________________
विशेषा० ॥६४८॥
Jan Education Internatio
नैके गमा वस्तुधर्मपरिच्छेदा यस्यासौ ककारवर्णनाशाद् नैगमः, अनेकप्रकारवस्त्वभ्युपगमपर इत्यर्थः, नैगमश्वासौ नयश्च नैगमनयः । स द्विविधमपि 'निर्देश्यवशाद् निर्देशकवशाच्च निर्देशमिच्छति' इति शेषः, लोकव्यवहारपरत्वात्, अनेकगमरूपत्वाच्चास्य नयस्य । लोके च निर्देश्यवशात्, निर्देशकवशाच्च निर्देशप्रवृत्तिर्दृश्यते । तत्र निर्देश्यवशाद् यथा- 'वासवदत्ता, तरङ्गवती, प्रियदर्शनाकथा' इत्यादि । निर्देष्टृवशात्तु मनुना प्रणीतो भन्यो मनुः, अक्षपादेनोक्तोऽक्षपाद इत्यादि । लोकोत्तरे तु निर्देश्यवशात्, षड्जीवनिकायप्रतिपादकमध्ययनं पजीवनिका, साध्वाचारप्रतिपादको ग्रन्थ आचार इत्यादि । तथा निर्देशकवशाद् निर्देशों यथाकपिलेन प्रणीतं कापिलीयमध्ययनम्, हरिकेशिना प्रणीतं हरिकेशीयम् केशि-गौतमाभ्यामभिहितं कशि- गौतमीयम्, नन्दिसंहिता, जिनप्रवचनमित्यादि । एवं सावद्यविरमणरूपं सामायिकं रूढितो नपुंसकमिति कृत्वा निर्देश्यवशाद् नैगमो नपुंसकनिर्देशमेवास्य मन्यते, यथा- सामायिकं नपुंसकमिति । तथा, सामायिकं निर्देष्टुः स्त्री-पुं-नपुंसकलिङ्गत्वात् तद्वशात् सामायिकस्य त्रिलिङ्गताऽप्येतन्मतेन भवति, यथा सामायिकं स्त्री, सामायिकं पुरुषः, सामायिकं नपुंसकमिति यथा वा देवदत्तादिना घटादिशब्दे समुच्चारिते स घटादिशब्द उच्चारयितृदेवदत्तादिपरिणामत्वाद् देवदत्तादिशब्दत्वेन व्यपदिश्यतेः तथा तदभिधेयपृथुबुनोदरायाकारघटादिपदार्थपरिणामत्वाद् घटादिशब्दत्वेनापि लोके निर्दिश्यते । एवं स्वाभिधेयसावद्यविरमणपर्यायत्वात् सामायिकस्य नैगमो नपुंसक - निर्देशं मन्यते, अभिधायकस्त्री-पुरुषादिपरिणामत्वात्तु लिङ्गत्रय निर्देशमप्यस्याभ्युपगच्छति, यथा 'सामायिकं स्त्री' इत्यादि ।
आह- 'दुविहं पि नेगमनओ' एतावन्मात्रोक्तौ 'निर्देश्यवशाद् निर्देशकवशाच्च द्विविधं निर्देशमिच्छति' इति कुतो लभ्यते ? इति । अत्रोच्यते- 'निहिं संग्रहो य ववहारो' इति वचनात् । अत्र ह्ययमर्थः- निर्दिष्टमभिधेयं वस्त्वङ्गीकृत्य संग्रह-व्यवहारौ निर्देशमिच्छतः, निर्देश्यपर्यायत्वाद् वचनस्य, इत्यादियुक्तिश्च भाष्ये वक्ष्यते । तदिदं 'निर्दिष्टं वस्त्वाश्रित्य' इति वचनात् प्रागपि 'दुविहं पि' इत्यत्र निर्दिष्टनिर्देशकवशाद् निर्देश इति गम्यते । 'निद्देसयमुज्जुसुउ ति' निर्दिशतीति निर्देशको वक्ता तमङ्गीकृत्य ऋजुमूत्रो निर्देशमिच्छति । यथा 'सामायिकं स्त्री' इत्यादिः वक्तृपर्यायत्वाद् वचनस्येत्यादि युक्तिरत्रापि भाष्येऽभिधास्यते । 'उभयसरिच्छं च सद्दस्सति' उभयमिह निर्देश्यं निर्देशकं च वस्तु तस्योभयस्य सदृशं समानलिङ्गमेवाश्रित्य शब्दनयस्य 'निर्देशप्रवृत्तिः' इति गम्यते । यदि हि निर्देश्य नपुंसकं तदा निर्देष्टाsपि स्त्री-पुं-नपुंसकलक्षणो नपुंसकमेव, वक्तुर्वाच्योपयोगानन्यत्वेन तद्रूपत्वात् । उपयोग प्रधाना हि शब्दनयाः, ततो यो यत्रोपयुक्तः स तद्रूप एव यथाऽग्न्युपयुक्तोऽग्निः तथा च सति स्त्री-पुरुषावपि यदा रूढितो नपुंसके सामायिके उपयुक्तौ भवतः, तदा निर्देश्यनपुंसकोपयुक्तत्वाद् नपुंसकमेव, तदुपयोगानन्यत्वेन तद्रूपत्वादिति । स्त्री पुरुषो वा
For Personal and Private Use Only
बृहद्वृत्तिः ।
||६४८||
www.jainelibrary.sing