________________
॥६०१॥
तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिममापि वृद्धिं यास्यति, श्रुतस्य चाव्यवच्छित्तिर्भविष्यतीति । एवं पञ्चभिरभिप्रायैः श्रुतं सूत्रार्थतोवाचयेदिति । एषामेव संग्रहादिभावानां मध्याद् द्वि-व्यादिभिर्भावैः सर्वैर्वाऽनुयोगं कुर्वतो भावैरनुयोगः। क्षायोपशमिके भावे स्थितस्य व्याख्या कुर्वतो भावेऽनुयोगः। भावेषु पुनर्नास्त्यनुयोगः, क्षायोपशमिकत्वेन तस्यैकत्वात् । अथवा, एकोऽपि क्षायोपशमिको भावप्रचारा| दिशास्खलक्षणविषयभेदाद् भिद्यते । ततश्चाचारादिशास्त्रविषयभेदभिन्नेषु क्षायोपशमिकभावेष्वप्येष भवत्यनुयोगः, न कश्चिद्
विरोधः । 'वा' इति अथवा, स्वामित्वमासाद्यानुयोगकर्लस्वामिनो बहून् प्रतीत्य क्षायोपशमिकपरिणामेषु बहुष्वनुयोगप्रवृत्ती| वेष्वनुयोगो न विहन्यते । इत्युक्तः पडिधो भावानुयोग इति ।। १४०६ ॥ १४०७॥
एषां चानुयोगविषयाणां द्रव्यादीनां परस्परं यस्य यत्र समादेशः, भजना वा, तदेवाहदेब्वे नियमा भावो न विणा ते यावि खेत्त-कालेहिं । खेत्ते तिण्ह वि भयणा कालो भयणाए तीसु पि ॥१४०८॥
द्रव्ये तावद् नियमाद् भावः पर्यायोऽस्ति, पर्यायविरहितस्य द्रव्यस्य कापि कदाचिदप्यभावात् । तावपि द्रव्य-भावौ क्षेत्रकालाभ्यां विना न संभवतः । द्रव्य-भावयोर्हि नियमवान् सहभावो दर्शित एव । द्रव्यं चावश्यकं कचित् क्षेत्रेऽवगाढमन्यतरस्थितिमदेव च भवति । अतः सिद्धमिदम्- द्रव्य-भावावपि क्षेत्र-कालाभ्यां विना कापि न भवतः । क्षेत्रे तु त्रयाणामपि द्रव्य-काल-भा. वानां भजना विकल्पना- कापि तत्र ते प्राप्यन्ते, कापि नेत्यर्थः, लोकक्षेत्रे त्रयाणामपि भावात् , अलोकक्षेत्रेऽभावादिति ।।
आह- अलोकक्षेत्रेऽप्याकाशलक्षणं द्रव्यमस्ति, वर्तनादिरूपस्तु कालः, अगुरुलघवश्वानन्ताः पर्यायाः सन्त्येव; तत् कथं तत्र द्रव्य-काल-भावानामभावः ? । सत्यम् , किन्त्वाकाशलक्षणं द्रव्यं यत् तत्रोच्यते, तदयुक्तम् , तस्य क्षेत्रग्रहणेनैव गृहीतत्वात् । कालस्यापीह समयादिरूपस्य चिन्तयितुं प्रस्तुतत्वात् , तस्य च समयक्षेत्रादन्यत्राभावात् , वर्तनादिरूपस्य त्वत्राविवक्षितत्वात क्षेत्रग्रहणेनैव तत्र तस्य गृहीतत्वाच्च । पर्यायाश्चेह धर्मा-ऽधर्म-पुद्गल-जीवास्तिकायद्रव्यसंबन्धिनो विवक्षिताः, ते चालोके न सन्त्येव । आकाशसंबन्धिनस्त्वगुरुलघुपर्यायाः क्षेत्रग्रहणेनैव गृहीतत्वाद् नेह विवक्षिताः । इत्यतोऽलोके त्रयाणामपि द्रव्य-काल-भावानामभावः । 'कालो भयणाए तीसु पि त्ति' द्रव्य-क्षेत्र-भावेषु त्रिष्वपि कालो भजनया विकल्पनया भवति, समयक्षेत्रान्तर्वर्तिषु तेषु तस्य भावात् , तद्वहिस्त्वभावादिति । एवं च स्थितानाममीषां द्रव्यादीनां यथासंभवमनुयोगः प्रवर्तत इति ॥ १४०८ ॥
१ घ. छ. 'पामिति सं' । २ द्रव्ये नियमाद् भावो न विना तो चापि क्षेत्र-कालाभ्याम् । क्षेत्रे त्रयाणामपि भजना कालो भजनया त्रिवपि ॥ १४०८ ॥
६.१॥
Jan Education intomation
Foresonal and Pri
n y