SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ RSS विशेषा हिट BookOCCIO-OS असओ खरसंगरस व सओ वि दूराइभावओऽभिहिया। सुहुमा-ऽमुत्तत्तणओ कम्माणुगयस्य जीवस्स ॥१६८३॥ यदि नाम शरीरादन्योऽसौ जीवस्ततो घटे चटक इव शरीरे प्रविशन् निःसरन् वा किमिति नोपलभ्यते ? । भगवानाह'गोयमेत्यादि' यतो द्विविधाऽनुपलब्धिरस्ति, अतस्तस्यानुपलब्धेः कारणाद् गौतम ! जीवो न दृश्यते । कथं पुनः साऽनुपलब्धिद्विविधा ? इत्याह-सा चानुपलब्धिरेकाऽसतो भवति, यथा खरशृङ्गस्य । द्वितीया तु सतोऽप्यर्थस्य भवति । कुतः ? इत्याह- दूरा| दिभावादिति, दूरात् सन्नप्यर्थो न दृश्यते, यथा स्वर्गादिः, आदिशब्दात्- अतिसंनिकर्षात् , अतिसौम्यात् , मनोऽनवस्थानात् , इन्द्रियापाटवात् , मतिमान्द्यात् , अशक्यत्वात् , आवरणात्, अभिभवात् , सामान्यात् , अनुपयोगात्; अनुपायात् , विस्मृतेः, दुरागमात् , मोहात् , विदर्शनात् , विकारात् , अक्रियातः, अनधिगमात् , कालविप्रकर्षात् , स्वभावविप्रकर्षाच्चेति । तत्रातिसंनिकर्षात् सन्नप्यों नोपलभ्यते, यथा नेत्रदृषिका पक्ष्मादिः । अतिसौम्यात् परमाण्वादिः । मनोऽनवस्थानात् सतोऽप्यनुपलब्धिर्यथा नष्टचेतसाम् । इन्द्रियापाटवात् किश्चिदधिरादीनाम् । मतिमान्यादनुपलब्धिः सतामपि मूक्ष्मशास्त्रार्थविशेषाणाम् । अशक्यत्वात् स्वकर्ण-कृकाटिका-मस्तक-पृष्ठादीनाम् । आवरणाद् हस्तादिस्थगितलोचनानां कट-कुट्याद्यावृतानां वा । अभिभवात् | प्रमृतसूरतेजसि दिवसे तारकाणाम् । सामान्यात् मूपलक्षितस्यापि माषादेः समानजातीयमाषादिराशिपतितस्याप्रत्यभिज्ञानात् सतोऽप्यनुपलब्धिः। अनुपयोगाद् रूपोपयुक्तस्य शेषविषयाणाम् । अनुपायात् शृङ्गादिभ्यो गोमहिष्यादिपयःपरिमाणजिज्ञासोः । विस्मृतेः पूर्वोपलब्धस्य । दुरागमाद् दुरुपदेशात् तत्पतिरूपकरीतिकादिविप्रलम्भितमतेः कनकादीनां सतामप्यनुपलब्धिः। मोहात् सतामपि | जीवादितत्त्वानाम् । विदर्शनात् सर्वथाऽन्धादीनाम् । वार्धक्यादिविकाराद् बहुशः पूर्वोपलब्धस्य सतोऽपनुपलब्धिः । अक्रियातो | भूखननादिक्रियाऽभावाद् वृक्षमूलादीनामनुपलब्धिः । अनधिगमात् शास्त्राश्रवणात् तदर्थस्य सतोऽप्यनुपलब्धिः । कालविप्रकर्षाद् भूत-भविष्यदृषभदेव-पद्मनाभतीर्थकरादीनामनुपलब्धिः। स्वभावविकर्षाद् नभःपिशादीनामनुपलम्भः । तदेवं सतामप्यर्थानामेकविं. | शतिविधाऽनुपलब्धिः प्रवर्तते । अतोऽस्य कर्मानुगतस्य संसारिणो जीवस्याऽमूर्तत्वाद् नभस इव, कार्मणस्य तु सौक्ष्म्यात् परमाणोरिव सतोऽनुपलब्धिः, नासतः । कथं पुनरेतज्ज्ञायते- नासत आत्मनोऽनुपलब्धिः, किन्तु सतः ? इति चेत् । उच्यते- अनुमानस्तत्सत्वस्य साधितत्वादिति ॥ १६८२ ।। १६८३ ।। असतः खरभङ्गस्येव सतोऽपि दूरादिभावतोऽभिहिता । सूक्ष्मा-ऽमूर्तत्वतः कर्मानुगतस्य जीवस्य ।। १६८३ ॥ ७१९॥ JamEducational Internation Foc Personal and Private Use Only www.jamelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy