SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । सुमनोमालालड्कृतान् भवनपति-प्यन्तर-ज्योतिष्क-वैमानिक-लक्षणांश्चतुर्विधदेवसंघातान् मम वन्दनाथमिहेव समवसरणागतान् विशेषा०प्रत्यक्षत एव पश्यति ॥ १८६९ ॥ अथैतदर्शनान पूर्व य आसीत् संशयः, स युक्तोऽभवत् । नैवम् । कुतः ? इत्याह--- ७८०॥ 'पुव्वं पि न संदेहो जुत्तो जं जोइसा सपच्चक्खं । दीसंति तक्कया वि य उवघाया-ऽणुग्गहा जगओ ॥१८७०॥ इह समवसरणागतदेवदर्शनात् पूर्वमपि तवान्येषां च संशयो न युक्तः, यद् यमाचन्द्रा-ऽऽदित्यादिज्योतिष्कास्त्वया सर्वेणापि च लोकेन स्वप्रत्यक्षत एव सर्वथा दृश्यन्ते । अतो देशतः प्रत्यक्षत्वात् कथं समस्तापरास्तित्वशङ्का । किञ्च, सन्त्येव देवाः, लोकस्य तत्कृतानुग्रहो-पघातदर्शनात् । तथाहि- दृश्यन्त कचित् केचित् त्रिदशाः, कस्यापि किञ्चिद्विभवपदानादिनाऽनुग्रहम् , तत्महरणादिना चोपघातं कुर्वन्तः । ततो राजादिवत् कथमेते न सन्ति ? इति ।। १८७० ॥ पुनरपि परमाशङ्कय ज्योतिष्कदेवास्तित्वं साधयन्नाहआलयमेत्तं च मई पुरं व तव्वासिणो तह वि सिद्धा । जे ते देव त्ति मया न य निलया निच्चपरिसुण्णा॥१८७१॥ अथैवंभूता मतिः परस्य भवेत्- आलया एचालयमा चन्द्रादिविमानानि, न तु देवाः, तत् कथं ज्योतिष्कदेवानां प्रत्यक्षत्वमभिधीयते । किं तद् यथाऽऽलयमात्रम् ? इत्याह- 'पुरं ति' यथा पुरं शून्यं लोकानामालयमात्रं स्थानमात्रं, न तु तत्र लोकाः सन्नि, एवं चन्द्रादिविमानान्यप्यालयमात्रमेव, न तु तत्र देवाः केचित् तिष्ठन्ति, अतः कथं तेषां प्रत्यक्षत्वम् ? । अत्रोत्तरमाह- तथापि तद्वासिन आलयवासिनः सामर्थ्याद् ये सिद्धास्ते देवा इति मताः संमताः । यो ह्यालयः स सर्वोऽपि तन्निवासिनाधिष्ठितो दृष्टः, यथा प्रत्यक्षोपलभ्यमाना देवदत्ताधधिष्ठिता वसन्तपुराद्यालयाः, आलयाश्च ज्योतिष्कविमानानि, अत आलयत्वान्यथानुपपत्तेयें तन्निवासिनः सिद्धास्ते देवा इति मताः । आह-ननु कथं ते देवाः सिध्यन्ति । यादृशा हि प्रत्यक्षेण देवदत्तादयो दृश्यन्ते तेऽपि तादृशा एव स्युरिति । तदयुक्तम् , विशिष्टा हि देवदत्ताद्यालयेभ्यश्चन्द्राद्यालया इति, अतस्तन्निवासिनोऽपि विशिष्टाः सिध्यन्ति, ते च देवदत्तादिविलक्षणा देवा इति । अपरस्त्वाह- ननु 'आलयत्वात्' इत्ययं हेतुस्तन्निवासिजनसाधनेऽनैकान्तिकः, शून्यालयद्यभिचारात् । अत्रोत्तरमाह- 'न य , पूर्वमपि न संदेहो युक्तो यज् ज्योतिष्काः स्वप्रत्यक्षम् । दृश्यन्ते तत्कृता अपि चोपघाता-उनुग्रहा जगतः ।। १८७० ॥ २ प. ज. 'न्द्रादिग्यो' । ३ आलयमात्रं च मतिः पुरमिव तहासिनस्तथापि सिद्धाः । ये ते देवा इति मता न च निलया नित्यपरिशून्याः ॥ १८ ॥ म गर ||७८०॥ For Pesand Private Use Only T ww.jaineltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy