________________
विशेषा.
॥६३९॥
'किं कइविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं भवा-गरिस-फोसणनिरुत्ती ॥१४८५||
उद्देशनं वस्तुनः सामान्याभिधानमुद्देशः, यथा- 'अध्ययनम्' इति । वक्तव्य इति क्रिया सर्वत्र द्रष्टव्या । तथा, निर्देशनं वस्तुन एव विशेषाभिधानं निर्देशः, यथा 'सामायिकम्' इति । निर्गमनं निर्गमः 'कुतः सामायिक निर्गतम्' इत्येवंरूपो वक्तव्यः । तथा, क्षेत्रकालौ च ययोः सामायिकमुत्पन्नं, तो वक्तव्यौ । यद् वक्ष्यत्यत्रैव
बहसाहसुद्धएकारसीए पुव्वण्हदेसकालम्मि | महसेणवणुज्जाणे अणंतरं परंपर सेसं ॥१॥ इति । तथा, कुतः पुरुषात् तद् निर्गतमिति वक्तव्यम् । तथा, 'केन कारणेन गौतमादयः सामायिक भगवतः समीपे शृण्वन्ति' इत्येवंरूपं कारणं वाच्यम् । तथा च वक्ष्यति- 'गोयममाई य सामाइयं तु किंकारणं निसामंति' इत्यादि । तथा, प्रत्याययतीति प्रत्ययः स वक्तव्यः, केन प्रत्ययेन भगवता सामायिकमुपदिष्टम् , केन वा प्रत्ययन गणधरास्तेनोपदिष्टं तत् शृण्वन्ति ?, इत्येतद् वाच्यमित्यर्थः । तथाचाभिधास्यति
केवलनाणि ति अहं अरिहा सामाइयं परिकहेइ । तेसि पि पचओ खलु सव्यण्णू तो निसामंति ॥१॥ तथा, सम्यक्त्वसामायिकस्य च तच्चश्रद्धानं लक्षणं वक्तव्यम् , श्रुतसामायिकस्य जीवादिपरिज्ञानम् , चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्य तु विरत्य-विरतिवरूपं मिश्रलक्षणम् । तथा च सति निर्देक्ष्यति- सद्दहण-जाणणा खलु विरई मीसं च लक्षणं कहए' इत्यादि । एवं नैगमादयो नया वाच्याः । तेषां य नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः। यतोऽभिधास्यति
'मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥१॥' इत्यादि । तथा, कस्य व्यवहारादिनयस्य किं सामायिकमनुमन मिति निर्देष्टव्यम् । तथाच निर्देक्ष्यति
किं कतिविधं कस्य कुत्र केषु कवं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भवा-ऽऽकप-स्पर्शननिरुक्तिः ॥ १४८५ ॥ २ वैशाखशुक्रकादश्या पूर्वाहदेशकाले । महासेनवनोद्यानेऽनन्तरं परंपरं शेषम् ॥1॥ ३ गौतमादयश्च सामायिकं तु फिकारणं निशाम्यन्ति । . केवलज्ञानीत्यहमहन् सामायिक परिकथयति । तेषामपि प्रत्ययः खलु सर्वज्ञ इति निशाम्यन्ति ॥1॥ ५ श्रद्धान-ज्ञानं खलु विरति मिश्रं च लक्षणं कथयत्ति ।। मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥1॥
JanEducationa.intamation
For Personal and ma
n y