________________
विशेषा०
बृहदत्तिः ।
॥७२०॥
वेदोक्तद्वारेणापि देहव्यतिरिक्तमात्मानं साधयितुमाह... 'देहाणण्णे व जिए जमग्गिहोत्ताई सग्गकामस्स । वेयविहियं विहण्णइ दाणाइफलं च लोयम्मि ॥१६८४॥
शरीरमात्रे जीवे सति गौतम ! यत् स्वर्गकामस्य वेदविहितमग्निहोत्राद्यनुष्ठानं तद् विहन्यते, देहस्य वविनाऽत्रैव भस्मीकर| णात् , जीवाभावे कस्यासौ स्वर्गो भवेत् ? इति भावः । दानादिफलं चानुभवितुरभावात् कस्य भवेत् ? इति ॥१६८४ ॥
विरुद्धवेदपदश्रवणनिबन्धनश्चैष वायुभूतेजीव-शरीरयोर्भेदाभेदविषयः संशयः । अतो वेदपदार्थकथनद्वारेणापि तमपाकुनाह
विण्णाणघणाईणं वेयपयाणं तमत्थमविदंतो । देहाणण्णं मन्नसि ताणं च पयाणमयमत्थो ॥ १६८५ ॥
विज्ञानघनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरमित्यादिव्याख्या पूर्ववदेव। अत एव प्रागुक्तम्- 'शरीरतया परिणतो भूतसंघा| तोऽयं विद्यमानकर्तृका, आदिमत्पतिनियताकारत्वात् , घटवद्, यश्च तत्कर्ता स तदतिरिक्तो जीवः' इति । भूतातिरिक्तात्मप्रतिपादकानि | च वेदवाक्यानि तवापि प्रतीतान्येव । तद्यथा- "सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो विशुद्धो यं पश्यन्ति धीरा | यतयः संयतात्मानः" इत्यादि । तदेवं सर्वेषामपि वेदवाक्यानां भूतातिरिक्तस्य जीवस्य प्रतिपादकत्वाद् भूतेभ्योऽतिरिक्तं जीवं प्रति| पद्यखेति ॥ १६८५ ॥
एवं भगवता संशयेऽपनीते सति वायुभूतिः किं कृतवान् ? इत्याह'छिन्नम्मि संसयम्मि जिणेणं जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥१६८६॥ व्याख्या पूर्ववत् ।। इति द्विचत्वारिंशद्गाथार्थः ॥ १६८६ ॥
॥ इति तृतीयो गणधरवादः समाप्तः ॥
७२०॥
१ देहानन्ये वा जीवे यदग्निहोत्रादि स्वर्गकामस्य । बेदविहितं विहन्यते दानादिफलं च लोके ॥ १६८४ ॥ २ विज्ञानघनादीनां वेदपदानां त्वमर्थमविदन् । देहानन्यं मन्यसे तेषां च पदानामयमर्थः ॥ १६८५ ॥ ३ गाथा १६.४।
Edita
internet
For
o
n
Private Use Only
स
www.jainelbrary.org