SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥७८३॥ नवरं जिनजन्म-दीक्षा-केवल-निर्वाणमहोत्सवनियोगेन तत्कर्तव्यतानियमेनेह देवा आगच्छेयुः । तत्र सौम्य ! केचिदिन्द्रादयो । निजभक्त्या समागच्छन्ति, केचित् तु तदनुवृत्त्या, अन्ये संशयव्यवच्छेदार्थम् , अपरे तु पूर्वभविकपुत्र-मित्राद्यनुरागात् । समयनिबन्धः- प्रतिबोधादिनिमित्तः संकेतनिश्चयः, तस्माच्च केचिद् देवा इहागच्छन्ति । अन्ये तु महासत्त्वसाध्वादितपोगुणसमाकृष्टाः, केचित्तु । | पूर्ववैरिकनरगणपीडार्थम् , अपरे तु पूर्वसुहृत्-पुत्राद्यनुग्रहार्थम् , केचित्तु देवाः कन्दर्पादिभिरिहागच्छन्ति । आदिशब्दात् साध्वादिपरीक्षाहेतोरिति द्रष्टव्यमिति । तदेवं निरूपितं देवानामत्रागमनकारणम् , अनागमनकारणं च ।। १८७६ ॥१८७७॥ ____ अथ देवसिद्धावन्यदपि कारणमाह जाइस्सरकहणाओ कासइ पच्चक्खदरिसणाओ य । विजा-मंतो-वायणसिद्धीओ गहविगाराओ ॥१८७८॥ उक्किट्ठपुण्णसंचयफलभावाओऽभिहाणसिद्धीओ । सव्वागमसिद्धीउ य संति देव त्ति सद्धेयं ॥ १८७९ ॥ 'सन्ति देवा इत्येतत् श्रद्धेयम्' इति प्रतिज्ञा, जातिस्मरणप्रत्ययितपुरुषेण कथनात् , नानादेशविचारिप्रत्ययितपुरुषावलोकितकथितविचित्रबृहद्देवकुलादिवस्तुवत् ; तथा, कस्यापि तपःप्रभृतिगुणयुक्तस्य प्रत्यक्षदर्शनप्रवृत्तेश्च- केनचित् प्रत्यक्षप्रमाणेनोपलम्भादित्यर्थः, दूरविप्रकृष्टनगरादिवत् , तथा, विद्या-मन्त्रोपयाचनेभ्यः कार्यसिद्धेः, प्रसादफलानुमितराजादिवत् ; तथा, 'गहविगाराउ त्ति' अत्र प्रयोगः- ग्रहाधिष्ठितपुरुषदेहो जीवव्यतिरिक्तादृश्यवस्त्वधिष्ठातृकः, पुरुषासंभाव्यविकारवत्क्रियादर्शनात् , संचरिष्णुयन्त्रव्यतिरिक्तमध्यप्रविष्टादृश्यमानपुरुषाधिष्ठितयन्त्रवत् ; तथा, तपो-दानादिक्रियासमुपार्जितोत्कृष्टपुण्यसंभारफलसद्भावात् , उत्कृष्टपापप्राग्भारफलसद्भावनिश्चितनारकवत, एतच प्रागेव भावितम् । तथा, 'देवाः' इति यदभिधानं ततोऽपि च देवानां सिद्धिः । एतच्चानन्तरगाथायां व्यक्तीकरिष्यते । तथा, सर्वे च त आगमाश्च सर्वागमास्तेष्वविप्रतिपत्त्या सिद्धत्वाच सन्ति देवा इति ॥१८७८॥१८७९।। यदुक्तम्- 'अभिहाणसिद्धीउ त्ति' तद् भावयन्नाह देव त्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मई मणुउ च्चिय देवो गुण-रिद्धिसंपण्णो ॥१८८०॥ ७८३॥ जातिस्मरकथनात् कस्यचित् प्रत्यक्षदर्शनाच्च । विद्या-मन्त्रोपयाचनसिनेमेहविकारात् ॥ १८७८ ॥ उत्कृष्टपुण्यसंचयफलभावादभिधानसिद्धेः । सर्वांगमसिद्धेश्च सन्ति देवा इति श्रद्धेयम् ॥ १४७९ ॥ २देवा इति सार्थकमिदं शुद्धत्वतो घटाभिधानमिव । अथवा मतिर्मनुज एवं देवो गुण-विसंपनः ॥ १८८०॥ Jan Education Internati For Personal and Private Use Only www.janeitrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy