________________
७६
रघुवंशमहाकाव्ये ____ अभि०-ऋतुगमनाभावाद्धर्मनाशो मा भूदिति राज्ञीमेव चिन्तयन् पथि स्थितामपि कामधेनुं त्वं प्रदक्षिणादिकर्मणा साधु न सत्कृतवान् ।
हिन्दी-ऋतुकाल में अभिगमन न होने से कहीं धर्मलोप न हो जाय इस भय से केवल रानी का ही चिन्तन करने के कारण तुमने मार्ग में बैठी हुई कामधेनु का प्रदक्षिणादि से सत्कार नहीं किया ॥७६।।
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥७॥ सञ्जीविनी--यस्मात्कारणान्मामवजानासि तिरस्करोषि अतः कारणान्मत्प्रसूतिं मम संततिमनाराध्यासे वयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप शप आक्रोशे' ॥७७॥ ___अन्वयः--यस्मात्, 'स्वम्' माम्, अवजानासि, अतः, मत्प्रसूतिम्, अनाराष्य, ते, प्रजा, न, भविष्यति, इति, सा, त्वाम् शशाप ।
वाच्य०--यस्मात्, त्वया, अहम्, अवज्ञाये, प्रजया, न, भविष्यते, इति, तया, त्वम्, शेपिषे ।
व्याख्या-यस्मात् = यतः, कारणात्, 'त्वम्' माम् = कामधेनुम्, अवजानासि = तिरस्करोषि, अतः= अस्मात्कारणात्, मम= कामधेन्वाः, प्रसूति:= सन्ततिः, मत्सन्ततिः, ताम्, मत्प्रसूतिम्, अनाराध्य = असेवयित्वा, ते=तव, दिलीपस्य, प्रजा= संततिः, न = नहि, भविष्यति = संपत्स्यते, इति = इत्थम् सा= कामधेनः, स्वाम् = दिलीपम्, शशाप = शापं ददौ ।
समा०-मम प्रसूतिः इति मत्प्रसूतिः ताम् मत्प्रसूतिम् । न आराध्य अनाराध्य ।
अभि.--यतस्त्वं मां तिरस्करोष्यतस्तव सन्ततिर्मस्सन्ततेराराधनं विना न भविष्यति, इति सा तुभ्यं शापं ददौ।
हिन्दी-क्योंकि तुम परिक्रमा आदि न करने से मेरा तिरस्कार कर रहे हो अतः मेरी सन्तान की आराधना किये बिना तुम्हें सन्तान न होगी, ऐसा उसने तुम्हें शाप दे दिया ॥७॥ कथं तदस्माभिर्न श्रुतमित्याह
स शापो न त्वया राजन्न च सारथिना श्रुतः। नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥७८॥