________________
विशेषा०
॥७१७॥
Jain Educationa Internation
वासना वासक चासनीययोर्द्वयोरपि समेत्य संयुज्य विद्यमानयोरेव युक्ता, न तु जन्मानन्तरमेव हतस्य विनष्टस्य । वास्य - वासकयोश्च संयोगेनावस्थाने क्षणिकताहानिप्रसङ्गः । किञ्च, सापि वासना क्षणिका, अक्षणिका वा १ । क्षणिकत्वे कथं तद्वशात् सर्वक्षणिकतापरिज्ञानम् ? | अक्षणिकत्वे तु प्रतिज्ञाहानिरिति ।। १६७७ ।।
तदेवं परपक्षं दूषयित्वा सांप्रतं स्वपक्षमुपदिदर्शयिषुरुपसंहरन्नाह
बहुविष्णाणप्पभवो जुगवमणेगत्थयाऽहवेगस्स । विष्णाणावत्था वा पडुञ्चवित्तीविघाओ वा ॥ १६७८ ॥ विष्णाणखणविणासे दोसा इच्चादयो पसज्जति । न उठियसंभूयच्चुयविण्णाणमयम्मि जीवम्मि ॥१६७९ ॥ तदेवं विज्ञानस्य प्रतिक्षणं विनाशेऽभ्युपगम्यमाने इत्यादयो दोषाः प्रसजन्ति । के पुनस्ते दोषाः ? इत्याह- 'बहुविष्णाणेत्यादि' इत्येवं संबन्धः । क्षणनश्वरविज्ञानवादिना भुवनत्रयान्तर्वर्तिसर्वार्थग्रहणार्थं युगपदेव बहूनां ज्ञानानां प्रभव उत्पादोऽभ्युपगन्तव्यः, तदाश्रयभूतश्च तद्द्दष्टानामर्थानामनुस्मर्ताऽवस्थित आत्माऽभ्युपगन्तव्यः; अन्यथा 'यत् सत् तत् सबै क्षणिकम् ' ' क्षणिकाः सर्वे संस्काराः' 'निरात्मानः सर्वे भावाः' इत्यादि सर्वक्षणिकतादिविज्ञानं नोपपद्येत, तदभ्युपगमे च स्वमतत्यागप्रसक्तिः । अथवा, क्षणिकं विज्ञानमिच्छतैकस्यापि विज्ञानस्य युगपदनेकार्थना - सर्वभवनान्तर्गतार्थग्राहिताऽभ्युपगन्तव्या येन सर्वक्षणिकतादिविज्ञानमुपपद्यते, न चैतदिव्यते, दृश्यते वा । 'विष्णाणावत्था व त्ति' यदिवा, अवस्थानमवस्था, विज्ञानस्यावस्था विज्ञानावस्थाऽभ्युपगन्तव्या भवति । इदमुक्तं भवति- विज्ञानस्यानल्पकल्पाग्रशोऽवस्थानमेष्टव्यम्, येन तत् सर्वदा समासीनमन्यान्यवस्तुविनश्वरतां वीक्षमाणं सर्वक्षणिकतामवगच्छेदिति सर्व प्रागेवोक्तमेव । एवं चाभ्युपगमे विज्ञान संज्ञामात्रविशिष्ट आत्मैवाभ्युपगतो भवति ।
अथैतद् बहुविज्ञानप्रभवादिकं नेष्यते, तर्हि प्रतीत्यवृत्तिविधातः प्राप्नोति । इदमत्र हृदयम् - कारण प्रतीत्याश्रित्य कार्यस्य वृत्तिः प्रवृत्तिरुत्पत्तिरिति यावत् न पुनः कारणं कार्यावस्थायां कथञ्चिदप्यन्वेति इत्येवं सौगतैरभ्युपगम्यते । इत्थं चाभ्युपगम्यमानेइतीतस्मरणादिसमस्तव्यवहारोच्छेदमसङ्गः । एवं हि व्यवहारमवृत्तिः स्याद् यद्यतीतानेकसंकेतादिज्ञानाश्रयस्तत्तद्विज्ञानरूपेण परिणामादन्वयी आत्माऽभ्युपगम्यते । तथाभ्युपगमे च सति प्रतीत्यवृत्त्यभ्युगमविघातः स्यादिति । ननु यदि विज्ञानस्य क्षणविनाश
१ बहुविज्ञानप्रभवो युगपदनेकार्थताऽथवैकस्य । विज्ञानावस्था वा प्रतीत्यवृत्तिविघातो वा ॥ १६७८ ॥ विज्ञानक्षणविनाशे दोषा इत्यादयः प्रसजन्ति । न तु स्थितसंभूतच्युतविज्ञानमये जीवे ॥ १६७९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७१७॥
www.jainelibrary.org