SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विशेषा० ENESSONSENDARSH ॥६०७॥ शस्तस्कमकाकर कामाला ततो गाढं ताडयित्वा शिक्षितः, यथा-'नत्थं पूत्कुर्वाणैहप्रयोजनानि भण्यन्ते, किन्तु वस्त्रेण मुखं स्थगयित्वा कर्णाभ्य% च स्थित्वा शनैः कथ्यन्ते । ततोऽन्यदा वहिदीप्ते गृहे गतोऽसौ राजसभायां शनैरग्रतः स्थित्वा वस्त्रं च मुखद्वारे दवा कथितं च तस्य कर्ण । ततः संभ्रमाद् धावितो गृहाभिमुखं ठक्कुरः । दग्धं च ससर्वस्वं सर्वमपि गृहम् । ततः कुपितेन वाढं ताडितोऽसौ ठक्कुरेण । भणितश्च- निलक्षण ! प्रथममेव धूमे निर्गते जलाचाम्ल-धूलि-भस्मादिकं किमिति त्वया न निक्षिप्तम् ?, महता च शब्देन किमिति स्वया न पूत्कृतम् ।। तेनोक्तम्- अन्यदेत्थं करिष्यामीति । ततः कदाचिद् विहितस्नानो धूपनायोपविष्टष्ठक्कुरः। निर्गता च प्रच्छादनपट्टस्योपर्यगुरुधुमशिखा । दृष्टा च. ग्रामेयकेण । क्षिप्ता चोत्पाट्य तदुपर्याचाम्लभृतमहास्थाली, जल-धूली-भस्मादिकं च, तथा च पूत्कृतं महद्भिः शब्दैरिति । ततः 'अयोग्योऽयम्' इति निष्काशितो गृहात । एवं शिष्योऽपि यावन्मानं वचनं गुरुः कथयति, तावन्मा. त्रमेव स्वयं द्रव्य-क्षेत्र-काल-पराभिप्रायोचित्यपरिज्ञानशून्यो यो वक्ति तस्य वचनाननुयोगः, यस्तु द्रव्य-क्षेत्राद्यौचित्येन वक्ति तस्य तदनुयोग इति । भावाननुयोगा नुयोगयोः सप्तोदाहरणानि- तत्र श्रावकभार्योदाहरणमुच्यते- एकेन गृहीताणुव्रतेन तरुणश्रावकणातीव रूपवती, कृतारूपशृङ्गारा निजपत्न्या एव सखी कदाचिद् दृष्टा, गाढमध्युपपन्नश्च तस्याम् , परं ल जादिना किमपि वक्तुपशक्नुवंस्तत्प्राप्तिचिनाया च प्रतिदिनमतीव दुर्वलीभवति । निर्बन्धेन पृष्टं कारणं स्वभार्यया । कथितं च कथं कथमपि तेन । तया चातीव दक्षतया प्रोक्तम्- एतावन्मात्रेऽप्यर्थे कि खिद्यते ?, प्रथममेव ममैतत् किं न कथितम् ?, स्वाधीना हि मम सा, आनयामि सत्वरमेवेति । ततोऽन्यदिने भणितो भर्ता- अभ्युपगतं सहर्षया तया युष्मत्समीहितम् , प्रदोषे चागमिष्यति, परं लज्जालुतया वासभवनप्रविष्टमात्रापि प्रदीपं विध्यापयिष्यति । तेनोक्तम्- एवं भवतु । किमित्थं विनश्यति ?। ततो वयस्यायाः सकाशात् किश्चिद् निमित्तमुद्भाव्य याचितानि तया तदीयानि स्वभदृष्टपूर्वाणि प्रधानवस्त्राणि, आभरणानि च । ततो गुटिकादिप्रयोगतो विहितसखीसदृशखरादिस्वरूपा, तथैव कृतशृङ्गारा तत्सदृशललितेन, विलासैश्वान्विता तस्यैव श्राद्धस्य भार्या संनिहितवरकुसुम-ताम्बूल-श्रीखण्डा-गुरु-कर्पूर-कस्तूरिकादिसमस्त| भोगाङ्गा विहितामलप्रदीपालोके रमणीये वासभवने सविलासमन्वविशत् । ततो दृष्टा सोत्कण्ठविस्फारितदशा त्रिदशकल्लोलिनीपुलिनप्रतिस्पर्धिपल्यकोपविष्टेन झगित्येव नयन-मनसोरमृतवृष्टिमिवादधाना तेनैषा । तथा च दृष्टमात्रया विध्यापितः प्रदीपः । क्रीडितं च विविधगोष्ठीप्रबन्धपूर्वकं तया सह निर्भरं तेन । गतायां च तस्यां प्रत्युषसि चिन्तितमनेन " सयलसुरा-ऽसुरपणमियचलणेहिं जिणेहिं जं हियं भणियं । तं परभवसंबलयं अहह ! मए हारिअं सीलं ॥१॥" । १ सकलसुरा-मुरप्रणतचरणैजिनयंद्रितं भणितम् । तत् परभवशम्बलकमहह ! मया हारितं शीलम् ॥1॥ कमानस्थल A||६०७॥ For Personal and Private Use Only www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy