________________
विशेषा ०
सर्वसंस्काराः' इत्यादिवचनात् । एतच्च क्षणिकता ग्राहकज्ञानस्यैकत्वे न संभवत्येव । यदि हि त्रिलोकीलगतैः सर्वैरपि क्षणिकैः | पदार्थः पुरः स्थित्वा तदेकं विज्ञानं जन्येत तदा तदेतज्जानीयाद् यदुत- 'क्षणिकाः सर्वेऽप्यमी पदार्थाः' इति । न चैवं सर्वैरपि तैस्तज्जन्यते । कुतः ? इत्याह- 'एगबंधणं ति' यस्मादेकमेव प्रतिनियतं बन्धनं निबन्धनमालम्बनं यस्य तदेकवन्धनं ज्ञानम्, अतः कथमशेषवस्तुस्तोमव्यापिनीं क्षणिकतामवबुध्येत ? । अपिच, एकालम्बनत्वेऽपि ययशेषपदार्थविषयाणामपि ज्ञानानां युगपदुत्पत्तिरिष्यते, आत्मा च तदर्थानुस्मर्ता, तदा स्यादशेषपदार्थक्षणिकतापरिज्ञानम् । न चाशेषार्थग्राहकानेकज्ञानानां युगपदुत्पत्तिरिष्यते ।
॥७१५।।
I
Jain Educations Internation
किञ्च तदेकमध्ये कार्यविषयमपि च विज्ञानं सर्वपदार्थगतां क्षणिकतामज्ञास्यदेव यद्युत्पश्यनन्तरध्वंसि नाभविष्यत् । अविनाश हि तदवस्थिततयोपविष्टं सदन्यमन्यं चार्थमुत्पत्त्यनन्तरमुपरमन्तं दृष्ट्रा 'सर्वमेवास्मद्वर्जमस्मत्सजातीयवर्ज च वस्तु क्षणिकमेव इत्यवबुध्येत, न चैतदस्ति । कुतः १, इत्याह- 'एगंतेण खणियं चेति' यस्य च बौद्धस्यैकान्तेन क्षणिकं क्षणध्वंस्येव विज्ञानं, न पुनश्चिरावस्थायि तस्य कथं सर्ववस्तुगतक्षणिकतापरिज्ञानं स्यात् ? । तस्मादक्षणिकमेव प्रमातृ ज्ञानमेष्टव्यम् । तच्च गुणत्वादनुरूपं गुणिनमात्मानमन्तरेण न संभवति । अतः सिद्धः शरीराद् व्यतिरिक्त आत्मेति ।। १६७४ ।।
उक्तगाथोक्तमेव कञ्चिदर्थं भावयति
सविनय चिजम्माणंतरहयं च तं किह णु । नाहिति सुबहुयविष्णाणविसयखयभंगयाईणि ? || १६७५ ॥ यत् स्वविषयमात्रनियतं जन्मानन्तरहतं च प्रमात् विज्ञानं तत्कथं सुबहुविज्ञानविषयगतान् क्षणभङ्ग-निरात्मकत्व सुख-दुःखतादीन् धर्मान् ज्ञास्यति ? न कथञ्चिदित्यर्थः ।। १६७५ ।।
अत्र परमतमाशङ्क्य परिहरन्नाह
गिहिज्ज सव्वभंगं जइ य मई सविषयाणुमाणाओ । तं पि न जओऽणुमाणं जुत्तं सत्ताइसिडीओ || १६७६ ॥
यदि च परस्यैवंभूता मतिः स्याद् यदुत - एकमपि - एकालम्बनमपि क्षणिकमपि च प्रमातृ विज्ञानं सर्ववस्तुगतक्षणभङ्गं गृह्णीयात् । कुतः ? इत्याह- स्वविषयानुमानात् । एतदुक्तं भवति यस्मादयमस्मद्विषयः क्षणिकः, अहं च क्षणनश्वररूपम्, ततो
१ यद् स्वविषयनियतमेव जन्मानन्तरहतं च तत् कथं नु । ज्ञास्यति सुबहुकविज्ञानविषयक्षयभङ्गकादीनि १ ।। १६७५ ॥ २ गृह्णीयात् सर्वभङ्गं यदि च मतिः स्वविषयानुमानात् । तदपि न यतोऽनुमानं युक्तं सत्तादिसिद्धौ ॥ १६७६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः।
।।७१५।।
www.jainelibrary.org