Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
________________
सुघाटीका स्था० ९ सू०१४ चक्रयत्तिमहानिधिनिरूपण
२४९ छाया-एकैकः खलु महानिधिः नव नव योजनानि विष्कम्भेण प्रज्ञप्ता, एकैकस्य खलु राज्ञः चातुरन्तचक्रवर्तिनः नव महानिधयः प्रज्ञप्ताः, तद्यथा
नैसर्पः १ पाण्डुकः २ पिङ्गलकः ३ सर्वरत्नः ४ महापद्मः ५। कालश्च ६ महाकालः ७ माणवकः ८ महानिधिः शङ्खः ९॥१॥ नैसर्प निवेशाः प्रभाऽऽकरनगरपत्तनानि च । द्रोणमुखमडम्बानां स्कन्धावाराणां गृहाणां च ॥२॥ गणितस्य च बीजानां मानोन्मानस्य यत् प्रमाणं च । धान्यस्य च बीजानामुत्पत्तिः पाण्डुके भणिता ॥३॥ सर्व आभरणविधिः पुरुषाणां यश्च भवति महिलानाम् । अश्वानां च हस्तिनां च पिङ्गलनिधौ स भणितः ॥४॥ रत्नानि सर्वरत्ने चतुर्दश प्रवराणि चक्रवर्तिनः । उत्पयन्ते एकेन्द्रियाणि पञ्चेन्द्रियाणि च ॥ ५ ॥ वस्त्राणां च उत्पत्तिः, निष्पत्तिः चैव सर्वभक्तीनाम् । रगाणां च धौतानां च सर्या एषा महापद्मे ॥ ६ ॥ काले कालज्ञानं भव्यपुराणं च त्रिषु वर्षेषु । शिल्पशतं कर्माणि च त्रीणि प्रजायाः हितकराणि ॥ ७॥ लोहस्य च उत्पत्ति भवति महाकाले आकराणां च । रूप्यस्य सुवर्णस्य च मणिमुक्ताशिलामवालानाम् ॥ ८ ॥ योधानां च उत्पत्तिरावरणानां च प्रहरणानाम् । सर्वा च युद्धनीतिः माणवके दण्डनीतिश्च ॥ ९ ॥ नाटयविधिर्नाटकविधिः काव्यस्य चतुर्विधस्योत्पत्तिः । शङ्खमहानिधौ त्रुटिताङ्गाणां च सर्वेषाम् ॥ १० ॥ चक्राष्टमतिष्ठानाः अष्टोत्सेधाश्च नव च विष्कम्भाः । द्वादशदीर्घाः मज्जूषासंस्थितिकाः जाहव्याः मुखे ॥ ११ ॥ वैडूर्यमणिकपाटाः कनकमयाः विविधरत्नपरिपूर्णाः । शशिसूरचक्रलक्षणानु समयुगबाहुवदनाश्च ।। १२॥ पल्योपालस्थितिकाः निधिसदृङ्नामानश्च तेषु खलु देवाः । येषां ते आवासाः अक्रेयाः आधिपत्या वा ॥ १३ ॥ एते ते नवनिधयः प्रभूतधनरत्नसञ्चयसमृदाः । ये वशमुपगच्छन्ति सर्वेषां चक्रवर्तिनाम् ॥ १४ ॥ मू० १४ ॥ था०-३२
શ્રી સ્થાનાંગ સૂત્ર : ૦૫