________________
विशेषा०
१६०४ ॥
Jain Educationa Internation
तद्भेदात् तत्साध्यस्य मोक्षस्याभावप्रसङ्गः, उपायाभावे उपेयासिद्धेः । ततो मोक्षाभावे निष्फलैव दीक्षा, मोक्षार्थमेव तत्प्रतिपत्तेः, ततस्तदभावे निरर्थकैव सेति । तदेवं द्रव्याननुयोगे निर्दिष्टा दोषाः । १४१४ ।। १४१५ ।। १४१६ ॥
अथ द्रव्यस्य सम्यगनुयोगे गुणानाह
सेमं पयं पयच्छइ सवत्थविणिओगओ जहा घेणू । तह सयपज्जवजोए दव्वं चरणं ततो मोक्खो ॥१४१७॥ यथा परवत्सपरिहारेण स्ववत्सविनियोगाद् गौः सम्यक् पयः प्रयच्छति, तथा द्रव्यमपि वपर्यायविनियोगे सम्यक्चरणं प्रसूते । अनर्थावाप्तिश्च काचिद् न भवति । यतश्चरणात् किम् ?, इत्याह- यतोऽचिराद् मोक्षः प्राप्यत इति । तदेवं द्रव्याननुयोगे तदनुयोगे च दोष-गुणयोर्वत्सगोदृष्टान्त उक्तः ॥ १४१७ ॥
अथ क्षेत्राद्यननुयोगे दोषान्, तदनुयोगे तु गुणान् सोदाहरणानतिदिशन्नाह -
ऐवं वत्ताईसु वि सधम्मविणिओगओऽणुओग त्ति । विवरीए विवरीओ सोदाहरणोऽणुगंतव्व ॥ १४१८॥ मुक्तानुसारेण क्षेत्र काल-वचन- भावेष्वपि स्वधर्मविनियोगत आत्मोचितधर्म योजनादनुयोगः विपरीते तु विपरीतधर्म योजने तु विपरीतोऽननुयोगः सोदाहरणः स्वबुद्ध्या ग्रन्थान्तराच्चानुगन्तव्यो ज्ञातव्यः । तत्रेत्थमतिदिष्टेऽपि मुग्धविनेयानुग्रहार्थ किञ्चिदुच्यते । तत्र क्षेत्रतोऽननुयोगे कुब्जोदाहरणमभिधीयते
प्रतिष्ठाननगरे सौलवाहनां नाम राजा । स च प्रतिवर्ष समागत्य भृगुकच्छे नभोवाहननृपं रुणद्धि । ऋतुबद्धे च काले तत्र स्थित्वा वर्षासु स्वनगरं गच्छति । अन्यदा च रोहके समागते तेन राज्ञा स्वनगरं जिगमिषुणाऽऽस्थान सभामण्डपिकायां तद्ग्रहकमन्तरेणापि भूमौ निष्टतम् । तस्य च राज्ञः पतद्गृहकधारिणी कुब्जा समस्ति । तया चातीच भावज्ञतया लक्षितम्- नूनं परिजिहीर्षुरिदं स्थानं नरपतिर्यास्यति प्रभाते स्वनगरम् तेनेत्थमिदं निष्ठीवति । इति संचिन्त्य निगदितं कथमप्यात्मपरिचितस्य यानशालिकस्य । ततस्तेन प्रगुणीकृत्य यानान्यगच्छत एवं राज्ञः पुरतोऽपि मवर्तितानि । तत्पृष्ठतश्च सर्वोऽपि स्कन्धावारः प्रवृत्तो गन्तुम् । व्याप्तं च नभोमण्डलं कटक धूलीनिकरेण । ततचिन्तितं विस्मितमनसा नराधिपेन- ननु मया कस्यापि प्रयाणकं न कथितम्, धूलीभयात् किलाह
१ सम्यक् पयः प्रयच्छति स्ववत्सविनियोगतो यथा धेनुः । तथा स्वपर्यांययोगे द्रव्यं चरणं ततो मोक्षः ॥ १४१७ ॥ २ एवं क्षेत्रादिष्वपि स्वधर्मविनियोगतोऽनुयोग इति । विपरीते विपरीतः सोदाहरणोऽनुगन्तवत्रः ॥ १४३८ ॥ ३ क.ग. 'शाल' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६०४॥
www.jainntbrary.org