SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विशेषा ।।७१६ ।। Jain Education Internatio विज्ञानसाम्यादन्यान्यपि विज्ञानानि क्षणिकानि विषयसाम्याच्चान्येऽपि विषयाः सर्वेऽपि क्षणिकाः, इत्येवं स्वं च विषयाच स्वविषयास्तदनुमानात् सर्वस्यापि वस्तुस्तोमस्य क्षणिकत्वादि गृह्यते । अत्र दूषणमाह- 'तं पीत्यादि' तदपि न युक्तं न घटमानकम् । कुतः १ इत्याह- यतस्तत् स्वविषयानुमानमन्येषां विज्ञानानामन्यविषयाणां च पक्षीकृतानां सत्तादिप्रसिद्धावेव युज्यते । नहि सत्वेनाप्यप्रसिद्धेक्षणिकतादिधर्मः साध्यमानो विभ्राजते । को हि नाम शब्दादिष्वादावेव सच्वेनाप्रतीतेषु कृतकत्वादिनाऽनित्यत्वादिधर्मान् साधयति, 'तत्र पक्षः प्रसिद्ध धर्मी' इत्यादिवचनात् ? । न चेदमेकमेकालम्बनं क्षणिकं च ज्ञानमेतद् वोढुं शक्नोनि यदुत- अन्यज्ञानानि सन्ति, तद्विषयाश्च विद्यन्ते, तेषां च विषयाणां स्वविषयज्ञानजननस्वभावादय एवंभूता धर्माः सन्तीति । एतदपरिज्ञाने च कथमेतेषां क्षणिकतां साधयिष्यति, धर्मिण एवाप्रसिद्धेः १ स्यादेतत् स्वविषयानुमानादेवान्यविज्ञानादिसत्तापि सेत्स्यत्येव, तथाहि - यथाऽहमस्मि तथान्यान्यपि ज्ञानानि सन्ति, यथा च मद्विषयो विद्यते, एवमन्येऽपि ज्ञानविषया विद्यन्त एव; यथा चाहं मद्विषयश्च क्षणिकः एवमन्यज्ञानानि तद्विषयाश्च क्षणिका एवेति, एवं सर्वेषां सत्त्वं क्षणिकता च स्वविषयानुमानादेव सेत्स्यतीति । एतदप्ययुक्तम्, यतः सर्वक्षणिकताग्राहकं ज्ञानं क्षणनश्वरत्वाज्जन्मानन्तरं 'मृत इवाहस्मि, क्षणिकं च' इत्येवमात्मानमपि नावबुध्यते, अन्यपरिज्ञानं तु तस्य दूरोत्सारितमेव । किञ्च तत् स्वविषयमात्रस्यापि क्षणिकतां नावगच्छति, समानकालमेव द्वयोरपि विनष्टत्वात् । यदि हि स्वविषयं विनश्यन्तं दृष्ट्वा तद्गतक्षणिकतां निश्चित्य स्वयं पश्चात् कालान्तरे तद् विनश्येत् तदा स्यात् तस्य स्वविषयक्षणिकताप्रतिपत्तिः, न चैतदस्ति, ज्ञानस्य विषयस्य च निजनिजक्षणं जनयित्वा समानकालमेव विनाशाभ्युपगमात् । न च स्वसंवेदनप्रत्यक्षेण, इन्द्रियप्रत्यक्षेण वा क्षणिकता गृह्यत इति सौगतैरिष्यते, अनुमानगम्यत्वेन तस्यास्तैरभ्युपगमादिति ।। १६७६ ॥ अत्र परस्योत्तरमाशङ्कय निराचिकीर्षुराह वासा उसावि हुवासित्त- वासणिज्जाणं । जुत्ता समेच्च दोण्हं न उ जम्माणंतरहयस्स || १६७७॥ स्यादेतत् पूर्वपूर्वविज्ञानक्षणैरुत्तरोत्तर विज्ञानक्षणानामेवंभूता वासना जन्यते, ययाऽन्यविज्ञान-तद्विषयाणां सच्च-क्षणिकतादीन् धर्मानेककालम्बनं क्षणिकमपि च विज्ञानं जानाति, अतः सर्वक्षणिकताज्ञानं सौगतानां न विरुध्यते । तदप्ययुक्तम्, यतः सापि ३ जानीयाद् वासना तु सापि खलु वासि वासनीययोः । युक्ता समेत्य द्वयोर्न तु जन्मानन्तरहतस्य ॥ १६७७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७१६ ॥ www.janetary.ang
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy