ञानपक्षे दूषणान्तरमध्याह-- जैस्सेगमेगबंधणमेगंतेण खणियं य विण्णाणं । सव्वखणियविण्णाणं तस्साजुत्तं कदाचिदवि ॥१६७४॥ यस्य वादिनो बौद्धस्य 'एकविज्ञानसंततयः सत्त्वाः' इति वचनादेकमेवासहायं ज्ञानं तस्य 'सर्वमपि वस्तु क्षणिकम्' इत्येवंभूतं विज्ञानं कदाचिदपि न युक्तमिति संबन्धः। इष्यते च सर्वक्षणिकताविज्ञानं सौगतः, 'यत् सत् तत् सर्वे क्षणिकम्' तथा, 'क्षणिकाः १ अथ मन्यसे क्षणिकोऽपि खलु स्मरति विज्ञानसंततिगुणात् । तथापि शरीरादन्यः सिद्धो विज्ञानसंतानः ॥ १६७२ ॥ २ घ. ज. 'कत्वमे'। ||७१४॥ ३ न च सर्वधैव क्षणिकं ज्ञानं पूर्वोपलब्धस्मरणात् । क्षणिको न स्मरति भूतं यथा जन्मानन्तरविनष्टः ॥ १६७३ ॥ ४ यस्यैकमेकबन्धनमेकान्तेन क्षणिकं च विज्ञानम् । सर्वक्षणिक विज्ञानं तस्थायुक्तं कदाचिदपि ॥ १६७४ ॥ काला Jin Education Infoma Forson and Private Us Only www.jainetbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy