SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥७८५॥ 'जमित्यादि' पूर्वार्धस्यायमर्थः- उक्थषोडशिप्रभृतिक्रतुभिर्यथाश्रुति “यम-सोम-सूर्य-सुरगुरु-स्वाराज्यानि जयति" इत्यादीनि देवास्तित्वसूचकानि वेदवाक्यानि देवाभावे वृथैव स्युः । इह चोक्थषोडशिप्रभृतयो यज्ञविशेषा मन्तव्याः । सयूपो यज्ञ एव हि क्रतुरुच्यते, यूपरहितस्तु दानादिक्रियायुक्तो यज्ञ इति । स्वः- स्वर्गः, तत्र राज्यानि जयति- उपार्जयतीत्यर्थ इति । तथा, मन्त्रैरिन्द्रादीनामाहानं देवास्तित्व एवोपपद्यते, अन्यथा वृथैव स्यात् । इन्द्रादीनां मन्त्रपदैराहानमेवमवगन्तव्यम्- “इन्द्र ! आगच्छ मेधातिथे मेपवृषण" इत्यादि । तस्माद् युक्तितो वेदवाक्येभ्यश्च 'सन्ति देवाः' इति स्थितम् । तदेवं छिन्नो मौर्यपुत्रस्य भगवता संशयः ॥१८८३॥ ततः किं कृतवानसौ ? इत्याह'छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ अडुडोहि सह खंडियसएहि ॥१८८४॥ व्याख्या पूर्ववत् । इत्येकविंशतिगाथार्थः ।। १८८४ ।। ॥इति सप्तमो गणधरवादः समाप्तः ॥ अष्टमगणधरवक्तव्यतामाह ते पव्वइए सोउं अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१८८५॥ व्याख्या तथैव, नवरमकम्पितनामा द्विजोपाध्यायोत्र वक्तव्यः॥ १८८५ ।। ततः किम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तण य सब्वण्णू सव्वदरिसी णं ॥१८८६॥ व्याख्याता तथैवेति ॥ १८८६ ॥ नाम-गोत्राभ्यामाभाष्य ततोऽसौ भगवता किमुक्तः ? इत्याह *किं मण्णे नेरइया अस्थि नत्थि त्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ १८८७ ॥ १ गाथा १८६३ । २ तान् प्रजाजितान् श्रुत्वाऽकम्पित आगच्छति जिनसकाशम् । बजामि वन्दे वन्दित्वा पर्युपासे ॥ १८८५॥ ३ गाथा १६०९। ४ किं मन्यसे नैरयिकाः सन्ति न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १८॥ ॥७८५ Jan Education inte Forson and Private Us Only www.jaineibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy