SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विशेषा वृहद्वत्तिः ॥६४६॥ भावनीयेति । तेन वा सचित्तादिद्रव्यविशेषेण निर्देशः, यथा गोमानित्यादि, दण्डीत्यादि, रथीत्यादि ॥ १४९८ ॥ अथ क्षेत्र-कालनिर्देशाबाह-- खेत्ते भरहं तत्थ व भवो त्ति मगह त्ति मागहो व त्ति । सरउ त्ति सारउ त्तिय संवच्छरिउ त्ति कालम्मि॥१४९९॥ क्षेत्रं क्षेत्रीत्यादिकः क्षेत्रोद्देश उक्तः, इह तु तदेव विशिष्ट क्षेत्र क्षेत्रनिर्देशः, यथा 'भरतम्' इत्यादि । अथवा, 'मगह त्ति' मगधा जनपद इत्यादि । तस्मिन् वा क्षेत्रविशेषे भवः क्षेत्रनिर्देश उच्यते, यथा भारत इत्यादि । एतच्च स्वयमेव द्रष्टव्यम् । मगधासु भवो मागध इत्यादि । एतत्तु गाथायामप्यस्तीति । 'कालो कालाईयं' इत्यादिकः कालोद्देश उक्तः, इह तु तस्यैव कालस्य विशिष्टस्य विशिष्टमभिधानं स कालनिर्देशः, यथा शरदित्यादि । तत्र वा कालविशेषे भवः कालनिर्देशोऽभिधीयते, यथा शरदि भवः शारदः, संवत्सरे भवः सांवत्सरिक इत्यादि ॥ १४९९ ॥ अथ समासनिर्देशम् , उद्देशनिर्देशं चाहआयारो आयारवमायारधरो त्ति वा समासम्मि । आवस्सयमावासइ सुत्तत्थधरोऽहवा यं ति ॥ १५००॥ सत्थपरिण्णाई य व अज्झेयाऽयं समासनिद्देसो । उद्देसयनिदेसो सपएसो पोग्गलुद्देसो ॥ १५०१॥ विस्तरवतो वस्तुनः संक्षेपः समासः, तस्य सामान्याभिधानं समासोदेश उक्तः । इह तु तस्यैव समासस्य विशेषाभिधानं समासनिर्देशः । तत्र चाङ्ग-श्रुतस्कन्धा-ऽध्ययनभेदात् त्रिविधः समासोद्देशः पूर्वमुक्तः । इह तु तेषामेव त्रयाणामङ्गादीनां विशेषाभिधानरूपस्त्रिविध एव समासनिर्देशः । तथा चाह- 'आयारो इत्यादि' आचाररूपेणाऽङ्गविशेषाभिधानेन निर्देश्यमानत्वादाचार इति समासनिर्देशः । तेन वाऽऽचारसमासेन निर्देशो यथा-आचारवानित्यादि । तस्माद्वाऽऽचारसमासाद् निर्देशो यथा-आचारधर इत्यादि । श्रुतस्कन्धसमासनिर्देशो यथा- आवश्यकमिति । तेन वाऽऽवश्यकसमासेन निर्देशो यथा- आवश्यकीति । अथवा, तस्मादावश्यकसमासाद् निर्देशो यथा- आवश्यकसूत्रा-ऽर्थधरोऽयमिति । अध्ययनमाश्रित्य समासनिर्देशः कः? इत्याह- 'आचाराने प्रथममध्ययन 1 क्षेत्रे भरतं तत्र वा भव इति मगधा इति मागधो वेति । शरदिति शारद इति च सांवत्सरिक इति काले ॥ १४९९ ॥ २ गाथा १४९३ । ३ आचार आचारवानाचारधर इति वा समासे । आवश्यकमावश्यकी सूत्रा-ऽर्थधरोऽथवाऽयमिति ।। १५..॥ शपरिजादिक्ष वाऽध्येताऽयं समासनिर्देशः । उद्देशकनिर्देशः सप्रदेशः पुद्गलोदेशः ।। १५०१॥ ॥६४६॥ See and international FOC P ant Pro Use Only ww.jaineibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy