________________
बृहद्वृत्तिः ।
क
विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः । तदेवं मुद्गशैलोदाहरणमभिधायोपनयमाह- 'सेलसममित्यादि' यस्य वचनकोटिभिरपि चित्तं न विशेषाभिद्यते, एकमप्यक्षरं तन्मध्याद् न परिणमतीत्यर्थः, स एवंभूतः शैलसमो मुशैलतुल्य इत्यर्थः, तं तथाभूतं शिष्यं ज्ञात्वापि कश्चिद्
ग्राहयतीति ग्राहको गुरुः, ॥६२८॥
"आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव कृतीर्थेनाववारिताः ॥१॥"
इत्यादिश्लोकाविभ्रमितमतिर्गर्वाद् ‘अहममुं ग्राहयिष्ये' इति प्रतिज्ञाय समाचतो महता च संरम्भेणाऽध्यापयितुमारब्धः, तथापि स मुद्गशैलोपमः शिष्योऽक्षरमपि न गृह्णाति । न च मनागपि स्वाग्रहग्रस्तत्वेन बुध्यते। ततश्चैवं यथा पुष्करावर्तः, तथैव सुचिरं क्लेशमनुभूय निर्विद्यते पराभज्यते । ततो विलक्षीभूतो लज्जितश्च निवर्तते तद्ग्रहणादयमाचार्य इति । एवंभूतस्य च शिष्यस्य सूत्रा-ऽर्थदान आगमे प्रायश्चित्तमुक्तम् ।। १४५५ ॥ १४५६ ॥ कुतः १, इत्याह
आयरिये सुत्तम्मि य परिवाओ सुत्त-अत्थपलिमंथो । अन्नेसि पिय हाणी, पुट्ठा वि न दुइया बंझा ॥१४५७॥
एवं शैलसमस्यापि शिष्यस्य सूत्रा-ऽर्थदाने प्रवृत्त आचार्ये, मूत्रेऽपि चागमे परिवादोऽवर्णवादो लोकसमुत्थो भवति; तद्यथाअहो! नास्य मूरे प्रतिपादिका शक्तिः, नापि तथाविधं किमपि परिज्ञानं, यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगमोऽप्यमीषां संबन्धी निरतिशयो युक्तिविकलश्च, इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते ? इत्यादि । तथा, मूत्रा-ऽर्थयोरन्तरायसंभवात् परिमन्यन मर्दनं विनाशनं सूत्रा-ऽर्थपरिमन्थः, तच्छिक्षणप्रवृत्तस्य सूरेरात्मनः सूत्रपठन-परावर्तन-व्याख्यानभङ्गो भवतीत्यर्थः । अपरं च, तद्ग्राहणप्रसक्त सूरावन्येषां शिष्याणां सूत्रा-ऽर्थहानिः- तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनापि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः? इत्याशङ्कयात्रार्थे दृष्टान्तमाह- 'पुट्ठा वीत्यादि' नियमनेन नियन्त्र्य स्तनेषु करैबहुधा स्पृष्टापि वन्ध्या गौन खलु दुग्धदा भवति, एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृङ्गाति । ततस्तादृशस्य सूत्रा-ऽौँ न दातव्यौ, ऐहिका-ऽऽमुष्मिकलशादिबहुदोषसंभवात् । ददाति चेत् , तर्हि समयोक्तमायश्चित्तभागिति । अत्राह- ननु मोक्तोऽसौ मुद्गशैल
। भाचार्य सूत्रे च परिवादः सुत्रा-ऽर्थपरिमन्थः । अन्येषामपि च हानिः, पुष्टापि न दुग्धदा वन्ध्या ॥ १४५७ ॥
999
रनBARMER
६२८॥
Jan Education Internatio
FOC Parman
and Private Use Only
www.jaincibrary.org