Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri, 
Publisher: Rajendrasuri Jain Granthmala
Catalog link: https://jainqq.org/explore/600186/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Education Internationa श्रीमद्राजेन्द्रसूरि-जैनग्रन्थमालायाः पुष्पम् - ३२ गद्यबद्ध - श्रीचरित्रचतुष्टयम् । ratresोर्विदुषीतरयोः श्रीमत्योः श्रीमानश्री मनोहरश्रियोरन्तेवासिन्योरनवरततपस्यानिरतयोःश्रीभावश्रीविनयश्रियोः सदुपदेशेन- मरुधरदेशीय सियाणानगरवास्तव्य - खांडपिया शा० सूरतिंग जीवराज ऊमाजी, तद्भगिनी ' अकुबाई ' इत्याख्या चैतद्ग्रन्थचतुष्टयं स्वद्रव्यव्ययेन भावनगरस्थ ' आनन्दप्रीन्टिंग मुद्रणालये ' संमुद्राप्य प्रकाशितवन्तः । श्री वीर सं० २४५४, विक्रम सं० १९८४, श्रीराजेन्द्रसूरि सं० २२, सन् १९२८ इस्त्री. For Personal & Private Use Only www.jainvelibrary.org Page #2 -------------------------------------------------------------------------- ________________ श्रीमद्राजेन्द्रसूरि-जैनग्रन्थमालायाः प्रकाशित-पुष्पाणि १ श्री कर्मबोध-प्रभाकर ( गुजराती) २ राइदेवसिय-प्रतिक्रमण ( छोटे अक्षर) ३ जन्ममरणसूतक-निर्णय (गुजराती) ४ स्त्रीशिक्षण-हिन्दी । ५ श्री पंचप्रतिक्रमण ( फुटनोट सहित ) ६ राजेन्द्रसूरिगुणाष्टक-संग्रह (हिन्दी) ७ राइदेवसियपडिक्कण ( बडे अक्षर ) ८ पीतपटाग्रह-मीमांसा (हिन्दी) ९ संक्षिप्त-जीवनचरित्र ( श्रीमद्धनचन्द्रसूरिनी महाराज का नीवनपरिचय हिन्दी) १० अष्टप्रकारी पूना (श्री राजेन्द्रसूरीश्वरजी की) ११ जीवभेद निरूपण-हिन्दी । १२ सप्तव्यसन-परिहार (हिन्दी) |१३ सविधि-साधुपंचप्रतिक्रमणसूत्राणि । १४ श्री जैन रहस्यम् (गद्य संस्कृत चर्चात्मकम् ) १५ जिनगुणमंजूषा (चौथा भाग तृतीयावृत्ति ) १६ जिनेन्द्र गुणगान लहरी । t ion १७ उमेद अनुभव ( दुसरा, तीसरा संस्करण ) .१८ जैनर्षिपटनिर्णय हिन्दी । १९ एकसौ आठ बोलका थोकडा (हिन्दी) २० श्री जैनसुबोध, प्रथम भाग । २१ अध्ययन चतुष्टय ( दशकालिक सूत्र के ४ अध्ययन, हिन्दी शब्दार्थ भावार्थ सहित) २२ रत्नाकर-पच्चीसी सार्थ हिन्दी । २३ श्री मोहनजीवनादर्श हिन्दी। २४ नवपद-पूजा (श्री राजेन्द्रसूरीश्वर-कृत ) २५ श्री गुरुदेव-भजनमाला | २६ श्री देववंदनमाला ( तीसरी आवृत्ति) २७ श्री गुंडली-बिलास ( दुसरा भाग) .२८ गुणानुराग-कुलकम् ( द्वितीयावृत्ति ) २९ यतीन्द्रसेवाफलसुधापान । ३० श्री गुरुदेव-गुण-तरङ्गिणी । ३१ श्री यतीन्द्रविहारादर्श । (ऐतिहासिक) |३२ गयबद्धं-श्री चरित्रचतुष्टयम् । Jain Educa For Personal & Private Use Only hinelibrary.org Page #3 -------------------------------------------------------------------------- ________________ णमो समणस्स भगषत्रो महावीरस्स। सन्मार्गदेशक जैनाचार्य-श्रीमद्विजयराजेन्द्रसूरीश्वरसङ्कलितम् गद्यबई-होलिकाऽऽख्यानम् । इह सकलपदार्था जङ्गमस्थावराद्या, अनिशमहह !! यस्य ज्ञानदृष्टौ स्फुरन्ति । तमखिलकरुणाब्धिं वर्धमानं प्रणम्य, प्रणिगदति सुगौहोलिकाऽऽख्यानमेतत् ॥ १॥ अहो भव्यलोकाः ! चतुर्थारकस्य सार्धाष्टमासाधिकवर्षत्रयेऽवशिष्टे ज्ञातपुत्रोऽनन्तज्ञानी | श्रीमहावीरस्वामी सदाऽनन्तसुखमयं शाश्वतं मोक्षपदमध्यगच्छत् । ततश्चतुष्पष्टिवर्षानन्तरं केवलज्ञानादीन्यनेकानि भव्यवस्तूनि नेशुः। परन्तु चतुर्दशपूर्वधारिणो दशपूर्वधारिणश्चेतस्ततो विचेरुः । एवं कतिपयसमये व्यतीते सति कदाचित् श्रीसुव्रताचार्योऽनेकशिष्यपरिवारपरिवृतः प्राच्येषु । देशेषु विजहार । तत्र होलिकोत्सवस्य प्रभूतप्रवृत्तिमवलोक्य कश्चनान्तेवासी वाचंयमो महानुभाव माचार्य विनयपुरस्सरमित्थं पप्रच्छ-हे भगवन् ! अद्याहं भवदाज्ञानुसारेण यथोचितकुलेषु गोचरी Jan Educa ॥५ t ion ॥ jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ घबद्धं- 10 ग्रहीतुमगमम् । तत्रानेके स्त्रीपुरुषसङ्घा उन्मत्ता इवाश्लील साधुगार्हतं वचनं जल्पन्तो नितान्तानु- ख्यानम्। लिका चितक्रीडाकौतुकानि च कुर्वन्तो निरीक्षिताः। एते मन्दा अकाण्ड एव किमिति प्रलपन्ति ? इति पर्यनुयुक्तः कश्चित् पुमानाचचक्षे। अगारिणां होलिकोत्सवस्य घस्रोऽयम् , अतोऽमन्दानन्दसन्दोहनिमग्ना मनुजा महोत्सवसुखोद्गारमुद्रिन्ति । एवं निशम्य मनस्यचिन्तयम्-केयमनार्यदेशरीतिः। भवतु तावत् भगवन्तं गुरुं गत्वा निवेदयिष्यामि ! अतो हे पूज्यपाद ! इयं होलिकोत्सवप्रवृत्तिः पारम्परिकी वर्तते आधुनिकी वेति मे स्पष्टमभिधीयताम् । ___ एवं श्रुत्वाऽऽचार्यः प्रोवाच-हे विनेय ! नेयं पारम्परिकी किन्त्वाधुनिकी वेदितव्या खलु यतः आगमसागरावगाहनशीलैबहुश्रुतैर्भगवद्भिराचार्यैः-" बहुविधक्केशजाले पञ्चमकाले दुर्गतिप्रदानि बहुनि मिथ्यापर्वाणि प्रादुर्भविष्यन्ति, यत्र ( मिथ्याधर्मे ) संसारवर्तिनोऽनेके जीवा कालवशाद् अज्ञानान्धकारयोगाद्वा संनिपत्य तदासक्ता भविष्यन्ति ” इति ग्रन्थैः समुपदिष्टम् । अत्र पञ्च कारणानि सन्ति । तानि यथा-पञ्चम आरकः १, हुण्डावसर्पिणी कालः२, भस्मग्रहः३, कृष्णपक्षी जीवः ४, दक्षिणार्धं भरतखण्डम् ५, इति पञ्चकारणयोगात् प्रायोऽनेकशः प्राणिनोऽधर्मपरायणा IO॥१॥ For Personal & Private Use Only jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ धर्मविराधका देवगुरुप्रत्यनीका विषयादिलुब्धाश्च भविष्यन्ति । अस्मादेव कारणाद् एते ज्ञानविहिना जना मिथ्याभूतेऽप्यस्मिन् पर्वणि निमग्नाः सन्ति । तथा चायं होलिकोत्सवो लोके कथं प्रावर्तिष्ट इत्येतत् सावधानमनसा श्रोतव्यम् । यदा पञ्चमारकस्य पञ्च शतानि वर्षाणि व्यतीतानि, तदा पूर्वदेशान्तर्गतं सुशोभनं जेतपुरं नामै नगरमभूत् , तत्र जयवर्मा राजा राज्यं चकार । तस्य पत्नी मदनसेना प्रधानं च मतिचन्द्रो बभूव । तस्मिन्नेव नगरे धनाढ्यशिरोमणिमनोरमाख्यः कश्चन श्रेष्ठी प्रतिवसति स्म । विषयसुखमनुभवतस्तस्य चत्वारः पुत्राः समजनिषत । यद्यपि दम्पती तेषु पुत्रेषु निरतिशयं प्रेम चक्रतुस्तथापि तैरपरितुष्य- 2 माणा श्रेष्ठिनी रूपवतीमेकां सुतामियेष । युक्तं चैतत्-यद् योषितः स्त्रीस्वभावात् प्रायः स्त्रीजननमेव | कामयन्ते । एवं कतिपयसमयानन्तरं श्रेष्ठिनी मनोरमां रूपसम्पत्तिसम्पन्नामेकां कन्यां सुषुवे, तदा | पितरौ कुटुम्बवर्गश्चापि नितरां ननन्दुः । जातकर्मानन्तरं जनकोऽतिकुशलान् दैवज्ञान् समाहृय कन्याभाग्यादिकं च पृष्ट्वाऽभूतपूर्वं कन्यानाम च पप्रच्छ । तदा सर्वे काान्तिका मिथो विचार्य होलिका इत्यभूतपूर्वं नाम निर्णीय श्रेष्ठिनमुपदिदिशुः। तच्छृत्वा तत्रत्याः सर्वे जनाः प्रसद्य साधु JanEducati Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ घबद्धं- ख्यानम्। २ ॥ साध्वित्यन्वमोदन्त । श्रेष्ठी च तस्यास्तदेवाभिधानं विधाय ज्योतिर्विद्भयो दक्षिणां दत्वा सत्कृत्य | च तान् विससर्ज । अथेयं होलिका पितृवेश्मनि सुखसमाधिपूर्वकं द्वितीयोद्गतचन्द्रकलेव प्रतिदिनं | ववृधे । यदा द्वादशवर्षा संजाता, तदा विद्याऽभ्यसनाय तां पिता पाठशालायां गुरुसविधे प्राहिणोत् । तत्र पूर्वोपार्जितभाग्योदयादेव स्त्रीणां चतुष्पष्टिकलासु स्तोककालेन निपुणाऽभूत् । अथ माता| पितरौ रूपयौवनसम्पन्नां नानाकलालङ्कृतां सुशीलामिमां कन्यां कस्मै प्रयच्छेवेति चिन्तासन्ताप| सन्तप्तावभूताम् । यदि चास्या अनुरूपो वरो लप्स्यते तदैवेयं सुखमवाप्स्यति नान्यथा, इत्येवं विचार्य प्रतिनगरं तादृशं वरमन्वेष्टुं कृतिनो जनान् प्रेषयत् । दैवयोगात् तस्मिन्नेव पत्तने देवदत्ता| भिधानस्य श्रेष्ठिश्रेष्ठस्यासाधारणधामा जसदेवनामा सुतोऽधिगतः तं लावण्यशालिनं द्वासप्ततिना कलामालिनं परममनोहारिणं विदित्वा होलिकाविवाहं तेन सहाकरोत् । योग्यवरलाभान्महोत्सवसall म्पन्नः श्रीपरिपूर्णभवनः श्रेष्ठी तस्मै वराय प्रचुरतरं पारिवहमदात् । अथ जसदेवो निजसौभाग्यवशात् तत्र परमसुन्दरी होलिका प्रशस्ततराणि नानाविधानि वस्तूनि यथेष्टधनानि च समवाप्य महोदारं निजागारं समागत्य कामकलाकुशलया तया होलिकया सह देवगणां क्रियां निवर्त्य ॥२॥ Intematon For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ S क्रीडितुमारेभे । अथ शिष्यः सविनयो गुरुमन्वयुङ्क-भगवन् ! देवगणा क्रिया कीदृशी भवति, तस्याः स्वरूपं विस्तरेणाहं श्रोतुमिच्छामि। गुरुरुवाच, हे शिप्य ! व्यवहारपक्षे देवस्थानमन्त्यमङ्गलं पाठमहोत्सवस्त्वाद्यमङ्गलं भवति । तत्रान्त्यमङ्गलं द्विविधम्-जैनधर्मसम्बन्धि, मिथ्यात्विसम्बन्धि ४ चेति । तत्र जैनधर्मसम्बन्धि यथा-जैनधर्मावलम्बिनः पुत्री यदि श्वशुरालयं व्रजेत् तदा श्रीजिन मन्दिरमुपेत्य सोत्सवं देववन्दनं यथासंभवं गुरुवन्दनं च विदध्यात्, सम्यक्त्वादि व्रतं नियमं चाभ्युपगच्छेत् । सैव यदि मिथ्यात्विनः स्यात् तदा जैन श्वशुरालये कदाग्रहेण विवदतेऽन्यानपि । | भव्यजनान् मिथ्यात्वं शिक्षयति, अतः पूर्वमेव तस्या धर्मसम्यक्त्वश्रद्धामुत्पाद्य तदनु कृत्यान्तरं तया कारयेदिति । मिथ्यात्विसम्बन्धि यथा-यदि जैनधर्मावलम्बिनस्तनया विवाहविधिना मिथ्याविश्वशुरालयं गच्छति तदा तत्र मिथ्यात्विनो देवानामसंयतीनां गुरुणां च वन्दना सेवां भक्तिं च करोति सेयं ' देवगणा क्रिया' इत्युच्यते । ॥ अथ सा होलिका पतिनिकेतने सुखसमाधिपूर्वकं चिरमुषित्वा पितृवेश्म समासदत् । तत्रापि | जननीजनकप्रमुखानां जनानां प्रमोदातिशयं विदधती कतिपयदिनानि स्थित्वा पुनः स्वधवभवन in Education MIhelibrary.org Page #8 -------------------------------------------------------------------------- ________________ घिबर्द्धलिका ॥३॥ मयासीत् । एवं होलिकाया उभयकुलेऽसकृद् गमनमागमनं चाभूत् । अथो पूर्वभवसंपादितप्रभूतदु- ख्यानम्। कृतोदयेन तस्याः पतिः शूलगदवेदनापरिवाधितचेता विचेष्टमानो वैद्यकविद्याकोविदैः सुचिकित्स्यमानोऽपि नोल्लाघतामलभत, किन्तु तथैव बहुलामीलसंमीलितलोचनोऽनल्पकालं क्लेशमनुभवन् 1 पञ्चत्वमवाप ततोऽस्य पितरौ श्वशुरौ कुटुम्बगणश्चेति सर्वे लोका महाशोकसागरे निममज्जुः ।। पुटभेदनेऽपि महान् हाहाकारः सञ्जातः । तदानीं वृद्धानामेव मृत्युनं च यूनामतस्तमद्भुतं मृत्यु | दृष्वा सर्वे विस्मिता अभवन् । एवं बन्धुजनोऽनल्पदिष्टं विलप्य तस्याग्निसंस्कारादिकानि कृत्यानि | विदधे । द्वादश दिनानि द्वारे नीरं निचिक्षेप, दीपान् ज्वलयाञ्चकार । त्रयोदशे घस्रे स्वजाति भोजनमचीकरत् । एवमेव यथाक्रममैकमासिकं पाण्मासिकं साम्वत्सरिकं च श्राद्धं तर्पणं निवापा. न्तरं चेत्यादि बहुविधं कर्मबन्धनहेतुभूतं मिथ्यात्विनां यत् कृत्यं तत्सर्वं व्यधात्। ततो मातरपितरौ विलपन्ती होलिकां स्वोदवसितं निन्यतुः । तत्र होलिका षोडशवर्षा निवृत्ता। प्रसूजनयितारौ तदीयमदृष्टसंसृष्टं बालवैधव्यकष्टं निवर्तयितुं तस्याः सत्कारातिशयं विदधाते । होलिकाऽपि तत्रादभ्रशर्माधिगम्य प्राक्तनं दुखं विसस्मार प्रत्युत प्रमोदभरं बभार । अथैकस्मिन्नहनि सा स्वहर्म्य IN ॥३॥ in Educ a tion For Personal & Private Use Only ENjainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ मारुह्य गवाक्षद्वारेण विपणिशोभा वीक्षमाणा वङ्गदेशभूपालस्य त्रिभुवनपालस्य पुत्रं धृतालङ्कारजालं परिवेष्टितानुचरवर्गसंजातशोभामालं कामपालं विपणौ विहरमाणमवलोक्य कामशरवर्षभिन्नमानसा Mal व्याकुलीबभूव । सोऽपि गवाक्षस्याधस्तात् गच्छन् होलिकां रतिकल्पामवलोक्य मुमोह, न च ततो दृष्टिमपनेतुमशकत् । उक्तं चनार्यो दीपनिभा लोके, पुरुषाः शलभा इव । अतः स्त्रीषु जगत् सक्तं, निरेति विरलो जनः॥१॥ स्त्रीषु स्मरतडागेषु, निमग्नाः सर्वमानवाः । हा लोके कोऽपि नैवास्ति, तेषामुद्धरणे प्रभुः ॥ २ ॥ कामपालस्तु लोकापवादभीतो होलिकावलोकनात् कथमपि दृष्टिं परावर्त्य तत्क्षणं गृहं जगाम। होलिका तु प्रियदर्शनमलभमाना कामज्वरण परिबाधिताऽभवत् । तस्या अशनं पानं शयनं कार्यान्तरं च किमपि न रुरुचे । सदोद्विग्नमानसा परिजनालापविरसाऽवतस्थे। तदा कस्मात्तस्यास्तादृशीं भयावहां दशां निर्वर्ण्य पितृप्रमुखः सकलो बन्धुवर्गो विव्यथे। सवैद्यानाहूय तस्याश्चिकित्सामकारयत्। मन्त्रयन्त्रानुष्ठान-दोरकबन्धन-दृष्टिदोषापनयनग्रहपूजनानि च व्यधापयत् । अपि च देवसिद्धान् CL भोपा' इत्याख्यान् जनानाकार्य तदीयामवस्थामप्राक्षीत् । ते तु देवालये नर्तनगानवादनानि Ahelibrary.org Page #10 -------------------------------------------------------------------------- ________________ ख्यानम्। प्रबद्धंलेकाऽऽ ४॥ विधायेष्टदेवमावाह्य तदीयदुःखापनयनोपायमुपादिशन् । तद्यथा-पुष्प (देवप्रतिमूर्ति ) धारणं कण्ठे, वेषपरिधानं वरुन्दभोजनमिति । पिता देवसिद्धोपदिष्टमपि सर्वमुपायं चकार तथापि सा न शर्म लेभे। एतस्मिन्नन्तरे श्रेष्ठी लोकमुखादिमां वार्तामशृणोत्-“अस्मिन्नेव नगरे वेदीयाभट्टाभिधस्य भाण्डस्य ढूँढानाम्नी पुत्री बभूव । यदा सा युवती समजानि तदा भरडोपाख्येनैतन्नगरवास्तव्येनाऽचलभूतिना ब्राह्मणेन साकं तस्या उपयामः समुपद्यत । अल्पायुष्कत्वात् स वाडवोऽल्पी यसैवानेहसा पश्चतामयासीत् । अथ सा ढूँढाऽशनपानपरिच्छदशून्यं स्वभवनमपास्य तातधामाध्यवात्सीत् । कर्मगतीनां वैचित्र्यात् तत्रापि मातापितृप्रमुखाः कृत्स्ना अपि बन्धुलोकाः क्रमशः कालकवलीबभूवुः । दारिद्र्याभिभूता बुभुक्षाखिन्नमानसाऽनाथा सा पितृणामौर्ध्वदेहिकं स्वजातिभोजनादिकमपि कृत्यं कर्तुं न शशाक। अथोदरपूरणाय तापसीवेषं विधाय प्रतिसनं पद्मलोचना भिक्षां याचमानाऽधिपत्तनं परिबभ्राम । तादृशीं तामवलोक्य लोकाः पराङ्मुखीभूय प्रायो न ददृशु प्यूचुः । लाभान्तरायकर्मवशात् प्रायेण तया भिक्षापि न सम्यगलम्भि । उक्तञ्च"कृतकर्म क्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम्" ॥१॥ ॥४॥ Lain Edu For Personal & Private Use Only १ w .jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ अथ सा भिक्षादानविमुखानां परिहासपराणां जनानामुपरि द्वेषं कुर्वाणा समन्ततः पर्यटन्ती क्वचित् कांचित् तापसी ददर्श । तां सुचिरमुपास्य मारणमोहनवशीकरणोच्चाटनाकर्षणस्तम्भनगर्भ धारणपातनादीनामनुष्ठानानां चूर्णयोगगुटिकामंत्रयन्त्रौषधप्रयोगमधीत्य च ततो लोकेषु प्रसिद्धिं । प्रतिष्ठां च लेभे । सदा तिलकधारणं देवीपूजनं काषायवसनपरिधानं लोकवञ्चनं चारेभे। अधुनाऽपि सा स्वयोगबलेन प्रयत्नान्तरेणापि लोकानां व्याधीनपसारयन्ती सुखं चोत्पादन्ती जनमा- Tal निताऽस्मिन्नेव पत्तने निवसति । सैव होलिकायाः प्रभूतसन्तापमवगन्तुं निवर्तयितुं च प्रभवति। इति निशम्य श्रेष्ठी तत्क्षणं तां योगिनीमाहृय यथाविधि संपूज्य सभार्यश्चरणयोर्निपत्याञ्जलिं बध्ध्वा प्रार्थयाञ्चक्र—" हे मातः ! दीनजनेष्वस्मासु कृपादृष्टिं विधेहि, शरणागताया अस्या मत्सुतायाः | सन्तापमपाकृत्य परितोषमुत्पादय। यदि च भबादशी महानुभावा दीनजनदाखविमोचनं न करिष्यति तर्हि कोऽन्यस्त्राता भवितुमर्हति। अतो यथाऽस्या रक्षा सत्वरं भवेत् तथा विधीयताम् । महानुभावा | योगिन्येवेनां पुत्रीं मह्यमदादित्येवाद्यारभ्याहं वेदिष्यामि ।' इत्यभिधाय ढूंढायोगिनी पुत्रीसकाशFi मनैषीत् । तत्र सा तस्या नाडी दृष्ट्वा शरीरावयवान् स्पृष्ट्रा हृद्गतं कष्टं पृष्ट्वाऽपि कमपि विशेषव्याधिं in Educa Mainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ द्यिबद्धंलिका ख्यानम् । न निश्चिकाय । तदाऽभिमंत्रितं दोरकं करे बबन्ध, प्रवर्तमानदोषप्रशमनाय बहून् मन्त्रान् जजाप। तथापीदं सर्वमपि प्रयतनमरण्यरोदनमिव निष्फलीवभूव, न खलु तस्याश्चित्ते शान्तिमुत्पादयत् । । तदा सुदूरदर्शिनी योगिनी विस्मितचित्ता चिरं व्यचिन्तयत्-यदत्र सर्वजनाविदितं बाह्यचेष्टाविरहितं | स्त्रीचरित्रं तु नास्ति ? महर्षयोऽपि हि स्त्रीचरित्रं सम्यक् वेदितुं नाशकन् किं पुनरितरे जनाः। यदि च | तद्भविष्यति तर्हि सम्प्रत्येवाहं स्फुटीकरोमि, नेयमबला बाला ममाग्रे स्वाभिसन्धि संवरीतुं क्षमते। इति हृदये समवधार्य तस्मात् स्थानात् निखिलान् लोकानपसार्य रहसि होलिकां पप्रच्छ-वत्से ! | न खलु तब कलेवरे कोऽपि व्याधिरुपलभ्यते, अतो मे पुरः सत्यं सत्यं हृदयस्थितं भावमभिधेहि, किन्ते मनसि वर्त्तते ? मातृतुल्याया ममाग्रे न त्रपा कर्त्तव्या, अहं तावकान् सर्वान् मनोरथान् पूरयिष्यामि। एवं योगिनीवाणी समाकर्ण्य होलिका प्रसद्य व्याजहार । मातः नाद्यावधि मया कस्यापि पुरः स्वाभिप्रायः प्रकटीकृतस्त्वां तु परमहितैषिणी जननीं समवगम्याद्य मानसं भावं विनिवेदयामि। हे मातः ! एकस्मिन्नहनि वङ्गदेशभूपालस्य त्रिभुवनपालस्यात्मजं विजितरतिपालं कामपालमवलोक्य मामक चेतो विचचाल, तदारभ्यैव ममेदृशी दशा निर्ववृते । नाहं तमनधिगम्य जीविष्यामि, अतो in Edi tion Per Private Use Only Page #13 -------------------------------------------------------------------------- ________________ भवती यदि मामकीनं जीवनं समीहते तर्हि तेन समं मम सम्बन्धं कारयतु, नो चेन्नूनं मे निधनं भविष्यति। हूँढा प्रत्यगादीत्-हे बाले ! मुञ्च चिन्ताम् , अल्पीयसैव कालेनाहं ते मनोरथं सफली करिष्यामि, एवं तां समाश्वास्य परिजनमाहृय होलिकामदर्शयत् जगाद च, मया मन्त्रबलेनास्या अर्धं दुःखं निवारितम्, आगामिनि रविवासरे चेयं पूजोपकरणं गृहीत्वा बहिर्नगरं सूर्य्यमन्दिरं समुपेत्य विधिपूर्वकं भगवन्तं भास्वन्तं पूजयेत्, तदाऽस्याः सर्वे शरीरविकाराः प्रशमिष्यन्ति । होलिका त्वीदृशं साङ्केतिकं योगिनीवचनं निशम्य पुलकितगात्रा परमानन्दसिन्धुनिमग्ना किमपि नोवाच । तदीयः पिता तु योगिनी सत्कृत्य सभार्योऽञ्जलिं बद्ध्वेदं प्रत्यभाषत। हे मातः । यावदियं सर्वथा नीरोगी न स्यात् तावत् श्रीमती प्रतिवासरं समागत्य दासजनेष्वस्मासु परमानुकम्पां कुर्वाणाऽत्रैव भोजनमस्याः प्रतिबोधनं च करोतु। अत्याग्रहं निध्याय योगिनी तत्र प्रतिदिनमागमनं भोजनं | प्रतिबोधनं चानुमेने । होलिकाया मातापितरौ समीचीनां योगिनीभक्तिं कर्तुमारेभाते। योगिन्यपि प्रतिघस्रं श्रेष्ठिगेहं समागत्य भोजनं सकपटं होलिकाया अभिमन्त्रणं प्रतिबोधनं च कर्तुं प्रचक्रमे । होलिकाऽपि पितरौ प्रत्यवोचत्-यदहं सम्प्रति योगिनीमन्त्रबलेन विगलितदुःखाऽस्मि, तयाहि in Education For Personal & Private Use Only Ibrary.org Page #14 -------------------------------------------------------------------------- ________________ ख्यानम् । द्यबद्धं- मेऽभिनवं जीवनमुदपादि अतस्तामदृष्ट्वा मुहूर्त्तमपि मे चित्तं न प्रसीदति । अहं तु तां परमेश्वर- लिका रूपां मन्वे, अतो यथा सा सदैव मे दृष्टिपथेऽवतिष्ठेत तथा विधीयताम् । तदा श्रेष्ठी तनया वचनं | मानयन् स्वहर्म्यनिकटे योगिनीकुटीमचीकरत् । स्वगृहएव सदैव तस्या आहारप्रबन्धं च व्यधत्त । II योगीनी च प्रमुदितचित्ता भिक्षावृत्तिं परित्यज्य तत्रैवाशनं होलिकासमीपोपवेशनं मिथो विस्पष्ट रहस्यप्रजल्पनं च कर्तुमुपचक्रमे। ____अथैकदा योगिनी कामपालमुपव्रज्य निखिलां होलिकादशां निजगाद। स तु होलिकादर्शनसमनन्तरमेव स्मरशरप्रवर्षप्रधर्षितवा बभूव, अतो होलिकाया ईदृशीं प्रवृत्तिं श्रुत्वाऽतीव जहर्ष । प्रचुररोमोद्गमप्रकटितप्रभूतशर्माऽनुकूलकाल कामपाल शयौ संधाय प्रियवादिनीं योगिनीं नत्वा प्रत्यूचे-हे मातः ! ममापि तादृशी दशा वर्तते । तां मृगनयनीमनधिगम्याहमनुदिनं मदनमार्गणविधूर्णितचित्तो न किमपि कार्यं कर्तुं प्रभवामि । उक्तं च-" सन्तु विलोकनभाषण-विलासपरिहासकोलपरिरम्भाः । स्मरणमपि कामिनीना-मलमिह मनसो विकाराय ।” तदेवं तां स्मारं स्मारं विकृतचेतसोऽनल्पविकल्पाकुलितस्य मे यथा सत्वरं भूयिष्ठकष्टविनष्टिरिष्टप्राप्तिश्च स्यात् dain Educ a tional For Personal & Private Use Only BY w .jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ | तथा श्रीमत्याऽनुष्ठीयताम् । मामकीनमिमं मनोरथं प्रपूरयन्त्यास्तेऽकारणोपकारिण्या उपकारमाजीवनं स्मरिष्यामि । योगिनी न्यगादीत्-वत्स ! न त्वं स्वमानसं परिखेदय, तूर्णमेवाहं तया | सह त्वां संयोजयिष्यामि, तावत् कालं प्रतिपालयेति । अथ योगिनी कामपालमेवं समाश्वास्य | झटिति होलिकापितरौ समुपगम्य व्याहार्षीत् । श्रेष्ठिन् ! साम्प्रतं भवदीयसुताऽसादितशाता वर्तते, अतो रविवासरान्वितायां चतुर्दश्यामियं पूजोपकरणं गृहीत्वा प्रहरावशिष्टायां निशायां केनापि सह गत्वा मूर्तिमन्तं भास्वन्तमर्चयेत् । अभ्युपगतयोगिनीवचनः श्रेष्ठी स्वलकृतां स्वसुतां योगिनीसहितां मूर्त्तिमदादित्यपूजनाय प्रेषयितुमनुमेने । योगिन्या कामपालोऽभ्यधायि-त्वमागामिन्याश्च. तुर्दश्याः प्रहारावशिष्टायां त्रियामायां बहिर्नगरं भास्करमन्दिरे निभृतमवतिष्ठस्व, तत्र तव मनोरथोऽचिरं सिद्धिमुपयास्यतीति । एतच्च योगिनीवचनं निशम्य कामपालोऽतीव प्रहृष्य मुहुर्मुहुर्यो गिनी स्तत्वा साञ्जलिस्तद्वाक्यमभ्यपजगाम । निर्दिष्टदिने तत्रोपविवेश च । इतः परिजनसहिता योगिनीसमनुगता स्वलकृता होलिका पूजोपकरणपात्रिकामादाय समहोत्सवमादित्यमर्चयितुं प्रतस्थे। तत्र गत्वा योगिनी सूर्यपूजनार्थमागतान् लोकानाहूयोच्चस्वरेण प्रावोचत्-पूर्वमियं होलिका in Educati o nal For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ बद्धं ख्यानम्। पूजां कुर्यात् , तदनु यूयं कुरुथ, अन्यथा मूर्तिमानादित्यः कुपितो भविष्यति, इत्यद्भुतं तद्भाषितं समाकर्ण्य सर्वे तूष्णी यथास्थानमवस्थिताः । होलिका तु तदादेशादेकाकिनी रविमन्दिरं प्रविश्य भास्वन्तं परिपूज्य यावत् प्रदक्षिणीकर्तुमारेभे तावत् परिक्रमणमार्गेऽवस्थितं प्राणनाथं कामपालं ददर्श। स तु तूर्णमुत्थाय सरभसमालिङ्ग्य तन्मुखारविन्दं चिरं परिचुम्ब्य यावदन्तुमारेभे तावदश्रुतयोगिनीवचनः कश्चन मनुजोऽनेकजनवार्यमाणोऽपि तूर्णं सूर्यभवनमनुप्रविश्य दूरादेव तद् दृश्यं ददर्श, तत्क्षणे च प्रतिन्यवर्तिष्ट। होलिका तु स्वानुचितकृत्यं पुरुषान्तरावगतं विदित्वा ल. लज्जे । तद्दोषगोपनाय च स्वाभाविकी मायां निर्माय कामपालं बभाषे-प्रियवर ! यावन्नायात्यत्र | जनता तावत् त्वं सत्वरं मामाहत्योन्मत्त इव किमपि प्रलपन् इतः पलायस्वेति, अवगतकपटजालः कामपालो वामलोचनां विह्वलामवलोक्य नितान्तोन्मत्तमिवात्मानं जनान् संदर्शयन् ' ममेयं स्त्री' इति प्रजल्पन् क्रुद्ध इव तया कलहायमानो मुष्टामुष्टि समनुष्ठीय भीत इव स्वभवनं बभाज, अथ होलिका कुपितेव पलायमानं तमनधिगम्य रोरुद्यमाना पाणिभ्यां स्वशिरस्ताडयन्ती तदलौकिककौतुकावलोकनाय समागतां जनतामिदमूचे-अहो लोकाः ! अथ कश्चन कुपुरुषो मां पस्पर्श, तेन ॥ ७॥ For Personal & Private Use Only Invw.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ N] महापातकबाधिता संजातशीलविघाताऽहं सतीधर्मेणाऽऽत्मानं ज्वलयित्वा लोकान्तरं जिगमिषामि, d अन्यथा शीलनिमीलनकलङ्किताया मे नियतो निरयपात इति प्रलपन्ती यावत् चिताधिरोहणाय | प्रावर्तत तावत् तदीयः पिता समागत्य तां न्यगदत् । पुत्रि ! किं त्वमद्योन्मादिनी समजनि, येनानुचितवचनं ब्रवीषि ! देवदर्शने भवत्येव जनानां संघर्षस्तेन किं कस्यापि शीलभङ्गो भवति । अपरेऽपि तत्रानेक महानुभावाः सहसा समागत्य तां मरणोन्मुखीं न्यवारयन्-" अये बाले ! त्वं | सर्वथा लोकव्यवहाराऽचतुराऽसि, यत्त्वं परपुरुषस्पर्शमात्रेणाऽप्यात्मनः शीलभङ्गमाकलयसि । यदि देवदर्शनादिशुभकार्येऽप्यन्यजनसंस्पर्शेनान्यस्य शीलभङ्गः स्यात् तदा सर्वं जगत् शीलहीनं स्यात् सतीधर्मस्तु सुतरां व्यवच्छिद्येत, विवाहादिशुभकृत्यं वा विलुप्येत । तस्मात् हे अनवद्ये ! त्यज्यतामेष धर्मान्तरायो मरणव्यवसायः । त्वं तु महासती वर्त्तसे, कस्त्वां शीलविहीनां व्याहर्तुं शक्नोति?, उत्तिष्ठ गच्छ स्वोदवसितम्” इति संभावितवचनमनुनिशम्य कपटपटुः सा तूर्णं समुत्थाय प्रमुदितचेताः पितृप्रमुखैबन्धुजनैः सह निजनिकेतनमाययो । तत्र दिवानिशमनिशं योगिनिसकाशमध्यवात्सीत् तदीयपितरौ योगिन्याः परमोपकारममन्येताम् । अथ कामपालो योगिनीसङ्केत Jain Education For Personal & Private Use Only brary.org Page #18 -------------------------------------------------------------------------- ________________ ख्यानम्। बिर्द्धनकाऽऽ 16 वशात् निशि निरन्तरं योगिनीभवनमुपेत्य स्वप्रियया सह समविक्षत् । एवमन्योऽन्यालिङ्गनपरिचुम्बनसंलपनविहसनविहरणरमणैस्तौ स्वच्छन्दमानन्दमनुबभूवतुः। कश्चिदपीमा गुप्तचर्या नावेदीत् , एकदा फाल्गुनशुक्लपूर्णिमायां तौ दम्पती मिथो मन्त्रयाञ्चक्रतुः यत् " षट्कर्णगता वार्ताऽवश्यमेकस्मिन् दिने प्रकटी भवति " इति नियमात् यदि कदाचिदियं कुपिता सती इमामस्मदीयां | कपटकपाटिकामुद्घाटष्यियति तदा नियतं नौ निधनं लोकलज्जया भवितुमर्हति अतोऽद्यैव विभावर्यां सकुटीमेनां रहस्यवेदिनीं योगिनी ज्वलयित्वाऽऽवामन्यत्र गच्छावेति समवधार्य मक्षु वह्निमानीय तत्कुटी स्वकुटी चेत्युभयीं तत्सन्निहितां विरचितामेकां चितां च वलयित्वा सत्वरं ततो विनिर्गत्य तत्रैव नगरे क्वापि तस्थतुः। तपस्विनी योगिनी तु तत्रैव प्रबलपवनोद्भूयमानदहन संस्पर्शनदह्यमानापघनघनाक्रोशनपरा परासुरभूत् । न कोऽपि तदा तदीयमाक्रन्दितमाकर्णितवान् । या महोपकारिणी सकलसुखोपहारिणी तामपीदृशीं दुर्गतिमनैषीत् । कः खलु स्त्रीणां चरित्रं ज्ञातुं शक्नोति ? । उक्तं च-“ मूर्खस्य चित्तं कृपणस्य वित्तं, मनोरथं दुर्जनमानवानाम् । स्त्रीणां चरित्रं पुरुषस्य भाग्यं, देवो न जानाति कुतो मनुष्यः॥१॥" किञ्च-"मधु तिष्ठति वाचि योषितां, हृदि हाला. t ion ॥८ ॥ Sain Edi For Personal & Private Use Only I Taljainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ 17 हलमेव केवलम्। अत एव निपीयतेऽधरो, हृदयं मुष्टिभिरेव ताड्यते" अपि च-" उशना वेत्ति यच्छास्त्रं, यच्च वेद बृहस्पतिः । स्वभावेनैव तच्छास्त्रं, स्त्रीणां बुद्धौ प्रतिष्ठितम् ” अथ प्रभाते महान् | जनसमुदायस्तत्रागमत् । तस्याः पितरौ तां कृत्रिमा चितां संदृश्य निजगदतुः-नूनमेषा होलिका | परपुरुषस्पर्शमात्रशीलभङ्गभयविह्वला बलादस्माभिर्वार्यमाणा मनोवेदनामसहमाना मानधना सुगुताऽप्यद्य गुप्तां चिता रचयित्वा तत्र स्वदेहं ददाहेति । अन्येऽवोचन् “ नैतादृशी धर्मप्राणा सती क्वापि दृष्टा श्रुता वाऽस्माभिः । अवश्यमेषा देवलोकङ्गमिष्यति । इयं तु तस्मिन्नेव दिवसे स्पर्श दोषदूषितं देहं दग्धुमीहमानाऽस्माभिः कथञ्चिन्निवारिता महता कष्टेनैतावन्तं कालमजीवत्” इत्यादि वाक्यमभिधाय यथेष्टं सर्वेषु गतेषु तस्याः पिता चिरं विलप्योर्ध्वदेहिकं कृत्यं कर्तुमारेभे, तदवलोक्य सर्वे कुटुम्बिनो महदाक्रन्दनं कुर्वन्तो हे महासति ! त्वमस्माकं कुले दीपकनिभाऽभासिष्ठाः, हा ! अद्य नोऽनादृत्य कुत्र प्रस्थिता इत्यादीनि वचनानि निगदन्तो महाशोकसागरे निममज्जुः । अन्ये जनाः सतीसंभावनया चितां नमस्कृत्य तदीयं भस्म शिरःसु बिभराम्बभूविरे, केचन तिलकंः चक्रुः, अपरे पुरुषास्तेन भस्मना सङ्ग विलिप्य प्रज्वलन्त्यां तस्यां चितायां नारिकेलफलानि in Educatio For Personal & Private Use Only anelibrary.org Page #20 -------------------------------------------------------------------------- ________________ घबड़ेलिका ९ ॥ 18 . निचिक्षिपुः । इतरे नराः स्वबालकानानीय तां नमस्कारयन्ति स्म। केऽपि मानवा अञ्जलिं बद्धा 'हे ख्यानम्। महासति ! अस्माकमयं मनोरथः पूर्णः स्यात् ' इति यथेच्छं प्रार्थयाश्चक्रिरे। वृद्धा ऊचुः-यः सती- INT भस्म शरीरे लिम्पति तस्य सर्वाणि व्याधिकुलानि विनश्यन्ति । एवं कजलीकृत्य लोचनाञ्जनविधानेन तस्य विकारो विनिवर्तते । भक्षणात् सुतोत्पत्तिः धान्यकोष्ठके निक्षेपणात् तस्याक्षयत्वम् एतेऽन्ये चानेके गुणाः सतीभस्मनि विद्यन्ते इति । एवं वृद्धवचनं निशम्य सकलो लोकः प्रससाद सती माहात्म्यं तद्वतं चाङ्गीचकार । राजकर्मचारिणस्तूर्णं तत्रागत्य चितिभूति गृहीत्वा धान्यागारेषु हस्त्यश्वप्रमुखानां वाहनानां विग्रहेषु कोशगृहेषु स्वजनभवनेषु च प्राक्षिपन्। इत्थं होलिकाया | इज्यासमज्या समग्रं नगरं व्यानशे, ततो देशादेशान्तरं प्रसरन्ती समग्रे भारते प्रससार । अथ तस्या जननीजनयितारौ क्रमशो होलिकाशोकं विस्मृत्य स्वकार्ये प्रावताम् । इतो | होलिकाकामपालौ यथाभिलषितमपरिमितमानन्दमनुवभूवतुः । अधिककालानन्तरमेकस्मिन्नहनि | कामपालो होलिकामभ्यधात्-प्रिये ! धनं विनेह खलु मनुजजीवनं निधननिभं भाति । सांसारिक सुखमपि समुचितमर्थमन्तरेणापार्थ मेव न खल्वात्मानमानन्दयति धनविहीनगृहस्थास्तु मृतप्रायाः JanEdu For Personel Private Use Only jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ 13 सर्वतोऽपमानमनुभवन्तोऽतीवसंसारवेदनां वेदयन्ते । उक्तं च-- नेत्रकज्जलसंकाशं, संभाति गृहिणां धनम् । मसीलेपनिभं वक्त्रे, साधूनां तन्न शोभते ॥ १॥ ___ अतो हे प्राणप्रिये ! यदि त्वमनुमन्यस्व तदाऽहं प्रचुरद्रव्यमुपार्जयितुं देशान्तरं गच्छेयम् । इति प्राणेश्वरवाक्यं समाकर्ण्य होलिका व्यचिन्तयत्-'मया केवलमेतेन साकं कामभोगलाभायैव सर्वमेतदकृत्यमप्यनुष्ठितम , अथापि यद्ययं मामपास्य देशान्तरं गच्छेत् तदा विफलमेव मे यौवनं भवेत् , अत एव कश्चनोपायो विधेयो यथा वल्लभावियोगः प्रभूतद्रविणयोगश्च भवेत् ' इति मनसि समवधार्य प्रत्युवाच-प्रियवर ! सत्यमभिहितं भवता किन्वत्रैव यदि धनोपलब्धिः स्यात् । कृतं तर्हि विदेशगमनेन । सोऽवादीत्-कथमत्रैवार्थागमः संभवति ? साऽवोचत्-उपायेन सर्व संभवति, त्वं मामकीनं वचोऽनुतिष्ठ, भूयिष्ठं द्युम्नमत्रैवाधिगमिष्यसि । तत्र तावत् त्वं मत्पितुराप- | णमुपेत्य ततो ममानभिमतं बहुमूल्यं शाटकमानय । स सपदि ततः समुत्थाय मनोरमश्रेष्ठिनः समुपेत्य सप्रश्रयं बभाषे–“ श्रेष्ठिन् ! ममाङ्गना बहुमूल्यां सर्वोत्तमामेकां शाटिकां सम्प्रति सम्प्रतीच्छति, सा सपदि दीयताम् , अहं तां स्वप्रियां दर्शयिष्यामि. यदि सा अभिनन्दिष्यति तदा Jain Education IN For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ बर्द्ध यानम् । मूल्यं प्रदायाऽऽदास्यामि " । श्रेष्ठी तद्वाक्यं समाकातिप्रसद्य सद्यः समीचीनां शाटिकां नि- तकाऽऽ कास्य तस्मै समपर्यत् । कपटकठिनमनाः स तामादाय स्वप्रियां प्रादर्शयत्, सा तां परिनिरीक्ष्य 'नेयं मेऽभिमता' इति व्याहृत्य प्रत्यार्पयत् । स पुनस्तां गृहीत्वा श्रेष्ठिनो निकटमटित्वा विस्पष्टमाचष्ट । महायशः ! मम वनिता नेमामभिनन्दति तदपरां प्रयच्छ । तेन प्रत्तामपरामपि प्रियां दर्शयित्वाऽनभिमतत्वात् पुनः प्रतिददौ । एवं पञ्चकृत्वोऽकरोत् कामपालः, षष्टे वारे प्रकुपितो मनोरमोऽमनोरमं वचोऽभ्यधत्त । अरे भद्र ! किं त्वमेवं शाटिकाऽऽदानप्रति दानाभ्यां मां व्याकुलीकरोषि ? नाहं पुनर्वस्त्रं दास्यामि । त्वं स्वस्त्रियमत्रैव कथं नाऽऽनयसि ? Mयेन सा यथेच्छं गृह्णीयादिति । ततः कामपालो होलिकां श्रेष्ठिसंनिकष्टमानैषीत । सश्रेष्ठी तस्याः पुरोऽनेकाः शाटिका निधाय यथेष्टं गृहाणेति बभाण । सा शाटिकावलोकनेऽघटत । श्रेष्ठी तु कार्यान्तरमपास्य तदीयमास्यं संपश्यन् विस्मयमवाप- नूनमेषा होलिकेव दृश्यते ' इति यावन्निश्चिनोति तावत् कामपालः कुपित इव तमगदत्--' श्रेष्ठिन् ! किं भवान् मे भार्यामभीक्ष्णं निरीक्षते, वृद्धस्य प्रामाणिकस्य भवतः पराङ्गनायामियं कुदृष्टिोंचिता खलु' इति कामपालवचनं ॥१०॥ in Ed e mnational For Personal & Private Use Only Nw.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Edur 21 निशम्य श्रेष्ठी बाष्पपूरपूरितलोचनो गद्गदस्वरेण तं प्रत्यूचे - - नैषा मे कुदृष्टिः, किन्तु मत्सुतेवेयं दृश्यते, अतोऽहमस्या आकृतिं परिनिरीक्ष्यैनां स्वसुतामेव मन्ये । किन्तु सती मत्सुता तु ज्वलनेन निजकलेवरं ज्वलयित्वा लेखलोकमलञ्चकार । तस्याल्पीयानेवाऽनेहा व्यगमत्, अद्य तु भवद्वनितानामवलोक्य सा मम स्मृतिपथमुपयाति । अतोऽहमेनामद्य भूयोऽवलोकयामि, नात्र भवता सो विधेय इति । कामपालेनाऽभ्यधायि - अस्मिन् भूमण्डले सहस्रशो योषितः पुमांसश्च तुल्यरूपाकृतयोऽवलोक्यन्ते, नात्र चित्रं किमपि तस्मिन् सूर्य्यसपर्यामहोत्सवे भवदात्मजायां मे स्वस्त्रीभ्रमोऽभवत् एवमेवाद्य मम भार्य्यायां भवतः स्वतनयाभ्रमो विद्यते । भवत्पुत्र्या भार्य्यायाश्च रूपादौ भेद एव नास्ति, तेन मिथ्याभ्रमो ऽपनेतव्यः इति तद्वाक्यं श्रुत्वा प्रमुदितवदनो मनोरमः तमवादीत् - - अद्यप्रभृति ते वनिता मे दुहितास्थानमलङ्करोतु, यतो मया ' इयं पुत्री ' इत्यभिहिता, अतः सर्वथेयं मे पुत्री संजाता। कामपालेन निगदितं भाग्यशालिनो भवन्तः, अतोऽसौ भवत्सुतैव भवेत् । महात्मनां परमोदाराचारनिरतानां पञ्चजनानां तु सर्वाः प्रौढाङ्गना भगिनीनीकाशाः, निखिला वालावलास्तु सुतासन्निभा भवन्ति । तनयामन्तराऽन्तः पुरमेव न " Personal & Private Use Only jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ घबद्धं- लिकाऽऽ ख्यानम् । भाति भाग्यशालिनाम् । परिणयनादिसमीचीनमहविहीनं जीवनं भवनं वा किं वनमिव न भवति ? । ततो होलिकाऽलिकमुत्क्षिप्य वचनविरचन चतुरतरा पितरं प्रावोचत्-हे प्रिय पितः ! ममापि पितृकुले कोऽपि नास्ति, भवतः सुता नास्ति, तस्मात् मामेव स्वसुतां विधाय धारयतू. दवसिते। ततो मोहनीयकर्मवशीभूतोऽर्यवर्यस्तद्वाचं सम्यगभिनन्द्य कामपालसहितां होलिकां स्वगृहमनैषीत् । तत्र परमान्नाशनसुवसनपरिधानविविधालङ्करणधारणादिसत्कारं समवाप्य सा परां मुदमवाप । श्रेष्ठी तु स्वमहिलामालपत्-प्रिये ! स्वात्मजाया होलिकायाः स्थानेऽनुरूपमिदं मिथुनं | मन्तव्यम् , तदाकर्ण्य सर्वोऽयवरपरिग्रहो दैवात् साधु साध्विति प्रशशंस । एवं होलिकाकामपालो सुदिष्टसृष्टममन्दमानन्दमनुबभूवतुः। अथ ढूँढावृत्तान्तः श्रोतव्यः । एकदा तस्मिन्नेव पत्तने महामारीरोगः प्रादुर्बभूव । शतशो मानवा नवाविर्भूतप्रभूतरोगयोगेन मनुः । तथापि यदा विषमामयो न विरराम, तदाऽमदाः परिव्या| कुलराजकुलप्रमुखाः सर्वकार्यपराङ्मुखाः परिरक्षन्निजपरिजनांस्तत्पत्तनजनाः स्वस्वसदनान्निर्गत्य माषवलिं गृहीत्वा बहिण्याने संभूय तान् माषानूव॑मुत्क्षिप्याञ्जलिं बवा प्राब्रुवन् । हे देवदान । For Personal & Private Use Only . w.dainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ वयक्षराक्षसभूतप्रेतपिशाचव्यन्तरादयः ! युष्माकं मध्ये केनचन हेतुना कुपितेन येनेयं निखिललोकसंहारकरी महामारी प्रकटीकृता सोऽस्माकं दीनमानसानां प्रार्थनां निशम्य सद्यः प्रसद्याद्य कोपकारणं स्पष्टं स्फुटीकुर्यात् , येन वयं तस्य सम्यक् सपर्या विधाय तदनुकम्पयाऽस्मान्महोपद्रवान्मक्षु मुच्येमहि' इत्यतिदीनादभ्राक्रन्दननिगदनसमनन्तरमेवाम्बरे व्योमभाषा बभूव "अरे! पौराः! वालिशाः! यदि यूयमस्माकमाज्ञां पालयिष्यथ तदैव शुभं भवतां भविष्यति, नान्यथा” इति निशम्य निःशेषा अपि पुरुषास्तारस्वरेण युगपदूचिरे-" भवदीयामाज्ञां सदा वयं पालयिष्याम इति । तदा व्योम्नि देवी बभाषे-अरे नागरिकाः ! यदि यूयं महामारीप्रकोपात् त्राणं समीहध्वे | तदा होलिकाकामपालयोः कुत्सितां निन्दां कुरुत, स्त्रीपुरुषबालकबालिकाः सर्वे मिथस्त्रपामपास्यासभ्यभाषणं कुरुध्वम् , परस्परं गालिं प्रलपत । अत्रत्याः सर्वे नरा होलिकां सती मन्यन्ते, अद्यारभ्य | तामसती मन्यध्वम् , वेश्यावत् तत्र व्यवहरत । माघशुक्लपूर्णिमामारभ्य फाल्गुनशुक्लपूर्णिमापर्यन्तं कामपालं नग्नरूपं रचयित्वा चतुष्पथे स्थापयत । तत्र नितरां लोकनिन्दनीयामसभ्यभाषां | भाषध्वम् । धूलिमण्डलमुड्डापयत । मिथो हास्यविलासमालपत । विवाहिता अविवाहिताश्च सर्वे For Personal & Private Use Only Enelibrary.org Page #26 -------------------------------------------------------------------------- ________________ बर्द्ध लेकाss १२ ।। 24 कामपालं पूजयत। फाल्गुनशुक्लपूर्णिमायां होलिकां ज्वलयत । कामपालं भक्त्वा तदङ्गप्रत्यङ्गशकलानि कुरु । द्वितीये दिवसे प्रतिपदि पुरीषप्रत्रावरजसां प्रतिवर्षं विदधीत । एकं कमपि पुमांसं राजानं रचयित्वा तत्कण्ठे पादत्राणमालां परिधापयत, तन्मस्तके शूर्पातपत्रं विधाय तं गर्दभयानेन सर्वतो भ्रमयत । मार्गे कर्दमाभिषेकेन तं संभावयत । एवं व्योमभाषां श्रुत्वा सर्वे साश्चर्यं तां पप्रच्छुः - भगवति ! होलिका तु लोके परमसतीति प्रसिद्धा तत्कथं तद्विषये भवती एवमाज्ञापयति ? का च श्रीमती इत्यपि विविदिषामि । देव्युवाच - अरे नागरिका मूढाः ! यूयं होलिकारहस्यं न जानीथ, अतो वच्मि, श्रूयताम्-यदेयं होलिका बुद्धिपूर्वकं रुग्णाऽभवत् तदाऽस्याः पिता ढूंढा तापसीमाहूयैनामदर्शयत् । साऽस्याः सर्वाङ्गं परीक्ष्य यदा कमपि व्याधिं नाबुद्धयत, तदा विविक्ते होलिकामन्त्रयुङ्क्त- अयि वाले ! तथ्यमात्थ, किन्ते मनसि वर्त्तते, तदा तदाशयज्ञा यज्ञाद्यनुष्ठानेन मनोरथपूरयित्र्यास्तस्याः पुरो व्यजिज्ञपत् । अयि मातः ! त्वं सत्वरं मां कामपालेन सह सङ्गमय, अन्यथा मे नूनं निधनं भविष्यति । सा तापसी तापसीदद्धृदयायास्तस्या मनोरथमपूरयत् । पतिमुपलभ्य साऽदृष्टसृष्टस्वभावतया तपस्यसितपूर्णिमायां शयानां तापसीं जलयित्वा कामुकेन For Personal & Private Use Only ख्यानम् । ॥ १२ ॥ ww.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ कामपालेन सहास्मिन्नेव पत्तने निभृतमवात्ताम् । सम्प्रति दारिद्र्यात् स्त्रीचरित्रेण पुनर्मनोरमंश्रेष्ठिनमुपशिश्रियतुः। सोऽपि मुग्धभावात् तयोः सत्कारातिशयं विधत्ते। होलिकापि पितृनिकेतने खवल्लभेन || कामपालेन साकमद्यावधि विषयसुखमनुभवति, यूयमहर्निशं तां पश्यन्तोऽपि तत्कपटं ज्ञातुं न | शक्नुथ । ढूँढा तापसी तु शयानैव प्रबलानलज्वलितकलेवराऽविचलितचित्ता शुभभावपूर्वकमकाम- T21 निर्जरया मृत्वा व्यन्तरनिकायिकेषु देवेषु देवी समभवत् , सा चैवास्मि । अहं च विविधान् देशान् । पर्यटन्ती दैवयोगादिदं नगरमासाद्यावधिज्ञानेन निजपूर्वजन्मचरितं सर्वमज्ञासिषम्-होलिकयैवेदं । सर्वमकृत्यमनुष्ठितम् । यस्या जीवनं मया परिरक्षितं, पतिसंगमनं कारितं, विविधं सुखमुत्पादितं, I सर्वं कुकर्म गोपितं, तस्या ईदृशीं कृतघ्नतां ज्ञात्वा मे महान् कोपोऽभवत् । किश्च एतन्नगरनिवासिनो ज्ञानविहीनाः केचन नीचजना भिक्षमाणां ढूँढातापसी जहसुर्निनिन्दुर्धिक्चक्रुश्च । अत: उभाभ्यां कोपाभ्यां परिकोपितचित्ताऽहं तेषां दुष्टदुष्टानामनिष्टसाधनाय सकललोकसंहारी-महामारी प्रावर्त्तयम् । अद्यारभ्य कल्याणकामैर्युष्माभिर्होलिकोपहासादिकं कर्म प्रतिहायनमनुष्ठेयम् । यदि Lain Educ a tional For Personal & Private Use Only mainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ - ख्यानम् । ३॥ कस्यचित् जननं परिणयनं वा भवेत् स होलिकादिने — ढूँढणा' इति कृत्यं विदध्यात् । एवं देवी- | वाक्यं समाकर्ण्य राजप्रभृतयः सर्वे नागरिका नराः साञ्जलयोऽब्रुवन्-हे मातः ! वयं प्रत्यब्दं भवदीयवचनानुकूलमेतदनुष्ठानं विधास्यामः । श्रीमती चास्मासु सदा सदाशया प्रसीदतु । तदा तदास्यविनिर्गतदीनवचनमनुविचिन्त्य देवी सद्यः प्रसद्य तेषु विगतगर्वेषु भक्तवर्गेषु पुष्पवर्ष कृत्वा तां महामरीमुपसंजहार । सर्वे सानन्दं स्वस्वभवनमगमन् । । कतिपयपुस्तकेषु प्रबन्धभेदाऽधिगम्यते । तद्यथा-यदा ढूँढा व्यन्तरी अवधिज्ञानेन स्वकीयं | क्लेशप्रभवं पूर्वभवमपश्यत्, तदा तस्याश्चित्ते प्रभूतकोप उपजातस्तत्पत्तनजननिधनाय । सा व्यचिन्तयत्-यदहो एते नागरिका प्रतिदुष्टा मह्यं भिक्षामपि सम्यक् न प्रायच्छन् , प्रत्युत मामुपजहसुः, अत एते नूनं दण्डनीया इति । एवं सश्चिन्त्य सा सर्वनगरचूर्णनाय तावन्मात्रामेकां १ होलिकाकाले शिशून् विष्टरेषु समुपवेश्य तेषां पुरः पञ्चवर्षीयान् पश्च बालकान् उपवेशयत् , तेषां वामहस्ते पर्पटें (पापड् ) दक्षिणहस्ते काष्ठखड्गं दद्यात् । ततस्ते बालकाः खङ्गेन पर्पट प्रहरन्तः 'ढूँढो ढूँढो' इति मुखेनोच्चारणं कुर्वन्तु' इदमेव ' ढूँढणाकृत्यम् ' इत्युच्यते । अस्य प्रचुरप्रचारस्तु मरुमालवमेवाडदेशेषु दृश्यते। ॥१३॥ La n ternational For Personal & Private Use Only W w w.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ शैलशिलामानीय पुरोपरि वियति समवतस्थे । होलिकापुण्यप्राबल्यात् तु तां निपातयितुं न शशाक। नागरिकास्तु प्रबलशिलाऽवलोकनकालादेव साध्वसाकुला विविधस्तवैर्व्यन्तरी तुष्टबुः प्रार्थयाम्बभूवुश्च । व्यन्तरी मेघगम्भीरया गिरा प्रतिबभाषे-अरे दुष्टा नागरिकाः ! मम पितृकुले सर्वे भाण्डजातीयाः, श्वशुरकुले च भरडजातीया जना आसन् । अतो मत्प्रेमास्पदीभूतास्त एव जीविष्यन्ति युष्मान् तु सद्योऽद्य चूर्णयामि, न चाहङ्कस्यापि प्रार्थनां शृणोमि । इति तद्वाक्यं समाकर्ण्य भयाकुलाः सकललोका मिथः समन्त्र्य जिजीविषया भाण्डा भरडाश्च बभूवुः । कुलमर्यादां त्यक्वा | भाण्डावत् सर्वेऽसभ्यभाषणं बभाषिरे, तथा प्रतिपदि सर्वशरीरे रेणुकर्दमलेपनं कृत्वा भरडवत् | प्रतिमार्ग विजह्वः विप्रजहसुः, ननृतुश्च । तदा सा सर्वं नगरमेव भाण्डभरडमयमवलोक्य सुप्रसद्य Lal सद्यः शैलशिलामुपसंहृत्य स्वस्थानं प्रतिनिववृते इति । ___ अथ होलिकासम्बन्धं योजयामि । तत्र माघशुक्लपूर्णिमायां कामपालो होलिकाग्रहणनिर्णयं IN स्थिरीचकार । तपस्यासितचतुर्दश्यामादित्यमन्दिरे तां संजगाम । अस्मिन्नन्तरे चतुर्दशदिनावधिको | वियोगोऽभूत् । फाल्गुनशुक्लपूर्णिमायां ढूँढां ददाह, अस्मात् कारणात् तस्मिन् घने होलिकादाहनं । Jain Educational & Private Use Only helibrary.org Page #30 -------------------------------------------------------------------------- ________________ काss १४ ॥ 28 व्यवस्थापितम् । कामपालस्य दुर्दशा प्रदर्शनार्थम् ' ईलाजी ' ( मृत्युद्गलमयनराकृतिः ) स्थापना समुपदिष्टा । एवं होलिकारीतिः क्रमशः सर्वदेशेषु प्रससार । हे शिष्य ! अस्य पञ्चमारकस्य प्रभावात् विषमविषयविषपूर्णानि बहूनि पर्वाणि प्रादुरभवन् । यानि लोकाः सम्यगभ्युपगम्य त्रपामपास्य तत्र प्रवर्त्तन्ते । एवं गुरुमुखात् होलिकावृत्तान्तं श्रुत्वा शिष्यः पुनरपि गुरुं पप्रच्छ - हे पूज्य ! अनया होलिकया किमीदृशं सुकृतं समुपार्जितम्, येन व्यन्तरी किमपि दुःखं दातुं नाशकत् ? सासदा सानन्दा विषयविलासं सिषेवे ? किञ्च सा वाल्यकाल एव कथं विधवा बभूव ? गुरुरुवाच - भोः शिष्य ! अस्मिन् संसारे यद्यत् सुखं दुःखं वोपलभ्यते, तत्सर्वं कर्मजन्यमेव । यथा पुराकृतं कर्म तथैवेहोदेति । कर्मफलानुभवः सर्वैरेव क्रियते । तथा चोक्तम् — “ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् " इति अतो व्यन्तरी होलिकानन्दं विहन्तुं नाशकत्। अथ होलिकायाः पूर्वभवः श्रूयताम् - पाडली पुरे नगरे परमार्हतः ऋषभदत्तनामैकः श्रेष्ठी प्रतिवसतिस्म । तस्य चन्दनाभिधानायां धर्मपत्न्यां द्वौ सुतौ रूपलावण्यादिगुणगणोपेता देवीनाम्नी सुता, चैकेति सन्ततित्रयं समजनि । यदाऽऽत्मजाऽष्टवर्षा बभूव, तदापिता For Personal & Private Use Only: ख्यानम् । ।। १४ । 17ww.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ 29 विद्याध्ययनार्थ पाठशालायां गुरुसमीपं प्राहिणोत् । सा च तत्र कुशाग्रमतित्वात् अल्पीयसैवानेहसा | सकलकलासु कुशला बभूव । सा सर्वदेव पितृभ्यां साकं सामायिकपौषधप्रतिक्रमणप्रमुखां धर्म- | क्रियां कर्तुमारेभे, यथाशक्ति अन्यानपि व्रतान् नियमांश्च पालयामास । तस्य गृहसमीपे तु मिथ्या- 1 त्विनो ब्राह्मणादयो न्यवात्सुः । तेषां पुत्रिकाभिः सार्धमियं देवी अहर्दिवं चिक्रीड, नानाविधानि गोष्ठीहास्यकुतूहलान्यपि विदधे। यत्र विद्वान् द्विजन्मा पुरोहितः कथां वाचयेत् . तत्रावश्यं गत्वा सा | शृणुयात् । यद्यपीयं जैनधर्मावलम्विनी बभूव, तथापि संसर्गवशान् मिथ्यात्विनामपि सत्कारातिशय करोति स्म । उक्तं च "संसर्गजा दोषगुणा भवन्ति" इति । मिथ्यात्विनां सर्वेषु पर्वोत्सवेषु तस्याः | प्रभूता श्रद्धा संजाता रागद्वेपूर्णान् देवीदेवान् पर्यचरत् , मनसि व्यचिन्तयच्च-जैनधर्मे वीतरागो देवः, । स कस्यापीष्टमनिष्टश्च न करोति । वैष्णवधर्मे तु जगतः कर्ता परमेश्वरोऽस्ति, ब्रह्मा जगद्रचयति, हरिः पाति शिवः संहरति, अत एवैते सर्वे यथेष्टमभिलाषं प्रपूरयन्ति । एवं विचिन्त्य श्रेष्ठवरपुत्र-d लाभाय गणगौरपर्वानुष्ठानं व्यघात् , तदा तदीयौ पितरौ निजगदतुः-अये बाले ! चिन्तामणिमिव | 10 जैनधर्ममपास्य काचखण्डमिव मिथ्यात्विमतं किमाश्रयसि ? अमृतकंसं विहाय विषकंसं न परि Sain Education International For Personal Private Use Only Hidiainelibrary.org. Page #32 -------------------------------------------------------------------------- ________________ बर्द्धनका ख्यानम्। 30 गृहाण " इति । तदाऽपि सा मिथ्यात्विना परिचयाधिक्यात् स्वाग्रहं न जहौ, पितृप्रमुखकुटुम्ब- वर्गस्य वचनं नाजीगणत् । तदा जननीजनयितारौ विमनायमानौ क्वापि केचन वणिक्सूनुना सह तस्याः पाणिग्रहणमकुरुताम् । कर्मवशात् सा देवी द्रागेव मृत्वा होलिका बभूव । कथावाचको ब्राह्मणश्च कामपालः, ब्राह्मण सुता तु ढूँढाऽभवत् । देव्या किमपि जैनशासनमनुष्ठितं, तेन सुखिनी, व्रतभङ्गो-कारि तेन बालविधवा जाता। पूर्वभवमित्रतावशात् हूँढया कामपालेन सह । योजिता । साऽपि कुकृत्यकरणाद् वह्निनाऽदह्यत । होलिकाकामपालाविह मृत्वा चिरं संसारं परिभ्रमिष्यतः । एवं लोके प्रचलितमेतत् होलिकापर्व, यदधुनाऽपि परमार्थशून्या जनाः समाचरन्ति । एवमियं द्रव्यहोलिका कर्मपुञ्ज प्रवर्धयति, बहूननश्चिोत्पादयति, तस्मान्नरवरियं द्रव्यहोलिका KI सर्वथा त्याज्या, अस्यास्तु संमुखमपि नावलोकयेत् । होलिकाचिकीर्षुभिर्भावहोलिकैव कर्तव्या । प्रतिवत्सरं चातुर्मास्यत्रयं भवति । तत्र फाल्गुन्या चातुर्मास्यं चतुर्दशीपूर्णिमातिथ्योः षष्ठभक्तं विधाय पौषधव्रतं धारयेत् । समुदितोऽऽखिलसंघो महोत्सवपूर्वकं भगवतः पूजनं कुर्यात्। भक्त्या प्रणमेत्। सुगन्धद्रव्याणि कुङ्कुमादीनि प्रविकिरेत् । ॥ १५ ॥ Sain Ed lernational For Personal & Private Use Only Silw.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ खामिवात्सल्यं विदध्यात् । एवं सर्व, कृत्यं विधाय तपोऽग्निना कर्मकरीषं ज्वलयेत्, रागद्वेषकाष्ठानि | प्रदीपयेत् । धर्मध्यानजलेन परिषिश्चेत् । नवतत्त्वरूपं गुलालमुत्पातयेत् । सुमतिजलनलिका हस्ते कृत्वापशमजलानि सर्वतः परिनिक्षिपेत् । नवकारं ध्यायेत् । एवं भावहोलिका समाराध्यते । येन । कर्मणा खेषां परेषां च सम्यगुपकारो भवति, तदेव कर्मानुष्ठातव्यम् । येन च कर्मणा शास्त्रविडम्बना लोकापवादो धर्महानिर्धनक्षयः, शिष्टजनपरिहासास्पदत्वं च स्यात् , तदवश्यं प्रयत्नतस्त्याज्यम् । अन्यथा “ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते” इति न्यायमाश्रित्य सर्वे भ्रष्टाः स्युः। __ अरे भव्यलोकाः ! मिथ्यात्वरूपिका लौकिकहोलिका कथमपि कल्याणकारिका न भवति ।। सौभाग्यम् , आरोग्यम् , आयुष्यम् , अद्भुतासंपत् , अनुपमरूपलावण्यम् , निर्मलं यशः, ऐश्वर्यम् , हस्त्यश्वरथपदातिदलसहिता राज्यलक्ष्मीः, चातुर्यम्, विवेकसहकारिपाण्डित्यम् , इत्यादिकां समृद्धिं यदि यूयमभिलष्यथ तदा दुर्गतिप्रदानि मिथ्यात्विनां पर्वाणि मुञ्चत । सर्वसंपत्तिप्रदं स्वर्गापवर्गानन्दकारणीभूतं श्रीजिनेन्द्रप्रतिपादितं शुद्धमहिंसामयं जैनधर्ममेव समाश्रयत । येनो Sain Educa t ional For Personal & Private Use Only Mainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ ख्यानम्। 3 बर्द्ध- भयत्राऽऽत्महितं प्राप्नुत होलिकाक्रियाकारिणां नराणां महान् दुःखानुभवो भवति । तथाहिकाऽ १ यः प्राणी ज्वलन्त्यां होलिकायां मुष्टिपरिमितमपि सुगन्धिद्रव्यादिकं निक्षिपति स उपवास१६ ॥ दशकेन शुद्धयति।२ एवं यस्तत्र जलं निक्षिपेत् स शतमुपवासान् कुर्यात् तदा तत्पापमपगच्छेत् । ३ मूत्रप्रक्षेपणे ५० पञ्चाशत् , ४ करीषनिक्षेपणे २५. ५ गालिप्रदाने "५। ६ असभ्यवचनगानाऽऽ, लपने १५० । ७ पटहवादने ७० उपवासाः कर्तव्याः। ८ यः शुष्कगोयमकण्डिकानां मालां INT रचयित्वा तत्र निक्षिपति स शतकृत्वो होलिकादहनस्वसंहननज्वलननिधनेन पापमपनुदति । श्रीफलप्रक्षेपणे सहस्रकृत्वः स्वकलेवरं ज्वलयित्वा पापमपाकुर्यात् । १० एकपूगीफलनिक्षेपणे 10 पञ्चाशत्कृत्वो देहं दहेत् । १२ रेणुसमर्पणे पञ्चविंशतिकृत्वो ज्वलेत् । १२ होलिकागर्त्तनिखनने शत कृत्वो ज्वलेत् । १३ काष्टनिक्षेपणे सहस्रकृत्त्वा दह्यते । १४ होलिकाप्रदीपने सहस्रकृत्वश्चाण्डालकुले ! जन्म संप्राप्नोति। १५ यः सकृदपि होलिकां ज्वलयति स दशसहस्रवारं वह्निना दह्यते। १६ होलिकापूजनेन दशसहस्रकृत्वो दारिद्र्यमनुभूय कुमृत्युना म्रियते । १७ होलिकावतानुष्ठानेन यवनानाङ्कले जनिमवाप्नोति । एवमेव सकलपापेभ्यो गुरुतरं होलिकादुष्कृतं वेदितव्यम् । उक्तं च ॥१६॥ For Personal Private Use Only mainelibrary.org. Page #35 -------------------------------------------------------------------------- ________________ सरागवचनालापा-दत्यनाचारसेवनात् । षटकायिकानां जीवानां, वधान्मद्यादिपानतः॥१॥ अग्निक्रीडाविधानाच, निर्लज्जाक्रोशनादितः । सघनं नरकं घोरं, प्रामोति मनुजाधमः ॥ २ ॥ धार्मिकाणां पुरुषाणां तु होलीज्वालावलोकनमपि नोचितं दुर्गतिप्रदत्वात् । अनेके जनाः परम्परया होलिकोत्सवं समाचरन्ति, तत्कथं वयं त्यजेम इति चेन्न, धर्मानुसारिण्याः परम्पराया एव पालनविधानात् । न चानाचारपरम्परा धार्मिकैरभ्युपगम्यते । तथाहि-कस्यापि पिता पितामहो वा मूोऽभूत् , तत् किं पुत्रोऽपि मूर्यो भूत्वाऽज्ञानमेव समाश्रयेत्, यद्वाऽन्धस्य पुत्रोऽन्ध एव । भवेत् । स्तेनस्य स्तेनः, व्यभिचारिणो व्यभिचारी, दरिद्रस्य दरिद्र एव स्यात् ? नैष न्यायः, सर्व- | जनानभ्युपगतत्वात् । तस्मात् शास्त्रविहिता शुद्धपरम्परैव समाश्रयणीयेति वेदितव्यम् । किञ्च ये होलिकोत्सवं समाचरन्ति न ते सर्वे धर्मात्मानः सन्ति, यतो लक्षेषु कश्चिदेक एव लक्षेश्वरो भवति न सर्वे पुरुषाः, एवं शतेषु कश्चनैक एव विद्वान् भवति । धर्मात्म-धंनिक-साधुवदान्यनीतिज्ञगम्भी| राशयाः पुरुषास्तु सर्वथाऽल्पीयांस एव सन्ति, अतो मूर्खाणामन्धपरम्परा दूरतो हेया । कुमार्गः | Sain Educ a tional For aspal Private Only minelibrary.org Page #36 -------------------------------------------------------------------------- ________________ 34 ख्यानम्। नका १७॥ प्रवाहपतिता अन्धपरम्परानुगामिनो जना भुवने न्यूना न सन्ति, तान् मूढान् मत्तानिव विदित्वा सर्वथाऽऽत्महितचिन्तने दत्तावधाना महात्मानो भवन्तु, न तैर्मूर्खा अनुकार्या। इदमेव सर्वोत्तमपुरुषाणां कर्तव्यमस्तीति वेद्यम् । श्रीसौधर्मनृहत्तयो गच्छाधिराजविजयराजेन्द्रसूरिः। शशि-रस-नव-विधुमाने, विक्रमीयवत्सरे निर्ममावेतत् ॥ १॥ इति श्रीमविजयराजन्द्रसूरीश्वरसन्हब्धङ्गद्यबद्धं-होलिकाऽऽख्यानं समाप्तम् । Sain E a tional For Personal & Private Use Only ww.jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ 35 विश्वपूज्य-जैनाचार्य-श्रीमविजयराजेन्द्रसूरीश्वरेभ्यो नमः । श्रीरत्नसारकुमार-चरित्रम् । राजेन्द्रसूरीश्वरसद्गुरूणां, पादारविन्दं युगलं प्रणम्य । तदूरत्नसारस्य चरित्रमेतत्, कुर्वे सुगद्यैः सरलैः सुरम्यम् ॥ १॥ इह भरतक्षेत्रे रत्नविशालाभिधाना महीयसी नगरी वर्तते । तत्र समरसिंहनामा राजा महीमशेषां शास्ति, तत्रैव महापुरे वसुसार, नामा श्रेष्ठी निवसति, अस्य रत्नसारनामा पुत्रोस्ति । स चैकदा मित्रेण सह वनमागात् । तत्र वने महान्तं भास्वन्तमिव महसाज्वलन्तं विनयधराभिधानमाचार्यमालोक्य समित्रो रत्नसार-कमार स्तत्रागत्य परयाभक्त्या यथाविधि नमस्कृत्य । | त्रिःप्रदक्षिणां विधाय च तदभिमुखमुपाविशत् । अथ कृताञ्जलिः स तमेवमप्राक्षीत् । हे भगवन् ! केनोपायेन जीवोऽसौ सुखमुपैति ? सकलानि दुःखानि च विजहाति?, गुरव ऊचुः हे भद्र ! एष | जीव इह लोके परलोके च केवलमेकन सन्तोषेण परमं सुखमाप्नोति । स च द्विधास्ति । दैशिक: JanEducatio n al Foal Peny Page #38 -------------------------------------------------------------------------- ________________ चरित्रम् । यबद्ध- नसार । १॥ सर्वत्यागात्मकश्च । तत्राद्यः श्रावकाणां जायते । अन्तिमस्तु साधूनां भवति । सकलसुखसम्पा- दकौ दैशिकः सन्तोषः परिग्रहपरिमाणतयोच्यते । तदुक्तम्असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो, यद् भव्यस्यैव हि जायते ॥ १॥ ___ सन्तोषहीनस्य सुरेन्द्रस्य चक्रवर्त्तिनो वा सौख्यं तथा न जायते, यथा भव्यजीवस्य सन्तुष्ट. मनसो जायते । अतो वच्मि । हे भव्यात्मन् ! सुखं वाञ्छास चेत्तर्हि धनादीनां परिमाणं क्रियताम् ! अथेदृशं गुरोर्वचनमाकर्ण्य तदैव सम्यक्त्वसहितं परिग्रहपरिमाणं स व्यधात् । तथाहि-- हे स्वामिन् ! मम लक्षपरिमितानि रत्नानि, दशलक्ष दीनाराः, मुक्तावैदुर्ययोरष्टाष्ठमूढकम् । अष्टकोटयः कोशे रौप्यकाणि, षड् गोकुलानि, एकैकस्मिन् दशसहस्रगवां स्थितिः। पञ्चशतानि गृहाणि, शतानि वाहनानि । अश्वानां सहस्रम् । दन्तिनः शतानि, एतान्येव मया गृहे सदा स्थेयानि इतोऽधिकानि हेयान्येव । तथा पञ्चाऽतीचारविशुद्धं पञ्चममणुव्रतं गृह्णामि, इत्थं परिग्रहपरिमाणं कृत्वा सम्यग्धर्म परिपालयन् गार्हस्थ्यं सुखं भुञ्जानः सुखेन रत्नसार कुमारस्तस्थौ । अथान्यदा रत्नसारकुमारः सह मित्रेण वनं ययौ । तत्रेतस्ततः पर्यटन्नेकं किन्नरयुगलभद्रा ॥१॥ JainE R Hernational For Personal Private Use Only TALw.sainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ क्षीत् । तस्य शरीरं मनुष्यस्य मुखं तुरगस्येवासीत् , ईदृशमदृष्टपूर्वमश्रुतञ्च केनापि पुरा रूपं विलोक्य विस्मितः कुमारो मित्रं जजल्प । भो मित्र ! पश्यैनम् , यद्यसौ मनुष्यस्तर्हि तुरगस्येव मुखं | | कथं दृश्यते, इति नायं मनुष्यः, न वा देवः, नूनमसौ कोपि द्वीपान्तरीयस्तिर्यक् प्रतिभाति, अथवा | कस्यचिद्देवस्य वाहनेन भवितव्यम् , इति रत्नकुमारस्य वचनं श्रुत्वा किन्नर उवाच । हे रत्नसार ! ईदृशालीकं कृतकं मयि मा कृथाः । यथा मामवगच्छसि, अहं तथा नास्मि, किन्तु विलासी स्वैरविहारी व्यन्तरोऽस्मि । भो रत्नसार ! मया तु त्वमेव तिर्यकतल्यो दृश्यसे । यतः पित्रा प्रतारितोऽसि । कुमारोऽवक्-कथमहं पित्रा वञ्चितोऽस्मि, अहं नैव जानामि, त्वं जानासि चेत्कथय ? सोऽवदत्-श्रूयताम्-तव पित्रा द्वीपान्तरादेकस्तुरग आनीतः-स च ईदृशोऽस्ति-- निर्मासं मुग्वमण्डले परिमितं मध्ये लघुः कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्टं प्रधानं जवे, राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ १ ।। व्याख्या-मुखमण्डले यस्य कृशता, मध्ये-कुक्षिप्रदेशे परिमितम्-अल्पता, कर्णौ च यस्य । लघू स्तः, स्कन्धे बन्धुरम्-यस्य स्कन्धो वन्धुरो रम्यो दीर्घो मांसलश्च, उरसि-वक्षसि अप्रमाणम् , For Personal Private Use Only Painelibrary.org Page #40 -------------------------------------------------------------------------- ________________ बद्धंनसार चरित्रम्। बहुदीर्घता, पुना रोमोद्गमे-यस्य केशाः स्निग्धा-मृदवः, पुनः पश्चिमपार्श्वयोः-पश्चाद्भागयोः पीनम्-पुष्टता, पृष्ठं च यस्य पृथुतरमतिविशालं, जवे-वेगे प्रधानम्-श्रेष्ठम् , प्रशस्तैः-उत्तमैः शाव स्त्रोक्तैः समस्तैर्गुणैर्युक्तमश्वं यदि राजा आरुरोह-उपविशेत्तर्हि स तुरगस्तं नृपमेकाहेन योजनानां शतं नयेत् , वायुरिव वेगवान् सप्ताहेन सकलां पृथ्वीं परिभ्रम्य स्वस्थानमायाति ।। भोमुग्ध-रत्नसार ! ईदृशमश्वरत्नं गृहे स्थितमपि त्वां नादर्शयत् कदापि तव पिता। किमतन्न जानासि ?. गृहगतममूल्यं पित्रा गोपितं तमश्वमजानन् मयि मुधा किं कुतर्कयसि । त्वयि | वीरतां धीरतां च तदैव ज्ञास्यामि, यदा तत्रारुह्य स्वैरं पर्यटिष्यसि सर्वत्र इत्युदीर्य किन्नरो गगनवर्त्मनान्यत्र चचाल । तदाकर्ण्य मनसि भृशं खिद्यमानः रत्नकुमारः स्वसदनमागत्य कपाटं पिधाय पल्यङ्के शिश्ये ! अथैनमनागतं विलोक्य बहुधा मार्गितेऽपि तमपश्यता तत्रागत्य पित्रैवं भणितः । हे वत्स ! कथ. मकाले सुप्तोऽसि, किमस्ति कश्चित्तव व्याधिराधिर्वा ?, किं वा केनाप्यवज्ञातोऽसि ? यद्भवत्तद् ब्रूहि, अज्ञातदुःखस्य प्रतीकारं कथं कुर्यामित्यादि पित्रोक्तं श्रुत्वा कपाटमुद्घाट्य बहिराययौ कुमारः। ॥२ ॥ international For Personal Private Use Only Page #41 -------------------------------------------------------------------------- ________________ 38 मानसक्लेशकारणं पितरं व्याजहार। पितोवाच-वत्स ! मया त्वं छलितोऽसि न, किन्तु मनसि ममेयं शङ्कोदियाय, यदीदृशाश्वे दर्शिते सदैव तमारुह्य स्वैरं सर्वत्र परिभ्रमिष्यसि, तथा सति तव वियोगो मां बाढं बाधिष्यते। इति धियैवाद्यावधिस्त्वां तमश्वं नादर्शयम् । यदि तेन त्वं रुष्टोऽसि तर्हि तुभ्यमद्यैव तं ददामि । तमारुह्य मनो विनोदय इत्युक्त्वा कुमाराय तुरगं दत्तवान् । तदनु प्रमोदभरमानसः कुमारो द्वित्रिमित्रसंयुतस्तमश्वमारुह्य बहिरगात् । तत्रागतास्ते सर्वे स्वस्ववाहं. वेगेन धावयितुं लग्नाः रत्नसारस्तु यथा यथा वल्गामाक्रष्टुं लग्नस्तथा तथा तदश्वः प्रधावितुमैहिष्ट । तत्रावसरे वसुसारश्रेष्टिनं सदनस्थः कीरो जजल्प-स्वामिन् ! रत्नसारस्तुरगारूढो महीयसा वेगेन याति । अतो मामनुगन्तुमाज्ञापय ? येन तदनुगतोऽहं तदीयशुद्धिं कुर्याम् . विषमदेशमापन्नस्यासहायस्य तस्याहं साहाय्यं करिष्यामि । कीरोदितमाकर्ण्य हृष्टचेता वसुसारस्तमवादीत्शुक ! त्वं सम्यक् कथयसि, शीघ्रं याहि, तत्सहायी भव । इति वसुसारश्रेष्ठिन आज्ञां समवाप्य स्वात्मानं धन्यं मन्यमानः कीरस्तूर्णं पिञ्जराबहिर्भूय महता जवेन तदन्वगात् । अचिरादेव सोऽपि तेन कुमारेणामिलत् । तमागतं शुकं लघुबान्धवमिव प्रगाढस्नेहेन कुमारः स्वाङ्के समुपावेशयत् । JainEduca t ional For Personal & Private Use Only Plainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ बर्द्धनसार चरित्रम् । 340 अन्ये च मित्राणि रत्नसारमतिदूरङ्गतमपश्यन्तः पश्चादलिताः स्वस्वसदनमागुः । इतश्च कीरेण सह रत्नसार एकस्यामरण्यान्यामाययौ। तत्रैकस्मिन् वृक्षे महादोलायामुपविष्टोऽसीमानन्दमनुभवन् देवकुमाराकारः कश्चिदेकस्तापसस्तेन दृष्टः । तत्रावसरे स कुमारस्तमात्मीयमित्रमिव सस्नेहं द्रष्टुं लग्नः । सोऽपि मदनमूर्तिमिव मनोहरं रत्नसारं सादरमवलोकयन् दध्यौ-अहो ! कोऽयमद्यप्रापूर्णिकोऽत्रागत इत्यवधार्य रोलातोऽवतीर्य कुमारान्तिकमेत्य तमेवमवादीत् सः। भोः कुमार ! कस्ते जनपदः ?, कस्मिन्नगरे निवससि ?, कस्मिंश्च वंशे त्वमुत्पन्नोऽसि ?, का ते जातिः?, माता पित्रोरभिधानं किमस्ति ?, कस्ते कुटुम्बः ?, का च ते शुभाभिधा ? कथमत्रैकाकी | समागतोऽसि ?. इतस्ततः परिभ्रमन् किं शोधयसि ?, इत्थं सप्रेमातिमधुरं तापलोदितं निशम्य कुमारो नितरां जहर्ष । रत्नसारस्तत्कालमेव यावत् प्रत्युत्तरं दातुं चिकीर्षति, तावन्निसर्गचपलः | शुकस्तापसमवोचत-भोस्तापस ! तवेदानीमतदीयकुलवंशादिज्ञानेन किं प्रयोजनम् ?, किमत्र कस्यचित्पाणिपीडनं चिकीर्षसि ?, त्वमधुना कामपि पृच्छां विनैवाऽऽतिथ्यं विधेहि । यतोऽतिथिः साधूनामपि पूजनीयो भवति । उक्तञ्चान्यमते ॥३ ॥ hternational 14.1 For Personal & Private Use Only I ww.ainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ 4041 गुरुरग्निर्द्विजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां, सर्वस्याभ्यागतो गुरुः ॥ १॥ शुकोदितादीदृशवचनाच्चमत्कृतस्तापसो नितरां प्रससाद । तत एकां पुष्पमालां कीरशिरसि समर्पितवान् । तत्पश्चादेवमगादीत्-भोः कुमार ! त्वं श्लाघ्योऽसि, यदीदृशः पटुतरः शुकस्ते सहत्तमोऽस्ति । अये कुमार ! मम प्राघूर्णिको भव यद्यपि मादृशां तापसानां भवादृश योग्या कापि सामग्री नास्ति । तथापि यथा लब्धोपचारेणार्चनं करोमि, तदवश्यमेवाङ्गीकार्य भवादृशेन सुहृत्तमेन । इत्थं मिष्टवाक्येन रत्नसारं सन्तोषयन्. रम्यं वनं दर्शयन्, फलपुष्पादिभिमनोहराणां नानाजातीयानां लतानां तरूणां च नामानि कथयन् . स तापसोऽवोचत-भो महाभाग्य ! एतस्मिंस्तटाके स्नाहि। ततो रत्नसारः स्नातानुलिप्तः कृतनित्यक्रियो यावदासीत्तावन् । नानाविधानि परिपक्वानि सुस्वादुफलानि समानीय रत्नसारस्य पुरः समर्पयत्तापसः। अमृतस्वादुभरां भूयसी परिपक्वां द्राक्षाम् , रसालान् मिष्टतरान् , कदलीफलानि परिपक्वानि, पक्वान् पनसान् , , नारिकेर-खजूर-जम्बू-बीजपूर-दाडिमप्रमुखान् तापसप्रदत्तान् शुकेन सह कुमारो यथारुचि बुभुजे। ततस्तस्मै मुखवासाय लवङ्गलाकर्पूरजयपत्रिकादिसुरभिद्रव्याणि नागवल्लीं च ददौ । घोटक Jain Educa For Personal & Private Use Only W inelibrary.org Page #44 -------------------------------------------------------------------------- ________________ बर्द्ध नसार ४ ॥ 42 मपि तदुचितभक्ष्यमभोजयत् । सर्वे पानाशनादिना तोषितास्तेन । ततः सुखोपविष्टास्त्रयः परस्परमालपितुं प्रवृत्ताः । अत्रान्तरे कुमारकृतसङ्केतः कीरस्तमवादीत् - भोस्तापस ! त्वयाऽनवसरे यौवनावस्थायामतिदुर्वहतापसत्वं कथं जगृहे ?, तावकं वपुरतिसुन्दरं दृश्यते. ईदृशेन वपुषा तपश्चरणं न घटते, नूनमीदृग् शरीरेण शमीलताच्छेदनमिव तपष्करणं मन्ये । महाभाग ! त्वदीयमिदं सौजन्यं, चातुर्यकला च वने मालतीव मुधा जायते । तवेदं वपुर्दिव्याम्बरेण रत्नाभरणेन च शोभां धातुमर्हति । प्रतिस्निग्धा मृदवो भ्रमरवच्छयामलास्तेऽमी केशा जटाकलापेन शोभां नो दधते । तारुण्यलावण्य सम्पन्नो भवान् सांसारिकामन्दानन्दमेवानुभवितुमर्हतीदानीं, किमिदं वैराग्यतो दैवयोगतः कस्यचिद्विषयविमुखस्य तापसस्य वशतो वा भवताऽधारि ? शनि कीरगदितानि वचनानि श्रुत्वा वारिपूर्णलोचनस्तापसः सगद्गदं जगाद्-भोः शुकराज ! त्वादृशोऽपरः कोऽपि जगति नैवास्ति यतः मां पश्यतोर्भवतोरीदृशीकरुणा प्रादुरभूत् । इह लोके स्वकीयदुःखेन दुःखिनस्तु सर्वे भवन्त्येव, परन्तु परेषां दुःखानि पश्यन्तः कियन्त एव लसन्ति सन्तः सदुःखाः । यदुक्तं नयविदा International For Personal & Private Use Only चरित्रम् | ॥ ४ ॥ Page #45 -------------------------------------------------------------------------- ________________ 43 शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षिती भूरिशः। किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मन-स्ताप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः॥१॥ || व्याख्या--प्रतिपद-पदे पदे सहस्रशः-सहस्राणि शूराः-शौर्यवन्तः पुमांसः सन्ति-वर्तन्ते, तथा अनेकशः-अनेके विद्याविदः-विद्यां विदन्ति जानन्तीति विद्याविदः पण्डिताः । एवं अपास्तधनदाः-अपास्तो विजितो धनदः कुबेरो यैस्ते कुबेरतोऽप्यधिकधनवन्तः श्रीपतयः-लक्ष्मीस्वामिनः पुरुषा अपि क्षितौ-पृथ्व्यां भूरिशः-बहवः सन्ति, किन्तु दुःखार्दितम्-दुःखैः पीडितम् अन्यमनुष्यम् , आकर्ण्य-श्रुत्वा निरीक्ष्य-अवलोक्य यन्मनः येषां मनश्चेतः ताद्रूप्यम्-तदाकारताम् प्रतिपद्यते-प्राप्नोति ते तादृशाः सत्पुरुषाः-सज्जनाः-परोपकारिणः जगति-लोके पञ्चषाः-पञ्च षडेव सन्तीति भावः। मित्र ! यथाजातमात्मचरित्रमशेषं त्वां वक्ष्यामि । त्वादृशमहापुरुषाणामग्रे किमपि गोप्यं नैवास्ति, एवं मिथ आलपत्सु कुमार-तापसकीरेषु-यदभूदाश्चर्यकारिवृत्तं तदाकर्ण्यताम् । तत्रैवा| वसरे गर्जन्ती परितो रजांसि समुच्छलयन्ती, सर्वमन्धकारमयं कुर्वती, काचिदेका, महावात्या समु Jain Eduo For Personal & Private Use Only hinelibrary.org Page #46 -------------------------------------------------------------------------- ________________ ____ बद्धंनसार चरित्रम् । त्तस्थे । सा च पश्यतोरेव तयोरत्नसारकरियोस्तापसमपहृतवती । ह्रियमाणस्तापस उच्चैरेवं पूच्चक्रे-भो रत्नसार ! मामनाथं रक्ष रक्ष, विलम्ब मा कृथाः । अथैतदाकर्णयन् कुमार आह-रे दुष्ट ! पापिष्ठ ! प्राणादपि प्रियतरमेनं मित्रमपहृत्य व व्रजसि ?, तिष्ठ तिष्ठ । मित्ररत्नमिदं चोरयित्वा क्क यासीत्यादि क्रुधा जल्पन् तत्पृष्ठमधावत् । कियद् दुरङ्गतो रत्नसारस्तापसमपश्यन् कीरेण भणितः-भो रत्नसार ! क्वापि स तापसस्तदपहर्ता वा न दृश्यते । कोजानाति सा वात्या तं तापसं कियदरं नीतवतीति । इयता कालेन वेगवान् वायुस्तं योजनानां लक्षं निनायेति तर्कयामि । अत इदानीं पश्चाद्वलितव्यमेव श्रेयस्करं प्रतिभाति । शुकोकं तथ्यं वचः श्रुत्वा स कुमारः पश्चाद् वलन् मार्गे भृशं शुशोच । अत्रावसरे कीरस्तमेवंकथितुं लग्नः-अये कुमार ! स d तापसः पुमान्नास्ति, किन्तु केनापि प्रतिकूलेन पुंसा विद्यावलेन कापि कामिनी पुरुषीकृतास्ति । मधुरालापेन मुखाकृत्या मन्दगत्यादिना च तां काञ्चिदबलामवेहि । देवदानवविद्याधराणामन्यतमः कोऽपि तां मृदङ्गीमतिरूपलावण्यवती कामपि कुमारी वशीकर्तुमेवं विडम्बयति । यदि सा तस्य दुष्टपुंसः कराच्छुटिष्यति, तर्हि त्वामेव वरिष्यति । अत्र किमपि संशयं मा कृथाः । इत्थं मधुरा ॥ ५ ॥ For Personal Private Use Only Jw.dainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ लापमाकर्ण्य स्वेष्टदेवमिव तापसकुमारं स्मरन् रत्नसारः कीरेणसाकं जनाचचाल । अथ कियद् दूरं गतः कुमारः एकस्मिन् मनोरमे वने नानातरुलतादिनासुमण्डिते अत्युच्चैस्तोरणध्वजा दिभिः सुशोभितं श्रीमदादिनाथभगवतो मन्दिरमद्राक्षीत् । तत्रागत्य कुमारस्तुरगान्नीचैरवातरत् । फलपुष्पादिकं करे निधाय सकीरः कुमारो मन्दिरान्तः प्रविश्य भगवतः पूजां परया भक्त्या विधाय स्तोतुं लग्नः। सिरिनाभिनामकुलगरकुलकमलुल्लासणेगदिवसवई ! भवदुहलक्वविहंडण! जयमंडण णाह ! तुज्झ णमो। व्याख्या-श्रीनाभिनामाकुलकरभूपस्तस्य कुलकमलोल्लासने सूर्यसमान :, भवदुःखलक्षविखण्डन-सांसारिकलक्षक्लेशप्रणाशक !, जयमण्डन ! हे नाथ ! तुभ्यं नमोऽस्तु।। __इत्याद्यनेकविधस्तवेनप्रभुमादिनाथमभिष्ट्रय रत्नसारो मन्दिरस्याद्भुततमां शोभां सर्वतो विलोक्य क्वचिदेकत्र वहिःप्रदेशे समुपाविशत् । तत्राह-शुकम्प्रति । हे शुकराज ! इयता काले नापि तापसकुमारस्य समाचारो न लभ्यते, को जानाति व नीतवान् दुष्टः स इति । इत्थं विलापं कुर्वन्तं रत्नसारमाह कीरः । भोः कुमार ! मनसि धैर्यमाधेहि, खेदं मा कुरु । अद्यैव ते Sain Educ a tional For Personal Private Use Only ainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ चरित्रम् । ननार ६॥ बर्द्ध-12 सोऽवश्यं मिलिष्यतीति । इत्थं शुकेन साकं यावदालपति-कुमारस्तावद् दिव्याङ्गना लोकोत्तरया | निजासीमसौन्दर्यलक्ष्म्या देवाङ्गनामपि त्रपयन्ती, सर्वाभरणतनुतरवसनधारणेन महतीं सुषमामधिगच्छन्ती, मयूरारूढा तत्रागात् । मलयगिरिजातसुरभिशीतलचन्दनकुसुमाक्षतादिसकलपूजोपकरणमादाय जिनवरेन्द्र परया भक्त्यापूजयामास। यथामति संस्तूय प्रभोरग्रे नर्त्तितुं लग्ना। तस्यातीवसुन्दरतमं संगीतमयं नृत्यं समवलोक्य सकीरः कुमारश्चेतसि भूयसी चमत्कृति प्राप्त- 1 वान् । सा कन्यापि मूर्तिमन्तं मदनमिव कुमारं सादरं चिरं प्रेक्षाञ्चके । तत्रावसरे रत्नसारस्ता. मपृच्छत् । यदि तव मनसि रोषो नोत्पद्येत। तर्हि त्वां किमपि पृच्छेयम् । तयोक्तम्-सुखेन । पृच्छतु भवान् । कुमार आह अयि सुन्दरि ! त्वं कासि ?. कुत आगतासि ?, कस्य कुले जातासि ? इत्यादि भवत्या आमूलमुदन्तं श्रोतुमिच्छा वर्तते । ततः कन्यकोवाच-भोः कुमार ! यत्पृष्टं तत्कथयामि सर्वमात्मवृत्तं सावधानमनसा निशम्यताम् । तथाहि___ कनकपुरे वरनगरे कनकध्वजो नाम नीतिपूर्णकुशलो राजाऽस्ति । तस्य कुसुमश्रीराज्ञी in Edu c ational For Personal & Private Use Only Rew.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ Jain Educa 44 सुशीलत्वादिसर्वगुणसम्पन्नास्ति । अथैकस्यां रजन्यां सुखेन सुप्ता राज्ञी निजोत्सङ्गे पतन्त्य कुसुममालेऽपश्यत्स्वप्ने, स्वप्नमालोक्य सा जागृताऽभूत् । प्रभाते नृपान्तिके समागत्य निशिदृष्टस्य स्वप्नस्य फलमप्राक्षीत्। राजोवाच- प्रिये ! ईदृशस्वप्नेन त्वमेकदा पुत्रीयुगलं प्रसविष्यसे । तच्छ्रुत्वा मनसिहृष्यत्सा, तदनु धृतगर्भाराज्ञी नवमासेषु गतेषु सहैव कन्यकायुगलमजीजनत् । महता मन द्वादशेऽहनि प्रथमाया अशोकमञ्जरी, द्वितीयस्यास्तिलकमञ्जरीति पित्रा नाम चक्रे । ततः पञ्चधात्रीभिर्लालिते पालिते ते कन्ये क्रमेण ववृधाते । लघुवयस्येव ते सर्वासु विद्यासु चतुष्षष्टिकलासु च निपुणे बभूवतुः । क्रमशः सञ्जाततारुण्ये ते सौभाग्येन, लावण्येन, वपुः सौन्दर्येण, सकलशास्त्र नैपुण्येन च युवकजनानां चित्ते चमत्कृतिं तेनाते । तयोः परस्परं महान् स्नेह आसीत् । एकस्या वियोगमपरा चणमपि न सहते, सर्वं कार्यं सहैव कुर्वाते । तदाह- सहजग्गिएण सह सोविएण सह हरिससोअवंताएं । नयनाएं व धन्नाणं, आजम्ममकित्तिमं पिम्मं ॥ १ ॥ व्याख्या–सह जागरणशीलानां, सह स्वापिनां सह हर्षशोकवतां धन्यानां पुण्यवतां जीवानां नयनानीवाऽऽजन्म - यावज्जीवम्, अकृत्रिमं - नैसर्गिकम् प्रेम-स्नेहो जायते । For Personal & Priva ainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ द्धि सार 911 48 तयोरीदृशीं प्रीतिमालोक्य राजा मनसि दध्यौ - अहो ! कीदृशी प्रीतिरेतयोः । यत्कदापि क्षणमपि परस्परं विरहं सोढुं नैव शक्नुवाते । यथेक एवैतयोर्भर्त्ता भवेत्तर्हि वरं स्यात् । अन्यथा मिथो विश्लेषमसहमाने द्वेऽपि नूनं मरिष्यतः । एतयोर्मनोनुकूलः सकलसद्गुणशाली सुकृतमाली कोऽपि कुलवान् धन्यः परमभाग्यशाली पुमानेव वरो भवितव्यो नान्य इत्यादि चिन्तयन्नासीत्क्षोणीपालः । उक्तञ्च- जातेति पूर्वं महतीति चिन्ता, कस्मै प्रदेयेति ततः प्रवृद्धा । दत्ता सुखं यास्यति वा नवेति, कन्या पितृत्वं किल हन्त कष्टम् ॥ १ ॥ व्याख्या - पूर्वम् - आदौ मम कन्या जाता - समुत्पन्ना इत्येवं महती चिन्ता पितुर्जायते । ततः - तदनन्तरं प्रवृद्धा - वर्द्धितायां तस्यां कस्मै - वराय योग्याय प्रदेया कन्येयमिति । अर्थात् सद्योग्यपति शुद्धयर्थं महती चिन्तोत्पद्यते । पुनः कस्मैचित् योग्यपुंसे दत्तापि कन्या सुखं यास्यति नवेति तृतीया चिन्ता जायते । इतीत्थं लोके हन्तेति खेदे किलेति निश्चयेन कन्या, पितृत्वं कष्टम् - कष्टकारीति भावः । ternational For Personal & Private Use Only चरित्रम् । 119 11 Page #51 -------------------------------------------------------------------------- ________________ अथैकदा वसन्ततॊ ते द्वे भगिन्यौ क्रीडितुमाराममाजग्मतुः । तत्रैकस्य महतस्तरोः शाखायां सुदृढां डोरिकां बध्वाऽऽन्दोलनं कर्तुं प्रवृत्ताऽशोकमञ्जरी, तथा विदधतीं तां तिलकमञ्जरी महता जवेन झूलयामास । तयोस्तदद्भुतं क्रीडनं द्रष्टुं पौरा भूयांसस्तत्राययुः । तत्रैवावसरे कश्चिद्विद्याधरो लोकैरलक्षितस्तामुत्पाट्य हृतवान् । अथ साऽशोकमञ्जरी महता स्वरेण रुदती भो भो । लोकाः! धावत धावत, मामपहृत्य कोऽप्यसौ यातीति चुक्रोश । ततः सर्वे लोकास्तत्पृष्टमधावन्त। | परमेतेषां पश्यतामेव स विद्याधरस्तां कुत्र नीतवानिति केऽपि न जज्ञिरे । अतिप्रीतिपात्रपुत्रीहरणश्रवणतोऽतिदुःखितो भूजानिस्तत्कालमेव कियतोऽश्ववारान् सुभटांस्तस्याः शुद्ध्यै प्रेषितवान् । केनापि क्वापि सर्वत्र गिरिकन्दरादौ बहुधा मार्गणे कृतेऽपि शुद्धिर्न लेभे । इतश्च तिलकमञ्जरी प्राणतोपि वल्लभाया भगिन्या हरणेन तत्कालमेव मूर्छामाप, ततो भूमौ पपात । सचन्दनातिशीतलजलसेकादिना प्राप्तचैतन्या सा भृशं विलपितुं लग्ना । तथाहि ___ अयि भगिनि ! त्वामपश्यन्ती कथं जीविष्यामि हा देव ! कथमकाल एव प्राणप्रियभगिनीd वियोगोऽकारि । इत्थं भृशं शोचन्ती तिलकमञ्जरी संध्यासमये गृहमागतवती । अन्येऽपि पौरा For Personal Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 58 - सार नरा नार्यश्च स्वस्वसदनमापेदिरे । ततस्तामेव शोचन्तः पितृमातृतिलकमञ्जरीप्रभृतयः सर्वे चरित्रम्। शिश्यिरे। अथ निशायाः पश्चिमे यामे समुत्थाय चक्रेश्वर्या मन्दिरमागत्य विविधोपचारैस्तामभ्यर्च्य | सा तिलकमञ्जरीति प्रार्थितवती-हे मातः ! चक्रेश्वरि ! हृताया भगिन्याः शुद्धिं कथय ?, अचिरादेव तया सह सङ्गमय । नो चेदिह भवे तावदहं न खादेयं न पिबेयमित्यादिनियम तवाग्रे करोमि। ___ अथ तस्याः सद्भक्तिभावपूजया सुप्रसन्ना चक्रेश्वरी प्रत्यक्षीभूय तामेवमवादीत्-भो वत्से ! तव भगिन्याः कुशलं वर्त्तते । तदर्थं मा शोचीः । अद्यारभ्य मासान्तिमे दिवसे भगिन्याः समा- IN चारस्तव मिलिष्यति, दैववलेन तदैव साक्षात्कारोऽपि भविष्यति । अत्र सन्देहो नास्ति किञ्चिदपि । त्वं सुखेन भुंक्ष्व, पिब । सर्वं भव्यं भविष्यतीति । पुनः सा देवीमपृच्छत्-हे शरणागतवत्सले ! मातः ! मासस्यान्तिमे दिने कुत्र केन रूपेण भगिनीदर्शनं भवितेति स्पष्टं मयि कृपां विधाय सूचय । देव्यूचे-एतन्नगरस्य पश्चिमे प्रदेशेऽतिदूरे महारण्यमस्ति, यत्र महता कष्टेनापि लोका गन्तुं न शक्नुवन्ति । मणिरत्नमयमादिनाथप्रभोमन्दिरं भासुरं भासते । तत्र महा ॥ ८ ॥ Sain E llemona For Personal Private Use Only Page #53 -------------------------------------------------------------------------- ________________ 59 हेरत्नजटिता सौवर्णमयी मूर्त्तिः श्रीऋऋषभदेवस्य वर्त्तते । तामेव मूर्त्ति प्रत्यहं भक्त्या समभ्यर्चय । तत्रैव भगिनीं द्रक्ष्यसि । अन्यदपि सकलं समीहितमेष्यसि । एष मम सेवकश्चन्द्रचूडनामा देवो मयूरीभूय प्रत्यहं त्वां तत्र नयिष्यतीति निगद्य देवी याक्तूष्णीं तस्थौ तावत्तत्रैको मयूरो गगनमण्डलादाययौ । तिलकमञ्जरी रत्नसारं निगदति - भोः कुमार ! देव्याः प्रसादेन मयूरोपरि समुपविश्य प्रतिदिनमादिनाथप्रभुं प्रत्यक्षफलप्रदमभ्यर्चितुं यत्र वने सा समागच्छति, तदेवेदं वनं तदेव मन्दिर - मिदम् । सा कन्याप्यहमेवास्मि स एवायं मयूरः । इति मामकं सर्वं चरित्रमवेहि । किञ्च चक्रेश्वर्या वचनेन श्रीआदिनाथप्रभुपूजाया श्रद्यैव त्रिंशत्तमं दिनं याति परमिदानीं पर्यन्तं भगिन्याः शुद्धिमेलनं वा मया न लेभे। अतः पृच्छामि - हे कुमार ! त्वमनेकदेशान् भ्रान्त्वा भ्रान्त्वात्रागतोऽसि । कुत्रापि काचिदधिकरूपलावण्यवती कन्या दृष्टा किं वा श्रुता । तत्रावसरे कुमार ऊचे - अि सुन्दरि ! अशेषमहीमण्डले परिभ्रमता मया भवादृशी त्रिभुवनविनिर्जितकामिनी नैव कुत्राप्यदर्शि, किन्तु शबरसेनाख्ये महावने कश्चिदेकस्तापसकुमारो दृष्टः । तस्यासीमरूपलावण्यतारूण्यं भवत्याः For Personal & Private Use Only nelibrary.org Page #54 -------------------------------------------------------------------------- ________________ चरित्रम् । बर्द्धनसार ९ ॥ समानमेवासीत् । अत्रान्तरे कीरोऽवदत्-हे सुन्दरि ! नूनं तवाद्य भगिनी मिलिष्यति । सा प्रत्यूचे-शुकराज ! यदि सत्यं भविष्यति त्वदुक्तम् । अहं भगिनीं विलोकिष्ये तर्हि त्वामर्चिष्यामि। all इत्थं यावद्रत्नसारकीरतिलकमार्य आलपन्ति, तावदकस्मादेका हंसी गगनादागत्य कुमाराङ्के पपात । सा भयभीतिमावेदयन्ती भृशं कम्पमाना मुहुः कुमारमुखमवलोकमाना मनुष्यभाषया न्यगदत् । यथा-हे सत्पुरुष ! शरणागतपरिपालक! मामनाथामशरणामतीवदीनां शरणागतां पाहि पाहि । लोके धीरपुरुषाः शरणमागतं कृतापराधमपि कारुण्येनावन्त्येव कदापि नोपेक्षन्ते। यदाह दिवाकराद्रक्षति यो गुहासु, लीनं दिवाभीतमिवान्धकारम् । तुद्रेऽपि नूनं शरणं प्रपन्ने, ममत्वमुच्चैः शिरसां सदैव ॥१॥ व्याख्या-यो हिमाचलः गुहासु-कन्दरासु लीनं-संस्थितं दिवाभीतं-दिवाकराद् भीतिमापन्नमन्धकारं रक्षति-परित्रायते । यतः शरणं प्रपन्ने-शरणार्थिनि क्षुद्रेऽपि-अयोग्येऽपि जने उच्चैः शिरसां-महात्मनां सदैव ममत्वं जायते। इति हंस्या भाषितमाकर्ण्य करुणाकरो रत्नसारस्तदङ्गानि मृदुकरेण स्पृशन्नवक्-हे हंसि ! मा ॥९॥ sain t ernational For Personal & Private Use Only ww.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ ___ | भैषीः, इह हि वीतराग-जिनेन्द्रप्रभोः सन्निधौ मनागपि कुतोऽपि कस्यापि भीति!त्पद्यते । अवdl श्यमेतद्विद्धि । यन्मम क्रोडे स्थितां त्वां नरेन्द्रो विद्याधरेन्द्रो देवेन्द्रो वा पराभवितुं नार्हति । । ततस्तटाकतोऽतिमिष्टं पयः समानीय कुमारस्तामपाययत् । पुनस्तामपृच्छत्-हंसि ! त्वं कासि ? | N|| कुतस्ते भयमस्ति ? कुत आयासि ? मनुष्यवाचं कथङ्कारं निगदसि ? सर्वं मे कथय। ___अथैवं स्नेहपरं कुमारोक्तं श्रुत्वा सा हंसी यावदात्मवृत्तं वक्तुमैहिष्ट, तावदुच्चैर्गर्जन्ती महती | | विद्याधरसेना व्योम्नस्तत्रावातरत् । तामवलोक्य मनसि जातशङ्कः कीरो मन्दिराबहिरागत्य द्वारो- | परि समुपाविशत् । तदा तीर्थमहिम्नः कुमारस्य सौभाग्यतया वा विकृतातिभीषणतनुः पर्वताकारः कीरः क्रुधा ध्रुवौ वक्रीकृत्य तां चमूमित्थमाह-अरे रे विद्याधराः ! कस्यानुपदं धावत ? कुत्रेदानीं वजथ ? अग्रे देवासुरानपि तृणाय मन्यमानो रत्नसारस्त्रिभुवनमहाभटजिष्णुस्तिष्ठति । तं किमिति नो वेत्थ, तस्मिन् क्रुद्धे सति यूयं नूनमेव कांदिशीका भविष्यथ । अतोऽहं हितं वच्मि, यदि जीवितुमिच्छथ, तर्हि शीघ्रमेवेतः पलायध्वम् । ईदृशं भीषणं शुकभाषितं श्रुत्वा संत्रस्ता सा Mall चमूर्विस्मिता सत्येवमचिन्तयत्-अहो ! नूनमेष कीररूपधारी कोऽपि देवो दानवो वा विद्यते । in Educ rsonal & Private Use Only Mainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ बर्द्ध ननार अन्यथा कथमेवं नस्तिरस्कुर्यात् । अहो विद्याधराणां नः सिंहनादो जगजिष्णुर्भूत्वापि कीरस्यास्य चरित्रम्। हङ्कारनादेनापि त्रस्यति, महदाश्चर्यमेतत् । धिग् धिगीदृशान् कातरान् नः यस्य महावीरस्य कीर एव विद्याधरान् क्षोभयति। स कुमारः कीदृशः कियांश्च बलवान् भविष्यतीति को वेत्ति । बलमविज्ञाय कोऽपि केनापि युद्धाय नैव सज्जते । इति निश्चितवन्तस्ते भटाः पश्चाद्वलित्वा स्वस्वामिनोऽग्रे यथाजातमशेषं वृत्तमूचुः । तदाकर्ण्य स विद्याधरेशो मेघ इव गर्जन् हस्तौ पृथ्व्यां पातयन् भ्रकुटिमाकृषन् केसरीव महता निनादेन तानवोचत्-अरे कातराः ! रङ्का इव कथं कीरवचसा कांदिशीका भवन्तः परावर्तन्त । धिगस्तु भवतो गेहेशूरान् । अरे ! कोस्ति कुमारः, को वा तदीयः शुकः । ममाग्रे | कोऽपि नैव प्रभवितुमर्हति । भवन्तः केवलं कीरवचनेन वञ्चिता मुधैव भीतिमापुः । अधुनैव पश्यत पश्यत मदीयपौरुषम् इत्युदीर्य दशशिरांसि, कराणां विंशति, विकृत्यैकस्मिन् पाणौ खगं, द्वितीये खेटकं, तृतीये गदां, चतुर्थे धनुरित्थं तत्तत्करेषु तानि तानि दिव्यानि शस्त्राणि विभ्रदतिभीषणं प्रकुपितान्तकोपमं रूपं दधद् वीरचेतांसि भीषयन् सिंहनादं मुहुशोऽत्युच्चैः कुर्वन् 11॥ Sain Edul l national For Personal & Private Use Only Ww.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ Jain Educat 55 स विद्याधरराजस्तत्रागतवान् । आगतं तमालोक्य त्रस्तः शुकः कुमारसन्निधावाययौ । यतो धीमान् पुमान् भयङ्करे स्थानके चिरं न तिष्ठति । अथ स विद्याधरनाथः उच्चैर्हुङ्कुर्वन्नुवाच - अरे रङ्ग ! झटिति दूरमपसर, नो चेदचिरादेव मरिष्यसि । मामकीमिमां प्राणकल्पां हँसी निजोत्स धृत्वा किमिति सुखेनोपविष्टोऽसि ? अरे निर्लज्ज ! निर्भीक ! त्वं चोरवन्मदमूल्यमेतदपहृत्य मम स्वमुखं किं दर्शयसि । एतत्कालं मयि पुरस्तिष्ठति सति कथं न पलायसे ? त्वमधुना कालग्रस्त इव मत्तो मृत्युं कथं कामयसे ?, अत्रावसरे कीरमयूरतिलकमञ्जरीहंस्यः कृतान्तमिव पुरः स्थितं तं पश्यन्त्यः क्वचिदेकत्र प्रदेशे ऽतिविस्मितास्त्रस्ता अतिष्ठन् । अथ रत्नसार आह-रे मूढ ! विद्याधराधम ! केवलं धान्यपलालमिवासारः प्रतिभासि । यदेवं प्रलपसि, त्वदीयवाङ्मात्रेण शिशव एव त्रस्यन्ति, न जातु शौर्यवन्तः । यदि शौर्यं धत्से, तर्हि पराक्रमेण हंसीं गृहाण । त्वमिव यो हि गृहशूरो भवति, स एवं प्रलपति । क्रियां तु नैव कुरुते, अशक्तत्वात् तदुक्तम् गर्जति शरदि न वर्षति, वर्षति वर्षासु निस्वनो मेघः । नीचो वदति न कुरुते, न वदति कुरुते च सज्जनो लोकः ॥ १ ॥ For Personal & Private Use Only helibrary.org Page #58 -------------------------------------------------------------------------- ________________ 56 व्याख्या-यथा मेघः शरत्काले गर्जत्येव, न कदाचिदपि वर्षति। वर्षासु-वर्षाकाले तु गर्जति न, | चरित्रम् । किन्तु वर्षत्येव । तथा नीचस्त्वादृशः कातरः पुमान् वदति भृशम् , प्रतीकारं न करोति । सजनस्तु स्वगौरवं नाख्याति, किन्तु क्रियामेव करोति। ____ अतो निगदामि यदि शूरोऽसि, तर्हि शौर्य प्रकटय, किमीदृशाऽसदालापेन । किञ्च हस्ततालिकया अपरिचिताः पक्षिण एव पलायन्ते । गृहपारावतास्तु पटहाऽऽरवादपि मनागपि नैव विभ्यति । मम शरणागतामिमां हंसी भोगीशफणातो मणिमिव किं कामयसे ? एतजिघृक्षां त्यज, ममाग्रतो दूरं व्रज, जीविताशां बिभर्षि चेत्, सत्वरमितः पलायनं विधेहि । नो चेत् तावIN कानि यान्येतानि दश मस्तकानि तान्यधुनैव दिग्पालेभ्यो बलिं ददिष्ये । अस्मिन्नवसरे रत्नसार साहाय्याय देवरूपं विकृत्य मयूररूपं विहाय विविधास्त्रशस्त्रं दधचन्द्रचूडो देवस्तत्रागत्य इत्यवक्भोः कुमार ! भयं मा कृथाः यथेष्टमनेन सह युध्यस्व । अहं ते सहायतां दास्यामि, शस्त्रास्त्राणि नानाविधानि ददिष्ये, भवतः सर्वान् शत्रून् हनिष्यामि, किमधिकं निगदामि-यथा त्वं विजेष्यसि प्रबलानप्येतान् विपक्षपक्षांस्तथाहं विधास्यामि । इति देवोक्तमाकर्ण्य स कुमारः प्रवृद्धोत्साहस्तदैव ला॥ ११ ॥ lernational For Personal Private Use Only witainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ 54 योद्धं सज्जितोऽभूत् । अथ तां हंसी तिलकमायें समर्प्य रत्नसारस्तुरगमारुरोह । ततश्चन्द्रचूडार्पितं धनुरानम्य तदीयटङ्कारनादेन सकलामपि विद्याधरचमूं भीषयामास । ततः प्रावर्त्तत विद्याधरगणेन सह तुमुलं युद्धम् । यथा मेघो वारिधारां वर्षति, तथा द्वयोः पक्षयोः परस्परं शराणां वृष्टि | भवितुमलगत् । रत्नसारविजिगीषया विद्याधरा विद्यावलेनातिभीषणं योर्बु लग्नाः । एवं विद्या- 10 धरविजेतुमिच्छया रत्नसारोपि देवबलेन वीरपुंसामपि विस्मयकरं युद्धं कर्तुमलगत् । प्रान्ते विद्याधरचमूः सकलापि कुमारभयेन छिन्नभिन्नाङ्गी ननाश । नष्टां निजां चमूमालोक्य चमत्कृतो भृशं । प्रकुपितः स्वयमेव दशमुखधारी विद्याधरस्वामी योद्धुंमुत्तथौ। पुरासौ कराणां विंशत्या युयुधे ।। ततो विद्याबलेन हस्तानां सहस्रं दधानो महाभीषणं शस्त्रास्त्रैरयुध्यत । रत्नसारोऽपि क्षुरप्रेण शरेण || विद्याधरेन्द्रसत्कानि शस्त्राण्यस्त्राणि चाऽच्छत्सीत् । तथैकेन बाणेन धनुश्चिच्छेद । एवमपरेण शरेण तस्य हृदयं विव्याध । ततो विद्धवक्षसस्तस्य भूयसी रुधिरधारा निरगच्छत् । ततो मूछितः स - चेतनः सञ्जातसमरोत्साहः स विद्यावलेन लक्षरूपं धृतवान् । तदानीं तावद्भिस्तद्रूपैरखिलेयं मही व्याप्ताभूत् । सर्वत्र तद्रूपमेवापश्यत्स रत्नसारः; तथापि कुमारोमनागपि | भूमौ पप त। अथ लब्धचेतनः सः SainEdurina For Personal Private Use Only ainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ चरित्रम्। बद्धं सार १२॥ न बिभ्ये । यतः कल्पान्तेऽपि धीरपुरुषाः कातरतां नाङ्गीकुर्वते । यदाह भयस्य हेतौ समुपस्थिते हि, वीरोटप्राणनिराकरिष्णौ । न जातु चित्ते भयमेति नूनं, स एव धीरो भुवि वीरमान्यः ॥१॥ __अथैवं कुमारं स विद्याधराधीशः कल्पितैरशेषैरप्यात्मरूपैर्हन्तुं लग्नस्तथापि कुमारो धीरतयैव | ययुधान आसीत्कातरतां नापत् । परं सङ्कटे पतितं कुमारमालोक्य चन्द्रचूडो देवः स्वयं मुद्गरं लात्वा तं विद्याधरेन्द्रं हन्तुमुत्तस्थौ । अतिभीमं मुद्गरेण निघ्नन्तं कल्पान्तकालोपमं तत्र समरे तिष्ठन्तं देवमुदीक्ष्य विद्याधरस्वामी तत्रास । तथापि धैर्यमाश्रित्य तेन देवेन सह चिरं शस्त्रास्त्रैरयु. ध्यत । परन्तु मूर्खाणां हृदये सदुपदेश इव वन्ध्यायाः पुत्रचिकित्सेव विद्याधरराजकृतः शस्त्रास्त्रप्रहारः कुमारविषये स्वीयसुकृतयोगतो देवमाहात्म्यतश्च विफल एवाभूत् । धर्मपुञ्जप्रभावात्सदैव प्राणिनः सुखमधिगच्छन्त्येव । यतः पुण्यप्रभावादरयः प्रयान्ति, भवन्ति देवाः समरे सहायाः। हालाहलो याति सुधामयत्वं, नह्यस्ति पुण्यादपरो विशिष्टः ॥१॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। ॥ १२॥ SainE n termal For Personal Private Use Only Page #61 -------------------------------------------------------------------------- ________________ 58 सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुरा कृतानि ॥ २ ॥ अथैवं शस्त्रास्त्राणि प्रहरन्तं विद्याधरेन्द्रमिन्द्रोऽसिना भूधरमिव स देवो मुद्गरेण ताडितवान्। तेन स महती पीडामाप, केवलं पीडैव नाभवत् , अपि तु बहुरूपकरी विद्यापि तत्क्षणमेव तमुज्झि- | तवती । तदा स दध्यौ-अहो महाद्भुतं जातम् , सर्वा सेना नष्टा, विद्यापि मे गता, मयेदानीं । किं विधेयम् ? एष कुमारः स्वभावादेव दुर्जयः प्रतीयते। अधुना तु देवतासहायतां नीतो विशेषतोऽस्ति दुर्धर्षः । अतः प्राणत्राणमेव श्रेयस्करमिदानीमित्यवधार्य द्रुतमेव स ततः पलायाञ्चक्रे । नष्टे स्वामिनि समस्ता चमूरप्यनश्यत् । इत्थं यदसौ रत्नसारः प्रबलमप्येनं विद्याधरेन्द्रमजैषीत् | तत्सकलं पूर्वकृतसद्धर्मस्यैव महिमास्ति । यो हि धर्मनिष्ठो भवति, तस्य सदैव विजयो जायते ।। | तदाह-"धर्मेण हन्यते व्याधिग्रहो धर्मेण हन्यते । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः” ॥ __इत्थं दुर्जयं प्रचण्डदोर्दण्डं विपक्षं विजित्य रत्नसारस्तेन चन्द्रचूडाख्यदेवेन सह श्रीमदादिनाथभगवतो मन्दिरमगात् । अथेदृशमद्भुतं कुमारस्य चरित्रं निरीक्ष्य चमत्कृता, पुलकिताङ्गी, | तिलकमञ्जरी, मनस्येवमचिन्तयत् । अहो ! कोऽप्यसौ युवा पुरुषरत्नं प्रतीयते । यद्यसावेव मे Jain Educational For Personal Private Use Only linelibrary.org Page #62 -------------------------------------------------------------------------- ________________ 60 चरित्रम् । पबद्धंनसार १३॥ भ" स्याद् भगिनी च मे मिलेदत्रै तर्हि भाग्यं फलितं मस्ये, जीवनं च साफल्यं व्रजेत् । अथ तिलकमञ्जर्याः पार्श्वतस्तां हंसीं लात्वा कुमार एवमपृच्छत् ! अये हंसि ! कासि?, कथं वा विद्याधरस्त्वामगृह्णात् ? मनुष्यभाषां कथं ब्रवीषि ? एतत्सर्वं कथय । हंसी जल्पति-नाथ ! तव पुरुषरत्नस्याग्रेऽशेषमात्मवृत्तं निगदामि-वैताढ्यपर्वते रथनूपुरं नाम नगरमस्ति । तत्र तरुणीमगाङ्कनामा विद्याधरराजो राज्यं कुरुते । स चैकदा कनकपुरनगरोपरिष्टाद् गच्छन् कुत्रचिदुपवन आन्दोलनक्रीडनं विदधतीमतिरूपवतीमशोकमञ्जरी कन्यामपश्यत् । तस्या लोकोत्तरमनोहररूपेण | तारूण्यलावण्येन मोहितः स तत्कालमेव तामपहृत्य शबरसेनानामकेऽरण्ये निनाय । तत्र च Ko भृशं रुदतीमतिभीतां राजपुत्रीमवोचत्-सुन्दरि ! मा भैषीः, मा रोदीः, मत्तस्त्रस्यसि कथं ? | किमर्थं गात्रं कम्पयसि ? मां चौरं पररमणीलम्पटं हिंसकं वा मा वेदी:, किन्तु विद्याधराणां पतिं जानीहि । साम्प्रतं तावकाद्भुतलावण्यतारूण्यादिना वशंवदीभूय त्वामिदमेवाभ्यर्थये। यन्मां दासं विधाय सकलविद्याधरीणां स्वामिनी भवेति । तदाकर्ण्य सा राजपुत्री मनसि दध्यौ-धिग् धिक्कामान्धं पुमांसम् । यतः कामकिङ्करा नरा धीरा अपि विवेकविकला जायन्ते, जातिकुलादिसर्वमपि ॥ १३ ॥ Sain E a tional For Personal Private Use Only Page #63 -------------------------------------------------------------------------- ________________ 64 विस्मरन्ति । इत्थं विचिन्त्य सा मौनमालम्ब्य तस्थौ। तदा स एवमवेदीत्-यदधुना मातापित्रोविरहाकुला न भाषते, पश्चान्मय्यनुरागं विधास्यतीति निश्चित्य विद्याबलेन तां राजपुत्री तापसकुमारं कृतवान् , पुनः स्नेहमयेन वचसा प्रीणयन् भृशं सत्कुर्वन् तामलोभयत् । परन्तु क्षारभूमौ बीजवाप इव तस्यां विद्याधरनृपस्य प्रयासो वैफल्यमेव ययौ । तथापि तस्य तस्यां जातोऽनुरागो मनागपि नैव न्यवर्तत । यतः कामकिङ्करीभूतो नरः कदाग्रहं न जहाति । तदाहकदाग्रहग्रस्ततरो नरो वै, करोत्यकार्य सहसा सदैव । विवेकरत्नं परिहाय नूनं, भवाम्बुधौ मजति कर्मबद्धः।।१।। अथैकदा स तापसकुमारं तत्रैव मुक्त्वा स्वनगरमियाय । तदनु कुतश्चित्तत्रागतस्य तवाग्रे यावदात्मचरितं निगदितुं प्रावर्त्तत तापसकुमारस्तावतत्रागतो विद्याधरेन्द्रो महावात्या रूपेण तापसकुमारं ततोऽप्यपहृत्य स्वपुरमानीतवान् । तत्र च स्वर्णमन्दिरे संस्थाप्य सुमधुरगिरा भृशमित्थं प्रार्थयितुं लग्नस्तथाहि-अयि सुन्दरि ! मां स्वदासं विधेहि, कदाग्रहं त्यज, अन्येन सह भाषसे, मया किमपराद्धं येन न ब्रूषे। मौनमेव श्रयसे किम् ? यदि न भाषिष्यसे तर्हि नूनमनेनैव खड्नेन त्वां हनिष्यामि । एवं वज्रोपमं तद्वचः संश्रुत्य साऽशोकमञ्जरी धैर्य मनसि For Personal Private Use Only Sinelibrary.org Page #64 -------------------------------------------------------------------------- ________________ चरित्रम् । बानसार १४॥ धृत्वा तमब्रवीत्-पुरुषाधम ! बलात्कस्मैचित्केनापि प्रेम दातुं नो शक्यते, राज्यादिकं तु वलादपि दीयते, परं मिथोऽनुरक्तयोरेव पुंसो रागः श्रेयान् भवति । यो हि मारकिङ्करीभूतो नरोऽकामयMal मानां कामिनी प्रार्थयते, तं पुरुषं धिगस्तु । एतच्छ्रुत्वा स विद्याधरेन्द्रोऽत्यन्तमकुप्यत् । को शाच्चा सिमाकृष्य तामेवमवदत्-अरे रण्डे ! पापिष्टे ! ममाग्र एव मामकी निन्दां जल्पसि । तत्फलमिदानीमेव दर्शयामि, सद्य एव ते शिरच्छेत्स्यामि । साऽवक्-रे पुरुषाधम ! यदि मां हातुं | नेच्छसि तर्हि मामवश्यमेव मारय । विचारान्तरं विलम्ब वा मा कृथाः, एतदकृत्याचरणान्मरण| मेव मे श्रेयस्करं प्रतिभातीति । अशोकमार्याः सुकृतनिचयोदयात्स मनस्येवमचिन्तयत्-अहो ! मयैतदनुचितं विदधे, यदस्या ईदृशं भाषितम् । सर्वत्रैव सरलसादरवचसैव प्रीतिरुत्पद्यते । हठेन तु स्त्रीणां जातोऽपि रागो गच्छत्येव । अतो मया कदापि कोपो न दर्शनीयः । मिष्टतरसादरसस्नेहवचसैव कामिनी सुरागिणी भवितुमर्हतीति निश्चित्य खरं काशे न्यधत्त । विद्याबलेन तां हंसी कृत्वा स्वर्णपिञ्जरेऽस्थापयत्। अनुक्षणं सादरं प्रियवचनैस्तोषयन्नासीत्। ततोऽन्यदा विद्याधरराजस्य पत्नी कमलमाला तां हंसी प्रार्थयन्तं स्वपतिं दृष्ट्वा मनास जातशङ्काऽचिन्तयत्-किमेतत् ? यदसौ ॥१४॥ For Personal Private Use Only Hinw.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ | मत्तोऽप्याधिकमेनां हंसीमभ्यर्थयते । ततः सा निशि स्वेष्टदेवतामाराध्यैतदपृच्छत् । सा विद्या प्रत्यक्षमवादीत्-सर्वमेतद्वृत्तान्तम् । ततः सा कमलमाला सपत्नीद्वेषात्तां हंसी पिञ्जराबहिः कृतवती पिञ्जरान्निर्गता सातिभीता शवरसेनाख्यकाननदिशि गच्छन्ती मार्गे श्रान्ता सती त्वदकेऽपतत् । भोः कुमार ! सैवाहं हंसी, | स एवासौ विद्याधरराजः यस्त्वया पराजितः पलायनमकृत । एतदाकर्ण्य तिलकमञ्जरी विलपति- || अयि भगिनि ! त्वमेकाकिनी तापसीभूय निर्जने वने कथमासीः?, कथं वा तिर्यग्योनौ पक्षिणीभूय नानाक्लेशं सहमानाऽधुना वर्तसे ? एतेनानुमिनोमि, यद् भवान्तरे नूनं महान्ति पापानि चिक यिथ । हन्त ! कथमिदानी तिर्यक्त्वं ते प्रणश्यति । इत्थं विलपन्ती तिलकमञ्जरी यावदासीत् , ।। तावच्चन्द्रचूडदेवः स्वशक्त्या तां हंसी कन्यामकार्षीत् । तदा ते द्वे भगिन्यौ चिरान् मिलित्वा परस्परं मुमुदाते। अस्मिन्नवसरे रत्नसार आह-तिलकमञ्जरि ! त्वमिदानी भगिन्या दर्शनजन्यमसीममानन्दमनभवसि । मह्यं किं वर्धापनं दित्ससि ? धर्मार्थोचितदाने विलम्बो न विधेयः। तदक्तम् लञ्चोचित्यादिदानर्ण-हुड्डासूक्तभृतीगृहे । धर्मे रोगे रिपुच्छेदे, कालक्षेपो न शस्यते ॥ १॥ Bain Education international For Personal & Private Use Only M inelibrary.org Page #66 -------------------------------------------------------------------------- ________________ चरित्रम् । गद्यवयं व्याख्या-लञ्चस्य-अस्मिन्कार्ये तवैतावद्दास्यामीति पुराङ्गीकृतस्य करणे तथोचितादि पञ्चधा रत्नसार IN| दानकर्मणि, ऋणशोधनकरणे, तथा होडकरणे, भृत्यादेर्वेतनदाने, गृहकरणे, धर्मकृत्ये, रोगस्य । शत्रोश्च मूलोच्छेदनकरणे कालक्षेपः-कालस्य-समयस्य क्षेपो विलम्बो न शस्यते प्रशस्तो न भवतीत्यर्थः । तर्हि कालक्षेपः क्व प्रशस्यते ?, इत्याह क्रोधावेशे नदीपूरप्रवेशे पापकर्मणि । अजीर्णभुक्तौ भीस्थाने कालक्षेपः प्रशस्यते ॥२॥ व्याख्या-क्रोधस्य कोपस्याऽऽवेशे वेगे, नद्याः पूरे प्रवेशकरणे, पापाचरणे, सत्यजीर्णे भोजने, भयस्थाने गन्तुं कालक्षेपः कर्त्तव्यः सबैरिति भावः । तदनु सा तिलकमञ्जरी भोः पुरुषसिंह ! त्वादृशे पुरुषोत्तमे महोपकारकरे नरेऽदेयं किमपि | नास्ति । यद्यपि सर्वस्वदानेऽपि त्वदुपकृतेः प्रतिक्रियां विधातुमहं नार्हामि, तथापि यदस्ति तद्ददामीत्युक्त्वा कुमारकण्ठे मौक्तिकी मालां परिधापितवती सोऽपि सहर्ष सादरं तां स्रजं पर्यधत्त। पुनरेको || कमलस्रजं तस्य कीरस्याधिग्रीवं न्यधत्त । तदा चन्द्रचूडो देवो जगाद-भोः कुमार ! पुरा तुभ्यमिमे कन्ये दैवेन दत्ते, साम्प्रतमहमपि ते ददामीति । ततो देवता तयोः कन्ययोः पाणिग्रहणं रत्नसा For Personal Private Use Only .. Page #67 -------------------------------------------------------------------------- ________________ रेण सहाऽचीकरत् । पश्चात् स चन्द्रचूडदेवो रूपान्तरं कृत्वा चक्रेश्वरीपार्श्वमागत्य सकलमुदन्तमुवाच । तच्छ्रुत्वा चक्रेश्वरी देवी सपरिवारा विमानमारुह्य तत्रागतवती । रत्नसारो वधूभ्यां सह तां प्रणनाम । सापि झटिति कुलं ते वर्धतामित्याशिषं तस्मा अदात् । तदनु सा देवी विवाहोपयोगिनी सर्वां सामग्री विरचय्य महामहेन ते राजकुमार्यों समुदवाहयत् । ततश्चक्रेश्वरी सप्तभौमं दिव्यं सौधं निर्माय निवासाय कुमाराय ददौ । तत्र सौधे रत्नसारस्ताभ्यां स्त्रीभ्यां सह निरुपम सुखमनुभवन् न्यवात्सीत् । ____ अथ चक्रेश्वर्या आदेशेन चन्द्रचूडो देवः कनकपुरे गत्वा कनकध्वजं नृपं पुत्र्योः कुमारेण सह महामहेन सम्पादितविवाहवर्धापनं व्यजिज्ञपत्। तच्छ्रुत्वा हृष्टो नृपो मन्त्रिसामन्तसाधुकारप्रमुखाऽपरिमितपरिवारयुतस्तत्रागतः । तमागतं क्षितिपतिमुभे पुत्र्यौ सकीरो रत्नसारश्च नृपाभिमुखमागत्य विधिवत्प्राणमत् । कुमाररूपमालोक्य स राजा नितरामतुष्यत् । ततो देव्याः प्रभावेण कुमारः सपरिवारं श्वशुरं तत्रागतमभोजयत् ।नानाविधदिव्याशन पानमिष्टवचनैस्सुप्रसन्नः क्षोणिपालः कुमारमे| वमाख्याति स्म-महाभाग्यशालिन् ! भवान् जामातास्ति, सकलपौरजनः श्रीमन्तं भवन्तं दिदृक्षति Jan Educe For Personal Private Use Only Page #68 -------------------------------------------------------------------------- ________________ विद्यु चरित्रम। नसार अतो मदीयनगरमागत्य पुनीहि । अथ भूपानुरोधवशतः कुमारस्तेन सहैव कनकपुरनगरमागतः । महामहेन जामातरं पुरं प्रावेशयद्राजा । ततः सुसजिते सुन्दरतरे महासौधे वधूभ्यां सह रत्नसारस्तस्थिवान् । शुकोऽपि स्वर्णपिञ्जरे तिष्ठन् सुखमनुभवन्नासीत् । इत्थं पुण्यप्रभावतः कुमारो नानाविधमनुपमं सुखं भुञ्जानः सुखेन दिनानि गमयन्नासीत् । उक्तञ्च स्वाराज्यसौख्यमतुलं नयते नराणां, राज्यं ददाति विमलं यश प्रातनोति । शत्रुप्रचण्डभुजदण्डबलं क्षिणोति, किं किं न साधयति कल्पलतेव धर्मः ॥१॥ व्याख्या-नराणां धर्मः कल्पलतेव-कल्पतरुमिव किं किं न साधयति-जनयति-ददातीति, तदेव समर्थयते-अतुलं-निरुपमं स्वाराज्यसौख्यं-स्वर्गीयसुखं नयते-प्रापयति, प्रान्ते । इह लोके तु राज्यं ददाति, निर्मलं यशः-सुकीर्तिश्च आतनोति-विस्तारयति, तथा शत्रूणां प्रचण्डा ये भुजदण्डास्तेषां बलं-पराक्रम क्षिणोति-नाशयति । इत्थं धर्म एव सर्वेषां सर्वार्थसाधनमिति स एव सञ्चेतव्यः। अथैकस्यां रजन्यां सुखेन शयान आसीत्कुमारः। सर्वाणि द्वाराणि पिहितान्यासन् । तथापि Sain Ed a lernational For Personal & Private Use Only S w .jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ क कश्चिददिव्याकृतिको दिव्यवासाः सर्वाभरणमण्डितगात्रः खड्गपाणिश्चौर्यकुशलः कोपादरुणलोचनः पुमान् गुप्त्या तद्गृहान्तराययौ । तावत्कुमारो जजागार । यतो महीयांसोऽचिरमेव स्वपन्ति । ततः स चिन्तयति-अहो सत्यपि सकलद्वाराऽपिधाने कथमेष महाचौर इव समायातो दृश्यते । इत्यादि यावन्निश्चिनोति कुमारस्तावत्स वक्ति-कुमार ! यदि वीरोऽसि तर्हि सज्जीभूय मया सह युध्यस्व । वणिग्जातीयस्य तव कियदस्ति वलमित्यहं ज्ञास्यामि । अतिधूर्तस्य श्रृगालस्य शौर्यं । मृगपतिरिव तव बलमहं कियन्तं कालं सहेय । इत्थं जल्पन्नेव स तत्कालमेव कुमारोऽपि कोशादसिमाकृष्य तत्पृष्ठमधावत् । अग्रे पुमान् तत्पृष्टे कुमार इत्थं तावुभौ मिथः पश्यन्तौ कियद् दूरं जग्मतुः। चौरस्यानुपदं तं जिघृक्षुः पुमान् यथा याति तथा कुमारस्तत्पृष्टं गतः। अत्रान्तरे स पुमान् । कीरमादाय यदा व्योम्नि समुदडीयत, तदाऽऽकाशे तं घुमासं कियडूरं ब्रजन्तमद्राक्षीत् कुमारः । अदृश्ये च तस्मिन् मनसि विस्मयं दधत्कुमार एवमचिन्तयत्-नूनमनेन केनापि देवेन विद्याधरेण दानवेन भूतेन महीयसा मद्वैरिणा भाव्यम् । योऽस्तु सोऽस्तु, परंतु मदीयराजकीरमपहृत्य गत | इति महदाश्चर्यमभूत् । अये प्राणप्रिय ! कीर ! तव किमभूत् ?, मां विहाय क्व गतोऽसि ?, त्वां Jain Educati onal For Personal Private Use Only I nelibrary.org Page #70 -------------------------------------------------------------------------- ________________ चरित्रम् । बानसार ७॥ विना मम का गतिर्भविष्यति, इति विलपन् रत्नसारः पश्चादेवं दध्यौ अरे चित्त ! खेदं मा गाः, IN अलमिदानीं शोकेन । शोकेन गतं वस्तु कस्यापि न मिलति । अतो धैर्यमालम्ब्य स्थलान्तरे | तदन्वेषणं विधातव्यम् । कदाचित्प्राप्ते काले मिलिष्यत्येव सः । तमधिगत्यैव परावर्तिष्ये, नो | चेत्कदाचिदपि पश्चान्नैव परावर्तितव्यं मयेति निर्धार्य कुमार इतस्ततः परिभ्राम्यन् बहुधा कीरम- | न्वेषयामास । परन्तु कुत्रापि तच्छुद्धिं नाप्तवान् । यतः आकाशे यद्वस्तु गतं तद्भूमौ मार्गितेऽपि कथमासादयेत्तथापि कुत्रापि स मिलिष्यतीत्याशया रत्नसारः सकलं दिनं सर्वत्र बभ्राम । सन्ध्याकाले समागते तेन कुमारेण वप्रतोरणध्वजादिसुमण्डिता मणिमयसौधचयशोभायमाना नगर्येका ददृशे । तस्या अद्भुतां शोभां विलोक्य चमत्कृतचेताः कुमारो नगरीसमीपमागतः तत्र च दूरत । एवापूर्वां तच्छोभां पश्यन् नितरां स तुतोष । अथ मुख्यद्वारे समागत्य स यावदन्तः प्रविशति तावत्तत्रोपविष्टा काचिदेका सारिका तमेवमभाषत । भोः कुमार! अन्तमा गाः, इत एव पश्चाद् M|| याहि । कुमारोऽवदत्-अयि सुन्दरि ! सारिके ! मामन्तर्यान्तं कथं निषेधयसि ? तदा पुनरूचे सा-हे सुपुरुष ! मद्वचस्यवज्ञां मा कृथाः अहं ते कल्याणमिच्छामि, अतस्तत्र प्रवेष्टुं वारयामि। ॥ १७ ।। ternational For Personal Private Use Only Page #71 -------------------------------------------------------------------------- ________________ Jain Education 69 यदि तत्कारणं शुश्रूषसि, तर्हि श्रूयताम् । इदं हि रत्नपुरं नाम नगरमस्ति । अत्र पुरन्दर इव पुरन्दराभिधानः प्रजापाल आसीत् । न्यायनिष्ठे प्रजाः शासति सति तस्मिन् कोऽप्येको महाचौरो नानावेषधारी समागतः प्रतिरात्रं चोरयन्नासीत् । ततोऽचिरादेव समृद्धिशालिनोऽपि लोका निर्धना अभूवन्, ततः पौरप्रधानजना मिलित्वा नृपमेतदाचचक्षिरे । तच्छ्रुत्वा कुपितः चितिपतिः कोट्टपालमाकार्य सरोषमाह-रे रक्षकाः ! यूयं रात्रौ क तिष्ठथ ? कथं वा युष्मासु रक्षकेषु सत्स्वपि धनिनां गृहेषु चौर्यं जातं जायते च ?, तत्कारणं निगदत | नो चेदधुना सर्वेषां वः प्राणदण्डं दास्यामि । रतका ऊचुः - नाथ ! वयं सदैव सावधाना रक्षामः । तस्य निग्रहणाय सर्वे उपायाः कृताः । परं समस्तोऽपि प्रयत्नो वैफल्यमेव व्रजति । सर्वथासौ तस्करो महारोग इव दुर्ग्रहः प्रतीयते । अतोऽहं तं ग्रहीतुं न शक्नोमि । ततो नृपालः स्वयमेव खड्गपाणिस्तस्य चौरस्य ग्रहणाय निरगच्छत् । अथैकस्यां रजन्यां कस्यचिच्छेष्टिनो गृहे खात्रं कृत्वा प्रचुराणि सारभूतानि धनानि लात्वा यान्तं तं स्तेनशिरोमणि राजाऽपश्यत् । ततस्तत्पृष्ठे राजाऽधावत् । अग्रे चौरस्तत्पृष्ठे राजा, इत्थं कियद्दूरं तावुभौ चेलतुः । स चौरः For Personal & Private Use Only delibrary.org Page #72 -------------------------------------------------------------------------- ________________ +0 सार बा | क्षितिपतेदृशं वञ्चयित्वा कस्यचित्तत्र सुप्तस्य तापसस्य समीपे सर्वाणि धनानि मुक्त्वा स्वयमुद्याने चरित्रम् । प्राविशत् । तदनु तत्रागतो नृपश्चोरितानि द्रव्याणि दृष्ट्वा तं सुप्तं तापसमेव चौरममन्यत । नूनमेष तापसः स्तेनोऽस्ति । अयमेव मम नगर्याः सर्वस्वमचूचुरत् । अधुनात्र कपटनिद्रया निद्राति । इत्यवधार्य नृपस्तमेवमवोचत-रे दुष्ट पापिष्ठ ? तापसीभूय मम नगरी लुण्टयसि, त्वमेव | प्रतिरात्रं खात्रं विधाय सर्वेषां धनान्यपहरासि । इदानीं साधुवेषेण सुप्तोऽसि, अत इदानीमेव त्वां दीर्घनिद्रायां स्वापयामि । पश्य पश्य स्तेनस्य फलं कीदृशं भवतीति । अथात्मसुभटेन निर्दोषमेव Foll तं तापसं स्वस्थानमानाय्य प्रभाते तस्य हननाय कोहपालमादिशत् । ततो नृपादिष्टः स तापसं Mal मुण्डयित्वा गर्दभोपरि संस्थाप्य सर्वत्र नगरे चतुष्पथादौ भ्रामयित्वा शूलिकायामारोपितवान् । स एव मृत्वा राक्षसोऽभवत् । ततः प्राग्वैरमनुसन्धाय प्रकुपितो राक्षसः प्रथमं राजानं जघान । लोकांश्च सर्वान् नगरान्निष्काशितवान् । राजा प्रमादवशात्तथा कृतवान् । तेनैव दोषेण समस्ताः प्रजाः खिद्यन्ते । अद्यापि यः कोऽपि पुमानन्तः प्रविशति तं स घातयति । यतः-अन्तःपुरमागतं पुरुषं कोऽपि नैव सहते । भोः कुमार ! अतस्त्वामन्तःपुरे गन्तुं निवारयामि । यदि कदाचित्स IN ॥१८॥ Sain I n ternational For Personal Private Use Only Hilaww.jainelibrary.org. Page #73 -------------------------------------------------------------------------- ________________ त्वामपि हन्यात्तदाहं तद्रष्टुं न शक्नुयाम् । इति सारिकावचनमाकर्ण्य सञ्जातविस्मयः कुमार आख्यत्-सारिके ! त्वयोक्तं सर्वं पथ्यं तथ्यं च मन्ये, परन्तु मनागपि ततो राक्षशान्नाहं बिभेमि, इत्युक्त्वा राक्षसस्य बलपरीक्षार्थी कुमारस्तत्र नगरे रणक्षेत्र इव प्राविशत् , अकुतोऽभय इव स तत्र नगरे परिभ्रमन् कुत्राप्यापणे चन्दनतरूणां राशिमपश्यत् । क्वापि स्वर्णराशिना भृतमापणम् , तथा परस्मिन्नापणे कर्पूराणां, क्वचित्पूगीफलानां, क्वचिच्च नारिकेरफलानां निचयं, क्वचिच्च सुगन्धिद्रव्यैः ।। | परिपूर्णानि गान्धिकानामापणान्यद्राक्षीत् । कानिचिच्च दिव्यादिव्यविविधजातीयवस्त्राणामन्नादीना मापणानि ददर्श । परन्तु क्रयविक्रयौ कुर्वन्तमेकमपि जनं स नापश्यत्कुत्रापि । अथैवमनुक्रमेण राजपथेन गच्छन् नगरीशोभां वीक्षमाणः स राजसदने समायातः । तत्रैकः सप्तभौमः सौधः प्रैक्षि तेन । तत्र सप्तमं भौमं गत्वा नानाजातीयसद्रत्नरचितामपूर्वामेकां शय्यामालोकत। तस्याञ्च निर्भीः । कुमारः सुखेन स्वकीयामिव सुष्वाप । अथ मानुषपदसञ्चारादिनाऽगतं जनं विदित्वाऽतिक्रुद्धः स राक्षसस्तत्रागात् । तत्र सुखेन सुप्तं रत्नसारमालोक्य स दध्यौ । अहो अत्याश्चर्यमेतत्, यत्र केऽपीतरे लोका मनसापि गन्तुं नेहन्ते । तत्र दुर्गमे स्थाने समागतोऽसौ पुमान् धृष्ट इव निर्भीकः Sain Educ a tional For Personal & Private Use Only Mainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ बा __सार | १९॥ कथं सुप्तोऽद्य दृश्यते । नूनमेष मे महान् विरोधी लक्ष्यते। एनमहं केन प्रकारेण हन्याम् , किमहं चरित्रम् । तालफलमिव मस्तकमस्य त्रोटयेयम्, अथवा नखैरेव विदारयेयम् , किमु गदयानया सचूर्णयेयम्, किमु महत्या क्षुरिकया खण्डशः कृन्तानि, किमु प्रज्वलिताग्नौ प्रक्षिपाणि, किमाकाशे समुरिक्षपाणि, किमब्धौ मज्जयानि, किमजगर इवैनमधुनैव गिलानि, किम्वा ममाऽऽलये समायातमतिथिमिव प्रसुप्तं नो हिनसानि । यतो हि गृहागतं रिपुमपि नैव हन्यादित्यादि नीतिवाक्यानि शिक्षयन्ति । तदाहअागतस्य निजगेहमप्यरे गौरवं विदधते महाधियः । मानमात्मसदनमुपेयुषे, भार्गवाय गुरु रुचतां ददौ॥१॥ ___ व्याख्या-महाधियः महती धीवुधिर्येषान्ते, मतिमन्तः पुमांसो निजालयमागतस्य, अरेःशत्रोरपि गौरवं-सत्कारमेव विदधते-कुर्वते । तथाहि-आत्मसदनं-मीनाख्यराशिम् उपेयुषे-प्राप्तवते समागताय भार्गवाय शुक्राय गुरुः बृहस्पतिः, मानं सत्कारम् मानाहमिति यावत् उच्चतां महत्वं ददौ दत्तवान् । अयमाशयः-मीनराशिगुरोरस्ति तत्रागतं नैसर्गिकं वैरमपि, गुरुरुच्यत्वमेव नयति। तथा स्वसदनसमागतः शत्रुरपि सत्कार्यएवास्ति महतामिति । alu १९॥ Sain E r national For Personal & Private Use Only ww.jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ Educa 73 यावदसौ स्वेच्छया जागृतो न भवेत्तावदस्य किमपि न कर्त्तव्यम्, पश्चादस्य यथायोग्यं भविष्यति, तथा विधास्यामि, इति निश्चित्य स राक्षसः स्वस्थानमागात् । पुनः कियत्कालानन्तरं प्रभूतभूतादिगणैः सह स तत्रागत्य पूर्ववत्सुप्तमेव कुमारमैक्षत । अत्रावसरे स जगाद - अरे निर्भीक ! निर्लज्ज ! यदि जिजीविषसि, तर्हि सत्वरमेवेतः पलायस्व, नो चेन्मया सह युध्यताम् । इति राक्षसवच आकर्ण्य जागृतः कुमार श्राह - राक्षसराज ! मम निद्राभङ्गं कथमकार्षीः ? सुखसुतस्य निद्राभङ्गकरणे कियान् दोषो लगति । तन्न जानासि किम् ? उक्तञ्च -- धर्मनिन्दी पंक्तिभेदी, निद्राच्छेदी निरर्थकम् । कथाभङ्गी वृथापापी पञ्चैतेऽत्यन्तपापिनः ॥ १ ॥ व्याख्या - यो हि धर्मं निन्दति यश्च पंक्तिं भिनत्ति अर्थादेकत्र पंक्तौ भुञ्जानानामेकस्मै ददाति परस्मै न ददाति सः । तथा हेतुं विना परस्य सुखेन सुप्तस्य निद्रां छिनत्ति । एवं यः कथामुच्छेदयति, प्रयोजनं विनैव यः पापानि कुरुते, एते पञ्च महापापिन उच्यन्ते । भवानपि मदीयनिद्राभगकरणान्महापापी जातः । अतस्तत्पापापनोदाय सद्योजातघृतमिश्रितशीतलवारिणा तावन्मे पादौ मर्दय, यावन्मे निद्राऽऽगच्छेत् । इति कुमारोक्तं निशम्य For Personal & Private Use Only jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ चरित्रम्। बर्द्धनसार १०॥ स विचारयति स्म-अहो कोऽप्यसौ महाश्चर्यकारी पुमान् प्रतीयते । यत्केनापि न कारितं तच्चिकीर्षति मत्तः । अत्याश्चर्यमेतत् । यन्मृगारातेः शृगाल इवासौ मत्तः पादयोस्तलं विमर्दयितुं कामयते । एष कीदृशः साहसिकः, कीदृशी चास्य धृष्टता वर्त्तते, कियती चास्य गम्भीरता विद्यते । यन्मामपि भृत्यकृत्यमुपदिशति, आस्तां तावदेषः । एतस्यैक आदेशस्तावत्कर्त्तव्यो मया । इति | विचिन्त्य स राक्षसेश्वरः सुरभिघृतमिश्रितशीतलजलेन कुमारस्य पादौ मर्दितुमलगत् । अहो । कीदृशो धर्मस्य महिमा वर्त्तते, यल्लोके कुत्रापि केनापि न श्रुतं न वा दृष्टम् । यल्लोके दुर्लभमस्ति । तदपि धर्मप्रभावेण लोकैराप्यते । Koil अथ निजभृत्यमिव पादौ मर्दयन्तं राक्षसराजमालोक्य समुत्थाय कुमारस्तमेवं व्याजहारall भो राक्षसेन्द्र ! मया मनुष्येण यदादिष्टं तत्कृपामानीय क्षमस्व । तवानया भक्त्याधिकं प्रसन्नोऽ स्मि, किञ्च यदीप्सितं भवेत्तन्मत्तः प्रार्थय । भवदर्थे दुष्करमपि सुखेन कत्तुं शक्नोमि । दुर्लभमपि वस्तु तुभ्यं दातुं समर्थोऽहम् । इति कुमारभाषितं श्रुत्वा स स्वचेतस्येवमचिन्तयत्-सम्प्रति विपरीतं जातं यदसौ मानुषीभूय मयि देवेऽपि निजप्रसादं दर्शयति । इतोऽप्यद्भुतमिदं दृश्यते, ॥२०॥ emaine For Personal Private Use Only Page #77 -------------------------------------------------------------------------- ________________ Jain Educatio 75 देवतयापि यन्न प्राप्यते, वा यन्न कर्त्तुं शक्यते, तदप्यसौ मे दातुं वाञ्छति । एतत्तथा प्रतिभाति यथा कल्पवृक्षः सेवकात् किमप्यभीष्टं याचेत । एष मानवो मम देवस्य किं दद्यात् । अथवा मनुष्यतः प्रार्थनीयं देवानां किमपि नैवास्ति, तथापि प्रसन्नमेनं नरमहं किमपि याचेय इत्यवधार्य मधुरस्वरेण स कुमारमित्याख्यत् - भोः ! इह संसारे यः पुमान् परस्मै वांछितमर्थं प्रयच्छेत्स त्रिलोक्यमपि विरल एवास्ति, किञ्च याचनात्सर्वे सद्गुणा नरस्य प्रणश्यन्ति । अत उक्तम्- लघुधूली तृणं तस्यास्तृणात्चूलं ततोऽनिलः । ततोऽपि याचकस्तस्मादपि याचकवञ्चकः ॥ १ ॥ व्याख्या-- लोके सर्वतो लघीयसी धूली रजोऽस्ति तस्मादपि लघु तृणमस्ति अस्मादपि लघु तुलमर्कतूलं भवति । इतोऽपि लघुरनिलो वायुरस्ति, तस्मादपि लघुः कनिष्ठो याचकः अर्थी भवति, याचकादपि लघुर्याचकानां वञ्चकः प्रतारको भवति । अन्यदप्याह- परपत्थणापवन्नं मा जणणि जसु एरिसं पुत्तं । मा उयरे विधरिज्ज, सुपत्थियभंगो को जेण ॥ १ ॥ व्याख्या-मातः ! यः परमन्यं याचेत, ईदृशं पुत्रं मा जनिष्टाः । तथा यो हि परप्रार्थनं विफलीकुर्यात्, तादृशं पुत्रं तूदरे गर्भे मा धृथाः नैव धारय । For Personal & Private Use Only helibrary.org Page #78 -------------------------------------------------------------------------- ________________ 76 चरित्रम्। अतो ब्रवीमि कुमार ! यदि याचनां नो भञ्ज्यास्तहि त्वां किमपि याचेय । कुमारोऽवदत्-भो देव ! मत्साध्यं कार्यमाज्ञापय । राक्षसेश्वर आह-यदेवमस्ति तर्हि श्रूयताम् । अस्या नगर्या राजा भव, अहं ते राज्यं ददामि । एतद्राज्यमासाद्य यथेच्छं सुखं भुंक्ष्व, अहं किल तव दिव्यां समृद्धिमर्पयिष्यामि, दासवत्सदा त्वां सेविष्ये च। अन्येऽपि सकलाः क्षितीशास्ते वशंवदाः स्थास्यन्ति । अतो मयार्पितमेकच्छत्रमिदं राज्यमकण्टकं गृहाण । रत्नसारो मनसि चिन्तयति-असौ राक्षसपति, राज्यमर्पयति । यदिह लोके सकलसौख्यप्रदमतिदुरापमस्ति यच्च सदैव महता सुकृतपुञ्जेनाप्यते । भाग्यहीनैः पापिभिः स्वप्नेऽपि नैव लभ्यते । परमेतत्पुरा मम परित्यक्तमस्ति पुराऽहं सद्गुरोः सन्निधौ परिग्रहपरिमाणं व्रतमङ्गीकृतवांस्तदा | राज्यं न ग्रहिष्यामीत्यपि प्रतिज्ञातम् । तदधुना कथं त्यजामि, व्रतभङ्गकारिणां महान् दोषो | | लगतीति शास्त्रे निरुक्तमस्ति । अधुना मया किं कर्त्तव्यम् ?, महासङ्कटो मे पतितः अहो उभयतः | पाशरज्जुरिवैतवयमुपस्थितं लक्ष्यते । यदि राज्यमिदं गृह्णामि, तर्हि महापापीयान् भवामि, पुरागृहीतव्रतभङ्गात् । अनङ्गीकारेऽपि स एव दोषः, एतदीयप्रार्थितस्य भङ्गात् । हा दैव ! किं जातम् । ॥ २१ ॥ mation For Personal Private Use Only Page #79 -------------------------------------------------------------------------- ________________ 17 M किं कर्त्तव्यतामूढतामुपगतोऽस्म्यहं । प्रान्ते कुमार एवमुवाच-भो देव ! अतोऽन्यत्प्रार्थय ? | एतत् कर्तुं नार्हामि । यतोऽहं गुरुसन्निधौ तदत्यजम् , पुरा त्यक्तस्य राज्यस्याङ्गीकारे व्रतलोपो भविष्यति । ततश्चाधर्मो मां नरकं नेष्यति । यत्स्वर्णाभरणं कर्णावेव त्रोटयेत, तेन किं प्रयोज| नम् ?. येन कृत्येन मम धर्मो न लुप्येत, तदेव स्वार्थं परार्थं वा मया कर्तुं शक्यते इति निश्चयं । जानीहि । राक्षसोऽवदत्-रत्नसार ! शरीरेऽस्मिन् लोभलज्जादाक्षिण्यगांभीर्यादयः सर्वेऽपि तिष्ठन्ति ! यः पुमान् उत्तमोऽस्ति स तु प्राणान् सुखेन जहाति, परन्तु दत्तं वचनं नैव परावर्त्तयति, यद्वदति तत्करोत्येव । तत्र दोषादोषौ नैव विचारयति ! कुमारोऽवदत्-देव ! त्वया साधूक्तं, परन्तु मया पूर्वं गुरुसन्निधौ नियमोऽकारि, यदहं पापानां निलयमधर्मस्य च हेतुं राज्यं कदापि न ग्रहीष्यामीति । यो हि नियमं लात्वा परित्यजति, तस्य नियमविराधनान्महान् दोषो लगति, पश्चात्तापश्च जायते । महाभाग ! इति हेतोर्दुष्करमप्यन्यद्वरय । यदहं सुखेन कुर्याम् , नियमोऽपि मे नैव | हीयेत । राक्षस उवाच-अरे ! प्रथमं यत्प्रार्थितं मया तदपूरयित्वा पुनरन्यन्मार्गयितुं किं ब्रूषे ?, anelibrary.org Page #80 -------------------------------------------------------------------------- ________________ 8 चरित्रम्। बद्धंनसार २२॥ अनेन वचसा त्वं खस्मिन्नेव कुपितो हतभाग्यो वा लक्ष्यसे । यदधुना दुरापमिदं राज्यं त्यजसि । अरे मूढ ! यो हि क्रोधादिना जीवान् हिनस्ति युध्यते वा । तत्रैव पापं जायते । देवार्पितस्य al राज्यस्य स्वीकारे तव पापं कथं लगिष्यति ?, यदिदं राज्यं मया दीयते तत्सोत्साहं कथं नाङ्गी कुरुषे ? सुरभिघृतं पातुं बु बु इति शब्दं कथं कुरुषे ? । प्रथमं त्वया मम मन्दिरमागत्य मदीयशय्यायां सुखेन चिरं सुप्तम् । त्वत्पादतले च मया मर्दिते ! ईदृशमकृत्यं ते मयाकारि। त्वं तु मदुक्तं हितमपि न करोषि, तर्हि तत्फलं पश्यतु भवान् । इदानीमेव दर्शयामीत्युक्त्वा क्षणादेव स कुमारं करौ गृहीत्वा गगने निरस्यत् ! तदनु समुद्रमध्ये कुमारं प्राक्षिपत् ततस्तमादाय बहिरानीय राक्षसोऽवदत्-रत्नासार ! स्वकीयं कदाग्रहं कथं न जहासि ? अहं तु राज्यं समपर्यामि, किमप्यनिष्टं वस्तु न ददामि, तत्सहर्ष किमिति न गृह्णासि ? अतः राज्यं गृहाण, आग्रहं मुञ्च, नोचेद्रजको वसनमिव त्वामस्याः शिलाया उपरि निपात्य निपात्य हनिष्यामि ! इति ब्रुवता तेन रत्नसारो गृहीत्वा शिलान्तिकं नीतः, अभाणि च-मदुक्तं कुरुष्व, मम हस्तान्मुधा मा म्रियस्वेति । कुमारोप्येवमुवाच-राक्षस ! यद्रोचते, यच्च चिकीर्षसि, तत्सत्वरमेव क्रियताम् ॥ २२ ॥ For Personal Private Use Only l ibrary.org Page #81 -------------------------------------------------------------------------- ________________ ॥ मरणान्तेऽप्यहं गृहीतव्रतं न त्यक्ष्यामि। ईदृशं कुमारोक्तं श्रुत्वा सोऽधिकं प्रससाद तदैव राक्षसरूपं | त्यक्त्वा देवतारूपं व्यधात् ततः स्थलजैर्वारिजैश्च रम्यैः सुरभिकुसुमैः कुमारमानर्च । अर्थात्कुमा- IN | रोपरि सुकुसुमानां वृष्टिमकृत । जयजयारावं कुर्वन् स राक्षसः कुमारसमपिमागत्यैवमाचख्यौ। भोः कुमार ! त्वं धन्योऽसि, मान्योऽसि, श्लाघ्योऽसि, किञ्च त्वादृशेन पुरुषरत्नेनैवेयं पृथ्वी रत्नगर्भेत्युच्यते । तवेदृशी धर्मे दृढतास्ति । यादृशी क्वाप्यन्यत्र नैवास्ति मया ते भूयानुपसर्गः | कृतस्तत्क्षम्यताम् । ____पुरा ममाग्रे देवेन्द्रसेनापतिर्हरिणगमेषी समस्तामरैर्मण्डितायामिन्द्रसभायां त्वां प्रशंश तच्छ्रुत्वा । सर्वे देवा अतिविस्मिता अभूवन् । इतश्च सौधर्मदेवलोकेशानदेवलोकयोश्च नवाविन्द्रावुदपद्यताम् । तौ मिथो विमानस्यैकस्यार्थे युयुधाते, द्वात्रिंशल्लक्षाणि विमानानि सौधर्मदेवलोके वर्तन्ते, तथेशानदेवलोके विमानान्यष्टाविंशतिलक्षाणि विद्यन्ते । धिगस्तु यदेतावत्सु विमानेषु सत्स्वपि तावुभौ परस्परं माविव चिरमयुध्येताम् । लोभो हि लोके वलवत्तरो हि, करोति सर्व वशमात्मनो हि । Sain Education International For Personal & Private Use Only nelibrary.org Page #82 -------------------------------------------------------------------------- ________________ 80 बर्द्ध चरित्रम् । सार जयेदमुं यो हि स एव लोके, धन्यः प्रशस्यो महतामपीह ॥ १॥ व्याख्या-लोके-जगति लोभो महाबलवानस्ति, कमपि नोज्झति । सर्वं लोकोत्तरसमृद्धिमन्तमपि आत्मनः स्वस्य वशमाधीनं करोति, तर्हि निर्धनानां का वार्ता । अमुं-लोभं यो नरो जयेत्-त्यजेत् , स एव पुमान् लोके धन्यः कृतकृत्यः महतामपि लोकानां प्रशस्यः-स्तुत्यो भवतीति भावः। ____ लोके युध्यमानमेकम् , अपरो वारयति । एवं देवं तथाभूतं देवो निवारयति । परन्तु यदा लोभाकृष्टचतसाविन्द्रावेव मिथोऽश्वमहिषाविव युध्येतां तर्हि तौ कः शक्नुयाद्वारयितुम् । तयोरिन्द्र। योयुध्यमानयोः कियान्कालो गतस्तत एकदा वृद्धदेवतयोक्तम् । यन्माणवकस्तम्भे जिनेन्द्रदंष्ट्रा वर्त्तते । तस्या वारिणाऽभिषिक्तस्य तत्क्षणं महान्तो दोषाः प्रलीयन्ते । महीयानपि वैरः प्रलीयते । सकलाश्च रोगाः क्षणेन प्रणश्यन्ति । इत्थं विचिन्त्य काचिद्वृद्धदेवता जिनेन्द्रदंष्ट्राभिषेकजलेन परस्परं जिघांसन्तौ तावुभावपीन्द्रावभिषिक्तवती । तत्प्रभावात्तत्कालमेव तावुभौ मिथो वैरत्वमत्यजताम् । तदनु वृद्धदेवतया तयोर्विमानविषये यथा निरणायि, तथा दर्शयति-दक्षिणस्यां दिशि ॥२३॥ Sain Ed i onal For Personal & Private Use Only M w.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ M यानि विमानानि सन्ति, तानि सर्वाणि सौधर्मेन्द्रस्य, उत्तरस्यां यानि विमानानि तेषां सर्वेषां । स्वामीशानेन्द्रोऽस्ति । तथा पूर्वपश्चिमदिग्भागे यानि त्रयोदशगोलाकारविमानानि, तानि सौधर्मन्द्रस्य । एवमेव प्राच्यानि प्रतीच्यानि यानि त्रिकोणानि चतुष्कोणानि च विमानानि सन्ति, | तेष्वर्धं सौधर्मेन्द्रस्यार्धमीशानेन्द्रस्य बोध्यानि । एष एव क्रमः सनत्कुमारमाहेन्द्रकुमारदेवलोक-11 योरप्यस्ति । इत्थं वृद्धदेवतया विभक्तं सर्वं श्रुत्वा तावुभाविन्द्रौ चिरजातमपि वैरं विहाय परस्परं । प्रीतिभाजौ जाती। ____ अथैकदा चन्द्रशेखरो देवो हरिणगमेषिणं देवमपृच्छत्-हरिणगमेपिन् ! अस्ति कोऽपि जनः | संसारे, यो हि वशीकृतजगत्त्रयस्य लोभस्य वश्यतां नो धत्ते । देवेन्द्रौ भूत्वाप्यावां लोभग्रस्त चेतसौ परस्परं यध्यावहे. तर्हि मानां का गणना ?, हरिणगमेषी न्यगदत-भ्रातः ! त्वं सत्यं जगदिथ, परं सर्वेषां मनांसि लोभाकृष्टानि न भवन्ति । अपरेषां वार्ता किं ब्रवीमि, साक्षादिन्द्रारणीमप्यालोक्य यस्य चित्तं मनागपि न चलति, तादृश एको वसुसारश्रेष्टिनः पुत्रो रत्नसार! कुमारोऽस्ति, अयं सदैव निर्लोभो विद्यते, किमधिकमधुनापि देवार्पितमपि राज्यं पुराङ्गीकृतव्रत Sain Educh Frontal Finelibrary.org Page #84 -------------------------------------------------------------------------- ________________ पबद्धं चरित्रम् । नसार २४॥ ४२ भङ्गभिया न गृह्णाति । यद्राज्यं महान्तोऽपि जीवाः कामयन्ते परं रत्नसारस्तु तुच्छमेव गणयते ।। ____ रत्नसार ! हरिणगमेषिणोक्तमेतदाकर्ण्य चन्द्रशेखरो नामन्यत, ततस्तव परीक्षायै सोऽत्रागत्य IN पुरा राक्षसीभूय निर्जनमेकं नगरं निर्ममौ सारिकां कृतवान् , आऽऽदावेवान्तःप्रविशन्तं त्वां न्यवारयत् । स एव तव राजकीयकीरं सपिञ्जरमपाहरत् । प्रान्ते समुद्रपातादिनानोपसर्गस्ते विहितः । स एव चन्द्रशेखरदेवोऽस्मि । महाभाग ! मया तेऽतिगर्हितं कृतं तदधुना क्षमस्व । कृतागसि मयि प्रसीद, किमप्यभीष्टं वस्तु वरय । यतः देवदर्शनं सर्वस्य सफलमेव भवति, विफलं कस्यापि नैव जायते। रत्नसारोवादीत्-भो देव । ममाहतशाश्वतधर्मप्रभावात्सर्वं विद्यते, कस्याप्यपेक्षा नास्ति, तथापि यदि त्वं किमपि दातुमीहसे, तर्हि मे नन्दीश्वरमहातीर्थयात्रां कारय ? एतदेव त्वामभियाचे । ततश्चन्द्रशेखरदेवता तथास्तु, इति निगद्य सपिञ्जरं कीरं कुमाराय दत्तवान् । ततः पश्चात् नन्दीश्वरमहातीर्थयात्रां कारयित्वा सकीरं रत्नसारं कनकपुरं नगरमनैषीत् । तत्र च कनकध्वजनृपाग्रे रत्नसारमाहात्म्यं व्याख्याय सन्मान्य च मिष्टवचनादिना स देवः स्वस्थानमगात् । RA.दर ॥२४॥ in one For Personal Private Use Only Allww.jainelibrary.org. Page #85 -------------------------------------------------------------------------- ________________ ___ अथ कनकध्वजस्य राज्ञः श्वशुरस्याज्ञया सामन्तप्रधानादिकतिपयोत्तमपरिवारयुतः पत्नीभ्यां सहितः कुमारः स्वनगरी प्रति चचाल । मार्गे च प्रतिग्रामेषु राजभिः सत्कृतः कतिपयदिवसैः रत्नसारो रत्नविशालां नगरीमाससाद । तत्रावसरे महत्या समृद्धया समागतं रत्नसारमवगत्य समरसिंहनरपतिवसुसारश्रेष्ठिप्रमुखाः सर्वे पौरास्तत्संमुखमागताः । महामहेन कुमारं पुरप्रवेशमकारयन् । ततः सुखेन समुपविष्टेषु पौरजनेषु नृपप्रमुखेषु सर्वं कुमारचरित्रं स कीरो व्याजहार । तदाकर्ण्य प्रमोदमापन्नाः सर्वे जनास्तुष्टुवुः । अथ पत्नीयुगलसंयुतो रत्नसारः शाश्वतमाहतं धर्म वर्धयन् सांसारिकमनुपमं भोगं भुञ्जानः कालं सुखेन गमयन्नासीत् । ___अथैकदा तत्र नगरे रम्योद्याने चतुर्ज्ञानधरो धर्मपतिसूरीश्वर आययौ । तस्य वन्दनायै रत्नसारप्रमुखाः पौरजनास्तत्राजग्मुः । समरसिंहभूपोप्यागतः सपरिवारः । उपाविशंश्च सर्वे स्वोचितस्थाने । आचार्यवर्यश्च धर्मदेशनां प्राह धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ।। १ ॥ व्याख्या—यस्य पुरुषस्य धर्मार्थकाममोक्षाणामेषां चतुर्णा वर्गाणां पुरुषार्थानां मध्ये Sain Education international For Personal & Private Use Only Amlainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ चरित्रम। 84 द्यबद्धं-IN| एकोऽपि न विद्यते-नास्ति, तस्य-पुरुषस्य जन्म अजागलस्तनस्येव निरर्थकं-निष्फलं भवति त्निसार भाषायामप्युक्तम्२५॥ कंचन कामिनी कोय, काम नहिं आवे पछी। काल केरी फाल मांही, गयुं सह जाणजे ॥ चटक दिवस चार, भटके मृढ गमार । अन्तर विचार यार, सार सौ संभालजे ॥ बादल घटानी जेम, परिवार विखराये । चांदनी दिवस चार, अन्तर उतारजे ॥ आजकाल आश मांहि, मीत गयो काल तारो । पाप करी मूढ पछी, अधोगति मानजे ॥१॥ जन्म्यो जग ते जन जे निज काम तजी परमारथ काज कर । जन्म्यो जग ते जन जे निज प्राण थकी पर प्राण अधिक धरे । जन्म्यो वलि ते जन जेह थकी शुभ धर्म सुकर्म सदा पसरे । मनमोहन तो जन्मे न मरे निज ध्यान सुधारसता समरे ॥२॥ सायची सुखद होय मान तणो मद होय खमा खमा खुद होय ते तो कशा कामर्नु । जुवानी जोर होय एशनो अंकोर होय दोलतनो दोर होय ए ते सुख नामर्नु । वनिता विलास होय प्रोढता प्रकाश होय दक्ष जेवा दास हाय होय सुख धामर्नु । वदे रायचंद एम सद्धमने धायर्या विना जाणी लेजे सुख एतो वेएज बदामर्नु ॥ ३॥ ॥२५॥ Jain Edu For Personal & Private Use Only inelibrary.org Page #87 -------------------------------------------------------------------------- ________________ 85 इत्यादिसुधारसप्रवर्षिणी धर्मदेशनां श्रुत्वा सर्वे जनाः प्रमुदिताः । देशनान्ते च राजा रत्नसारविषये गुरूनपृच्छत्-भगवन् ! एष रत्नसारो भवान्तरे कानि कानि सुकृतानि चक्रे, येनेदृशीं कीर्ति समृद्धिमप्यनुत्तरां सुखं चानुपममिह जन्मनि भुक्ते, तदा गुरव ऊचिरे-राजन् ! श्रूयतां कुमारस्य जन्मान्तरीयं चरितम् । इहैव भरतक्षेत्रे राजपुर नामकं नगरमस्ति । तत्र जितशत्रुनामा क्षितिपतिरभूत् । तस्य श्रीसाराभिधानः कुमार आसीत् । तस्य च क्षत्रियपुत्रप्रधानपुत्रश्रेष्टिपुत्रा मित्राण्यभूवन् । तेषु चतुर्षु मित्रेषु महान् स्नेह आसीत् , कोऽपि कस्यापि वियोगं क्षणमपि नाऽसहत । ___अथैकस्यां रजन्यां राड्याः सौधे खात्रं दत्त्वा कश्चन महांस्तस्करो राझ्याः सारतराणि भूयांसि धनाभरणानि चोरयामास। तदनु तानि चोरितानि धनाभरणानि लात्वा बहिर्गच्छन् कोहपालेन दृष्टस्ततस्तं गृहीत्वा दृढं बध्वा च नृपान्तिकमनयत । तमालोक्य राजा तस्य कोटपालस्यैवमादिष्टवान्। भोः कोहपाल ! एष शूलिकायामारोप्य हन्तव्यः। तदैव तेन स चौरः शिरो मुण्डयित्वा गर्धभोपरि निवेश्य नगरचतुष्पथादौ परिभ्राम्य शूलिकास्थाने नीयमानो मार्गे श्रीसारेण दैवाद् दृष्टः । तदा कुमारः कोहपालं तत्स्वरूपमपाक्षीत् । तदा स यथाजातं चौरवृत्तं व्यजिज्ञपत् । तत्रावसरे दयासागरः For Personal Private Use Only Finelibrary.org Page #88 -------------------------------------------------------------------------- ________________ प्रबद्य- नसार २६॥ श्रीसारो राजकुमारः कोहपालमित्याख्यत्-अरे ! एनं मुञ्च, मम मातुर्धनमसौ चोरितवान्, अतः चरित्रम् स्वयमेवाहमेतस्मै दण्डं समुचितं दास्यामीति । ततस्तं चौरं वधान्मोचयित्वा नगराबहिरेकान्ते । समानीय कुमारस्तस्येदृशीं शिक्षां ददौ-भो महानुभाव ! तव राज्ञा वध आदिष्टः। परन्तु अहं त्वाममोचयम् । अद्यप्रभृति चौर्यं मा कुरु, करिष्यास चेत्तर्हि स एव दण्डो मिलिष्यति, इत्यादि शिक्षि- | तश्चौरोपि तत्सन्निधौ चौर्यमद्यप्रभृति कदापि न करिष्यामीति शपथं-नियममकारोत् । ततः कुमा- 11 रस्तं प्रच्छन्नतया विससर्ज । अहो महात्मनां माहात्म्यम्, यदपकारिजनेऽपि दयामेव कुर्वन्ति, परन्तु सर्वेषां पञ्चमित्राणि तावन्तो द्विषश्च भवन्तीति निसर्गः। तेन हेतुना कोऽपि कमारविरोधी नृपकणे कुमारेण शूलिकातश्चौरो मोचितः । श्रीमता प्रभुणा निर्दिष्टस्य चौरवधस्यान्यथाकरणेन | कुमारस्य महानपराधो जात इति सूचयामास । तेन कुपितो नरपतिस्तदैव कुमारमाकार्य तदर्थम- | धिकं तिरस्कृतवान् । तथाहि-अरे ! ममाज्ञाया अपि त्वया भङ्गः कृतः। नृपादेशभङ्गकरणे किं जायते ? तन्न जानासि। इत्थं पित्रा तिरस्कृतः कुमारो मनसि खेदं वहन् कुत्राप्यन्यत्र ययौ। तदुक्तम् अरण्यं सारगर्गिरिकुहरगर्भाश्च हरिभिर्दिशो दिङ्मातङ्गैः सलिलमुषितं पङ्कजवनैः । ॥२६॥ For Personal & Private Use Only M ainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ 87 प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः, सतां माने म्लाने मरणमथवा दूरगमनम् ॥ १ ॥ व्याख्या-सतां-महतां पुंसां माने म्लाने-सत्यपमाने मरणं दूरगमनं-देशत्यागो वा श्रेयस्कर भवति । एतदेव स्पष्टीकरोति-प्रियायाः-कान्तायाश्चक्षुषा लोचनेन विजितैः-पराजितैः सारङ्गैर्मृगै ररण्यं-वनं सेवितम्। तथा प्रियाया मध्यभागेन विजितैर्हरिभिः सिंहगिरिकुहरगर्भाः-पर्वतीयगुहान्तः सेवितम् । प्रियायाः स्तनमण्डलेन विजितैर्दिग्गजैर्दिशः श्रिताः। वदनसौन्दर्येण विजितैः पङ्कजैकमलैः सलिलमुषितम् , अर्थाजले निमजितम् । अन्यच्च श्रावृणोति यदि सा मृगीदृशी, स्वाञ्चलेन कुचकाञ्चनाचलम् । भूय एव बहिरेति गौरवादुन्नतो न सहते तिरस्क्रियाम् ॥ १॥ व्याख्या-उन्नतो महाजनः कस्यापि तिरस्क्रियामपमानं न सहते । एतदेव दृष्टान्तमुखेन दर्शयति । यथा-मृगीदृशी-मृगाक्षी काचिद् युवतिः स्वाञ्चलेन-वस्त्रायेण कुचकाञ्चनाचलं-स्तनमण्डलात्मकं कनकगिरिं वारम्वारमावृणोति-आच्छादयति । परन्तु गौरवाद्धेतोः भूयः-पुनः पुनः बहिरेव एति-आयाति । अर्थात्-कामिन्या मुहुरावृतमपि कुचयुगलं पुनः पुनरनावृतं भवति । तत्र Sain Educa For Personal & Private Use Only Binelibrary.org Page #90 -------------------------------------------------------------------------- ________________ 88 चरित्रम् । प्रबद्यंनसार २७॥ कारणमौन्नत्यमेव मन्तव्यम् । इत्थं मानिनां पुंसां प्राणहानितोऽपि मानहानिरतिदुःसहा भवति । __ इतश्च श्रीसारकुमारे प्रयाते सति तस्य त्रयः सुहृदोऽपि सहैव चेलुः । कथितञ्च जानीयात्प्रेक्षणे भृत्यान, बान्धवान व्यसनागमे । मित्रमापदि काले च, भार्यां च विभवक्षये ॥ १ ॥ ___ व्याख्या-प्रेक्षणे-कार्यकाल उपस्थिते भृत्यान्-अनुचरान् , व्यसनागमे-कष्टे प्राते समुपस्थिते बान्धवान् , आपदि काले-विपत्तावागतायां मित्रम्, विभवक्षये-क्षीणसम्पत्तौ भार्यां-स्त्रियं जानीयात्-परीक्षेत । ___ अथ सहैव ते चत्वारः सखायो विदेशं गच्छन्तः क्रमेणैकत्र महारण्ये प्राप्ताः। तत्र च | पथभ्रान्त्या सर्वेऽपि मिथो वियुक्ता भृशं क्लिश्यन्तो दिनत्रयं परिभ्रमुः। चतुर्थे दिवसे सर्वे चैकत्र मिलिताः प्रमुदिता एकस्मिन्नगरे समायाताः । तत्र ते सर्वे कृतनित्यक्रिया विधिवत्खाद्यपेयादिसामग्री पक्त्वा यावद् भोक्तुमुपाविशन् , तावत्तत्र कश्चिदेको जिनकल्पी मुनिर्गोचर्ये समागत्य | धर्मलाभमदत्त । तत्रावसरे शुभपरिणामी श्रीसारः शुभभावनया तस्मै साधवे निर्दोषाहारं ददौ । || सत्पात्रदानात्तेन बहुभोग्यकर्माण्यर्जितानि । प्रधानपुत्रश्रेष्टिपुत्राभ्यां तदानमनुमोदितं, तेन International For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ ताभ्यामपि तथाविधं कर्म उपार्जितम् । किन्तु क्षत्रियपुत्रेण सुकृतहीनेनैवं प्रोक्तम्-अरे ! मामधिकं बाधते तुधा अतो मदर्थं किञ्चिदवशेषणीयमिति । अनेन तु दानान्तरायकर्मबन्धनाद् भोगान्तरायकर्मैव बद्धम् । तदनु तदुःखितः जितशत्रू राजा तं पश्चादाकार्य श्रीसारकुमाराय राज्य- | मदात् । प्रधानपुत्रं प्रधानपदे न्ययुक्त । एवं श्रेष्टिनः पुत्रं नगरप्रेष्टिपदे क्षत्रियपुत्रं सेनाधिपतिपदे | न्ययुक्त । ततस्ते चत्वारोऽपि स्वस्वपदे तिष्ठन्तश्चिरं सुखमनुभूय मृत्वा स श्रीसारजीवः साम्प्रतं | रत्नसारोऽभूत् । तौ प्रधानपुत्रश्रेष्ठिपुत्रौ मृत्वा रत्नसारस्य परन्यौ बभूवतुः। क्षत्रियपुत्रस्तु दाना न्तरायकर्मयोगत इह जन्मनि कीरोऽभूत् । यश्चौरो जन्मान्तरे श्रीसारेण मोचितः स तापसव्रतं चिरं परिपाल्य प्रान्ते मृत्वा चन्द्रचूडनामा देवोऽभूत् । अतस्तेनात्र जन्मनि रत्नसारस्य साहाय्यं चके। ___इत्थं रत्नसारकुमारस्य जन्मान्तरीयं चरित्रमाकर्ण्य सर्वे नृपादयो लोका महताऽऽदरेण d सत्पात्रदानं कर्तुं लग्नाः । जिनोदिते शाश्वते धर्मे च महतीं श्रद्धामदधत । रत्नसारोऽपि पुराकृतसुकृतनिचययोगात् पत्नीभ्यां सहितो नानाविधमनुपमं सुखं भुञ्जानो बहूनि धर्मकृत्यानि कृतवान् । तीर्थयात्रारथयात्रादिसद्धर्मकृयानि वहुधाऽकरोत् । सौवर्णानि राजतानि जिनेश्वरबिम्बान्यनेकानि Sain Educ tional For Personal Private Use Only Jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ धबधंत्नसार २८॥ कारयित्वा विधिवत्प्रातिष्ठिपत् । इत्थं महतीं जिनशासनस्य प्रभावनामकार्षीत् । तत्सङ्गत्या तदीये || चरित्रम् । | द्वे पत्न्यावपि धर्मकृत्यानि कर्तुमलगताम् , प्रान्ते पण्डितमरणेन मृत्वा रत्नसारकुमारोऽच्युते देव ॥ लोके देवोऽभूत् । ततश्च्युत्वा महाविदेहे समुत्पद्य जिनधर्ममाराध्य मोक्षं यास्यति । भो भव्याः ! इत्थं सम्यक्त्वसहितं परिग्रहपरिमाणवतं यथावद्ये समाचरिष्यन्ति, तेऽवश्यमिह संसारे रत्नसारकुमारवदनुपमा सर्वां सुखसमृद्धिमनुभूय प्रान्ते शिवश्रियमधिगमिष्यन्तीति परमार्थः । शाकेऽन्दे नववेदभोगिशशभृत्संख्यान्विते माधवे, शुक्ले शङ्करवल्लभातिथिवुधे श्रीरत्नसाराभिधम् । चक्रे पूर्णमिदं चरित्रमनघं गूडानगर्या मरी, विद्वद्भरिमुदे यतीन्द्रविजयो व्याख्यानबाचस्पतिः ॥१॥ ॥ २८॥ Son intermational For Personal Private Use Only w Page #93 -------------------------------------------------------------------------- ________________ gf श्रीहरिबलधीवर - चरित्रम् । प्रभुवरवीर जिनेन्द्रं, दयालुमभिनम्य यतीन्द्रविजयेन । हरिबलधीवरचरितं क्रियते दयादर्शकश्चित्रम् ॥ १ ॥ अयि विदाङ्कुर्वन्तुतरां नितरां, सुहृदयाः, सज्जनमहोदयाः ! यदस्यामसारभूतायां जगत्यां भूरिशो धर्माः शास्त्रकृद्भिर्महर्षिभिर्भणिताः सन्त्येव सुतराम्, किन्तु तेषु ' मा हिंस्यात्सर्वभूतानि 'अहिंसा परमो धर्मः ' ' सर्वेषु वै जीवदयाप्रधानम् ' इत्यादि महतां महावाक्यैर्जीवदयाधर्मः कथित एव, स च कीदृश: ? कर्हि कर्त्तव्याः ? कथं कर्त्तव्याः ?, इत्यादि जायमानायां, सुपृच्छायां, दृष्टान्तमन्तरा दान्तबोधस्याऽशक्यत्वादवश्यं किमपि दृष्टान्तं वक्तव्यमिति हृदि निधाय प्रकृते जीवदयाधर्मविषयिकां हरिबलधीवरकथामेव प्रब्रुवे तावत् । यामाकण्यैव निर्दयोऽपि सदयो जायतेतरामेव । सा चेत्थम् - अस्ति भूरिरजतकनकादिपद्मालयापरिपूरितं काञ्चनपुरं सुपुरम् । तत्र च सकलसपत्ननृपति For Personal & Private Use Only library.org Page #94 -------------------------------------------------------------------------- ________________ ५२ पबा चरित्रम्। सैनिकभीतिप्रदायको वसन्तसेनो राजा राज्यकुर्वाणो निवसति स्म, तदीया च शचीसुरूपा नसार वसन्तसेनानामधेया पट्टराज्ञी समजायत । अथ पुत्रादिरहितयोस्तयोर्बहुकालान्ते कदाचित् । २६ ॥ || सकलमनोरथगुणसम्पन्ना वसन्त श्रीनाम्नी पुत्र्येका प्रादुर्बभूव, यां तरुणपुरुषचित्तोन्मादकी निर्वर्ण्य तज्जनकेन वसन्त मूर्तये तस्यै वसन्तश्रिये योग्ये वरे बहुगवषितेऽपि योग्यः कथङ्कारमपि । नालम्भि। ___ अथास्मिन्नेव पत्तने निजप्रकृतिभद्रः पयोजालप्रसारणदक्षः कश्चिद् हरिबलाभिधो धीवरः प्रतिवसन्नासीत्, तस्य चानार्यशिरोमणिः परिणामदुःखभावा सत्या नाम भार्या । ततो हरिवलोऽहनिशमुद्वेगत्वमापन्नः स्वप्नेऽपि शर्माऽलभमान आसीद् । यथाहि कुग्रामवासः कुनरंन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्यावहुत्वं च दरिद्रता च, षड् जीवलोके नरकानि सन्ति ॥ १॥ अथ जातु हरिबलो नदीतीरे कश्चन मुनिं विलोक्य नमस्कारोऽस्तु ' इति व्यधात् । मुनिरूचे-भद्र ! को धर्मो विज्ञायते त्वयका?, स चोवाच-यौ वै मामकः कुलाचारधर्मस्तमेव विजानीमो ॥२६॥ JainEdATHI For Personal Private Use Only inlibrary.org Page #95 -------------------------------------------------------------------------- ________________ न च धर्मान्तरं विजानीमः, अतः स एव धर्म एकाग्रचित्तेन समाराध्यते मयका। श्रुत्वैवं मुनिर्व्या- IN जहार-यत् स धर्मस्तु कथनमात्रमेव, त्वं तमेव धर्म मुख्यं मन्यसे, किन्तु नायं मुख्यो धर्मः। को H नाम वै कुलधर्मः ? इति निश्चेयं त्वया। यदीयो जनको दुर्भाग्यवान् दुराचारवान् दुर्विनीतो दासत्वेन गयो हीनः कुलाचारसेवी च। यश्च तदीयो डिम्भः स किं विजानीयात् ? सोऽपि ताहगेव कर्म कर्यात? किन्त मतिमाञ्जनो नाम कलाचारधर्म जानीयात । किश्च मख्य का धर्मस्तु स एव यो जीवदयाधर्मविषयको भवेत । योऽहर्निशं जीवरक्षकः स एव मनोऽभिलषित प्रदमन्दारद्रुमः । यश्च पुमान् प्राणिनो हन्यात्, स शाश्वतदुःखभाग्भवतीति निश्चय एव । केवला जीवदया त्वनेकदुःखापसारिका, तथाऽनेकसुखप्रदायिका च । अतस्त्वं सुखावाप्तिमीहसे, तर्हि रे धीवर ! जीवदयायां सोयमेन भवितव्यं त्वया । श्रुत्वैवं स धीवरः परां प्रीतिमावहन् मुनिं प्रोवाच-स्वामिन् ! सेव्योऽयं दयाधर्मः, परं किङ्करवाणि, मदीयं मासिकं कुलं, यथा रगृहे भोजनाऽन्योन्यं तथा धीवरगृहे जीवदयाऽन्योन्यमिति । तदीयां वाचमाकण्र्येत्थमाह मुनिः-यदि सर्वथा त्यक्तुं नार्हस्त्वं तहत्थिमवश्यमेव विधातव्यं त्वया, यत्पूर्वं यो भत्स्यस्त्तदानाये Jain EdudindMinermational For Personal Private Use Only library.org Page #96 -------------------------------------------------------------------------- ________________ द्यद्यं - नसार ३० ॥ 94 समागच्छेत्, स जीवन्नेव हेयस्त्वया, यद् असौ नियमः सुरीत्या स्वीकरिष्यते, तर्हि यथाऽम्भसां सेचनात् न्यग्रोधाङ्कुरो विस्तारमापद्यते, तथा व्रतमयो वृक्षः शुद्धभावरूपजलसेचनेनानन्तातुल फलप्रदः । ईदृशीं मौनीं गिरं श्रुत्वा तन्नियमं सुयोग्यं मन्यमानो हरिवलस्तद्व्रतं सहर्ष स्वीचक्रे । ततो निजात्मानं कृतार्थं मन्यमानो नदीगम्भीरजले नैजं जालं प्रसारयामास यदैव । तदानीमेव तन्नियमातुलफलप्रदर्शनायैको महान् मत्स्यो जाले समापतितः । अथ लोभसमूहं हावा जाले समागतं मत्स्यं तदानीमेव निजनियमपरिपालनाय मत्स्यगले डोरिकामेकां बद्धा जले प्रचिक्षेप | क्षेपणान्ते च स एव मीनो जाले प्रसार्यमाणे पुनरपि समापतत् । दृष्ट्दैव स धीवरो हरिलो भूयोऽपि तं जले विससर्ज । एवं यावद्वारं वारं जालोपरि जालं प्राक्षिपत् । परं तमेव मीनं विज्ञाय तत्स्थानं विहायाऽन्यत्र जालप्रसारणायोद्युक्तो बभूव । पुनरपि स एव मीनो जाले समायातः, पुनः पुनरेतादृग्दुःखमनुभवन्नपि किञ्चिन्मात्रं पश्चात्तापमनाप्नुवन् नियमं च स्वीयं दृढीकर्त्तुमातापि धैर्यमत्यजन् सन्ध्याकाले यावत्तमेवं मीनं जले सम्पातयति तावत्स मीनो मनुष्यवाचोवाच प्राय साहसिक ! साहसात्त्वयि प्रहृष्टोऽहमतो मनोऽभिलषितं मां याचस्वेति । तदीयं For Personal & Private Use Only चरित्रम् | ।। ३० ।। Page #97 -------------------------------------------------------------------------- ________________ Sha 95 वचः समाकर्ण्य हरिबलो विस्मयान्वितं इत्थमचकथत । यन्मत्स्यो भव॑स्त्वं मह्यं किं दातुमर्हसि ?, IN स चोवाच-मा मां मत्स्यमेव विद्धि, लवणसमुद्राधिष्ठातृदेवं मां जानीहि । इदानीं तावकीनां दृढनियममर्यादां व्यलोकयम् । यतो भूयांसः सुपुमांसो व्रतनियम स्वीकुर्वन्त्येव नहि, भूयांसो गृहीत्वापि न पालयन्ति । किञ्च स्वीकृत्य ये परिपालयन्ति, ते धन्याः। एतादृशो जगत्यां विरला एव । अतो हि त्वन्नियमदाढ्यं विलोक्यातीवाहं प्रहृष्टः । अतोऽभीष्टं वरं वरय ?, यदेव त्वं याचिष्यसे तदेवाहं दास्ये । अथ श्रुत्वैवं सहर्षों हरिबलोऽपि वरं प्राह-देव । 'यद्येव मयि काचिदापत्तिः समापतेत् तदानीं ततोऽहं हाप्यः।' अलमनेनैव सुवरेण, देवोऽप्यद उररीकृत्य वरं प्रदाय तिरोदधे। ततो हरिवलो मत्स्यालाभात् स्वस्त्रिया भीतो नगराबहिः कस्मॅिश्चिद् देवालये समागत्येत्थं व्यचिन्तयत्, यद् मयि शङ्काद्वयं समुपजायते, तयोः पूर्वन्त्वहं जात्या धीवरः, अथान्यद्धीवरस्यापि सतो मम द्रागेव नियमफलावाप्तिः तत्कथम् ?, यथा-चक्रवर्ती नृपोऽहर्मुखे पलाण्डु वपेत् सायं चाहरेत् , तथैकजीवदयातो देवः प्रहृष्य मह्यं वचः प्रादात् ! तद् यदि सर्वजीवेषु JainEduc For Personal Private Use Only nelibrary.org Page #98 -------------------------------------------------------------------------- ________________ 4G द्यबद्य- दयां कुर्याम् तर्हि कियन् मे फलं प्रादुर्भूयान्नाम । अतो धन्येषु धन्यतमः सः यो जीवा- चरित्रम् । त्नसार नुद्धरेत् । अहो धिङ्मां योऽहं सर्वथा जीवान् हन्मि, यदि कथङ्कारमपि मे जीविका निर्वाहो । ३१ ॥ भवेन्नाम तदहं सुकृतविनाशिनीमिमां हिंसाविषलतां तदानीमेव परिजहामि । यो ह्यस्मिन्संसारे धर्मफलमद्राक्षीत्. निजप्रकृतिभद्रश्च स एव कल्याणभाक् । अथ यावद्धरिबल एवं विचिन्तयति तावत् किमाश्चर्यजनकमभूदित्याह__अथ जातु राजपुत्री गवाक्षउपविष्टाऽऽसीत्, एतद्देव रूपेण मारोपमो हरिबलस्तद्गवाक्षस्याधस्ताद् भ्राम्यन्निस्ससार । दृष्दैव तं सा राजपुत्री । तस्मिन् सरागाऽजनि व्यचिन्तयच्च स्वीये हृदि-यदयं हरिबलो मामको भर्त्ता भवतु चेत् , मे मनोऽभीष्टसिद्धिः स्यादिति विचिन्त्य चेत्थं निजमनोऽभीष्टभावं सुदले विलिख्य तद्गन्तव्यवमनि तद्दलं प्राक्षिपत् । पतितं दलं विलोक्य N व्यवहारिपुत्रो हरिवलो ह्युपरि व्यलोकयत् । तदानीं तयोर्दृष्टिमेलनं जातं, पश्चात्सा राजपुत्री मन्मथवधूरूपा कामोत्पादिकौषधिरिवाऽऽसीत् । एवंभूतां तां प्रेक्ष्य तयोमिथो रागप्राबल्यं समजायत, सङ्केतञ्च चक्रतुस्तौ-' यत् कालीचतुर्दश्यां तिथौ द्वाववश्यं दूरदेशान्तरं गच्छेव'। ॥ ३१ ॥ in d o mational For Personal Private Use Only Page #99 -------------------------------------------------------------------------- ________________ 97 राजपुत्री चोक्तवती-अहं कृष्णचतुर्दश्यां नक्तं कश्चन व्याजं विधाय देवीदर्शनाय देवीनिकेतने समायास्ये त्वया च तत्र गत्वाऽवश्यं स्थेयम् ' इति सङ्केतं निश्चिक्यतुः । ततः कामरागाद्विनीतः शिष्य इव यद् राजपुत्र्याह-तन्मन्यमानो व्यवहारिपुत्रो हरिबलो निजगृहमात्रज्य सङ्केतदिवसं विज्ञाय समागते तद्दिने हरिबलो देवालये समागत्य सचिन्तः सपीडः सुष्वाप । अथ कर्मानुसारिणी बुद्धिर्भवतीति स निजचेतसीत्थं बहु विचिन्तयामास-“ यदियं बाला मनोभवग्रहग्रस्ता, किञ्च नाहं कामग्रस्तः, बलवती स्त्री प्रच्छन्नकार्यकर्वी भवति, साम्प्रतं च रात्र्यवसरः सोऽपि पापकर्मसाहाय्यकः पश्चान्मे सुखं स्यादिति केनाऽदार्श ? किं वाहमपराधकृत्स्याम्, मत्पित्रोश्च विप्रयोगः स्यात् , यदि भूपतिश्चावगच्छेत् , मामवश्यं संघातयेत् " इत्यादि बहु विमृश्य सत्यामपि वह्वभिलषितायां मनसि भूयसी भीतिं मन्वानो पश्चात्स्वगृहे समाययौ । वणिग्जातौ स्वाभाविकी भीतिरेव । उक्तं चस्त्रीजातौ दाम्भिकता, भालूकता भूयसी वणिग्जातौ । रोषः क्षत्रियजातौ द्विजजातौ स्यात्पुनर्लोभः ॥१॥ ____ अतो वै यः स भीकः स इह सौख्यभाङ् न स्यात् . परत्र च स्वात्महितकृतौ नालं भवेत् । Sain EduL a tional For Personal & Private Use Only new.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ चरित्रम् । तस्य चेदृक् क्व भाग्यम् यः पूर्णभाग्यो यस्य च तया सार्धं प्राग्जन्मसम्बन्धः स एव तां परिणयेत। अस्मिन्नेवावसरे धीवरो हरिबलोऽपि तद् देवीदेवालयमध्ये समागत्यैकान्तप्रदेशे सुखसुप्तोऽभूत् ।। .. अथ सा राजपुत्री निजकार्यसंसाधनाय स्वपितृभ्यां कलहमापादयन्ती पृथगेवावात्सीत् । पश्चात्संकेतितादिने नानाविधरत्नाभरणवासोमुख्यवस्तुजातं संगृह्याश्वमारुह्य द्वारमायाश्चके ।। ततः प्रागद्वाररक्षकाय रत्नमुद्रादि समर्प्य कपाटायुघाटयाञ्चके। देवीमन्दिरे च गत्वा निर्वायं IN हर्षद्वहन्ती हरिबलमाह्वयाञ्चक्रे-अयि ! अस्तीह कश्चित् पुण्यवान् हरिबलाभिधः । देव्या इव दिव्यालङ्कारभूषिताया घोटकाधिरूढायाः कुमारिकायाः सुधामयीं वाचमाकर्ण्य सोऽपि बहु हर्ष | NI मन्वानः सविस्मयः सहर्षचेता मन्दिराऽधिष्ठितकन्या सन्तोषाय हुङ्कारशब्दं प्रोवाच । श्रुत्वैव । सापि प्रियप्राणनाथ ! झटित्येव सजीभूय समेतु ? अद्य हि विदेशगमनाय सफलीभूतो नौ मनोऽ- | है भीष्ट इति तं संव्याजहार । अथ हरिबलो निजहृदीत्थं निरचैषीत्-यन्मन्नामा कश्चिद् द्वितीयो IN/ हरिबलस्तु नास्ति यत्तदर्थं संकेत इति प्रतिभाति मे; किं च परिश्रममन्तरा स्त्रीप्राप्तिः, मां च | प्रीत्याऽऽकारयति अतस्तया सह कुतो नैमि । पुण्योदयादेवैतादृशी घटना भवतीति मे निश्चयः। ॥३२॥ Widerinternational For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ १९ | इत्थं बहु विमृश्य मन्दिरतो निर्गच्छन् तदाननप्रत्यक्षीभूयाग्रे चलितुमारब्धवान् । - अथ स धीवरो निजचेतसीत्थं विचिन्तयति-एतन्निखिलमेव केवलं जीवहिंसाऽकरणादेव । यथा तन्निहाय हिंसां विदधानो हि यस्तां विजहाति, स एव पश्चाद् दरिद्रोऽपि राज्यं लभते, तथाहमपि पूर्वं मीनवधाय जालोपरि जालं प्रसारयन् तमजहामत एतादृक् सुखमनुभवामीति । अथ हरिबलं गजाश्वान्वितं प्रेक्ष्य सा राजपत्री तमित्थमाह-कथमीदृशस्त्वं?, किं तावकं वासो । वाहनादिकमपाहापीच्छुत्वैवं स व्यम्राक्षीत्-इदानी मे मौनावलम्बमेव वरीयः इति निश्चित्य हुङ्कारमात्रमेव व्याहार्षीत् । निजसर्वद्रव्यविनाशी असौ, इति निश्चिकाय सा। अतस्तदर्थमनुशोचन् हुङ्कारमात्रमवायमभिधत्ते, इति स्वीये हृदि विमृश्य तस्मै वासोलङ्कारादि परिधानार्थमर्पयामास । अथ तां सोऽभ्यधात्-यत्केनापि गणयितुमशक्य एतावान् मे पार्श्वे द्रव्यनिचयोऽस्ति । मद्विषये सर्वथा चिन्ताऽकार्या भवत्या, भाविनी खलु नौ मनोऽभीष्टसिद्धिः। यथा विमर्शी जनः स्वप्ने गतं धनं न शोचति तथा त्वं मदर्थं माऽशोचीरित्यं विचिन्त्य तेन सत्रा विनोदार्थं प्रेमान्वितवचो विदधती सा यत् किमप्यभिधत्ते । तच्छ्रुत्वा | For Personal Private Use Only Sinelibrary.org Page #102 -------------------------------------------------------------------------- ________________ द्धं सार ३ ॥ 110 विचिन्तयति सः, सर्वत्रैव मे हुङ्कारमात्रमेव फलदमिति विमृश्य भूयो भूयो हुङ्कारमात्रमेवोत्तरयामास । सापि शङ्कामदधाना स्वहृदि विचारयति - यत् किमसावज्ञः ? उताहंयुः, यतो हुङ्कारमेव मुहुर्मुहुर्व्याहरति । यद्वा सरोषो मय्येव, किमर्थं मां सम्यक् न ब्रूते, किं च भूयोऽपि सा विचार - यति-यतोऽयमुन्मार्गगन्ताऽतोऽस्य रक्षणाय नोपायान्तरं किञ्चिदपि, इत्थं शङ्कया व्यथितहृदया यावद् धुरि संक्रामति तावद्धिमांशुद्युतिमेकं निजमनोऽभीष्टदं कंचन पुमांसमद्राक्षीत् । निरीक्ष्य चैनम्, हा हेति शब्दायते स्म । वज्राघातताडितेव बहुविधां व्यथां लभमाना सा राजपुत्रिका विचिन्तयते-हन्त ! अहो धिग् विधातारं येनाहमुभयतो भ्रष्टीकृता, सांप्रतं पङ्कपतितहस्तिनी - वाहम् । यतः निदाधे हा ! धातः प्रचुरतरतृष्णातरलितः, सरः पूर्णं दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पङ्के मग्नस्तदानिकटवर्त्तिन्यपि यथा, न तीरं नो नीरं द्वयमपि विनष्टं विधिवशात् ॥ तथा मे पूर्व निजपितृतो विप्रयोगो राज्यश्रीत्यागो लोकविरुद्धाचरणात्पूर्वोक्तपङ्कपतितहस्ती - वाहमभवम् । किं बहुना मणिस्थाने मृदेव हस्ते समायाता । एतन्निखिलं स्वच्छन्दाचरणादेव International For Personal & Private Use Only चरित्रम् ! ॥ ३३ ॥ Page #103 -------------------------------------------------------------------------- ________________ समजनिष्ट । अतः स्त्री स्यात्पुरुषो वा ?, यो वै स्वेच्छाचारी स चैतत् फलभाक् स्यात् । तत्रापि स्त्रियोऽतिशयेन, अतो दुर्मते राशिं धिङ्माम् । अथवाऽगतिर्मे भाविनी, अहो यावजीवमहमतिदुःखाऽ- 17 भवम् । हन्त ! मृतिश्चेन्मे साधु ! इत्थं भूरिदुःखवार्द्धिवीचिमग्ना मृतिमीहमाना मार्गेऽचेतनीभूया. पप्तत् । स्वल्पसमये चोत्थाय सुस्थिरा कुम्भिन्यां समतिष्ठत । इतो हरिवलो विचिन्तयति-यदेतया सत्रा गृहवासादिसुखाशा दुराशैव, इयन्तु मां निर्वण्य कृशानुपतनोत्का प्रतिभाति । अहो ! किमत्र | मया कार्यम् । देवो मव्रतनियमफलतो मे सहायकश्चेद्वरं स्यात् । इत्थं स्वीये हृदि बहुधा | व्यचिन्तयत् । सापीत्थं विचारयति स्म-यत् गतपुंसः शुचाऽलम् , निजप्रशंसया नैजैव हानिः | अस्माद् यः शुच्यात्स मूढ एव, प्रादायि किलायं मे भर्ता देवेन ! अतोऽमं विशेषतया निश्चिनयाम्-यत्कोऽसौ, कास्य जातिः, किं चास्य स्वरूपं, केनादर्शि यदग्रेऽसौ भाग्यवान् स्यात् , यद्वाहमेव मन्दभाग्या पूर्वं किमपि न निरचैषम् । अतः पृष्ट्रामु निश्चिनुयामेव, यावदित्थं विचारयति बाला तावत्खेऽशरीरा वागभूत्-- ___ अयि कुमारि ! समृद्धिस्पृहा चेत्त्वमेनमेवाङ्गीकुर्वीथाः । युवयोर्महानेवोदयो जातः, एतादृशीं Sain Educa t ional For Personal & Private Use Only Iainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ । 119 देवगिरमाकर्ण्य निजहृदयजातागद्यमहानन्दमुपलभमाना सस्नेहा सनम्रा मधुरवाचा तमचीकथत् । पूर्व शुष्ककण्ठा जाताऽतो तृष्णया तं तोयमयाचत, सोऽपि द्रुतमेव गत्वा रात्रौ पयःस्थानं संगवेष्याम्भः समानीय समपीपयत् । प्रीतौ जायमानायां कष्टसाध्यो विधिः कष्टहेतुर्न प्रतिभाति । अथ सा निजचेतसि विचिन्तयति-रात्रौ वेविद्यमानायां घनिष्ठेऽन्धसि अविदिताध्वनि गत्वा द्रागेव मदर्थं जलं समानयत् नहि स्वल्पोऽपि कालो व्यतीतः। ततोऽयं बलीयान् पराक्रमी साहसिकश्च।। अथ सोऽपि व्यचिन्तयत्-यदवश्यं नौ कार्य भावि, इत्येवं विचारयतोस्तयोः कल्यकालः समजनि। ततः सा कुमारी प्रभातकालं विज्ञाय हरिवलीयं सुमनोहारिरूपं ससुप्रसन्ना मुहर्मुहुस्तदीयं | सौभाग्यातिशयं चावलोक्य समभ्यधात् । यद अयि सुभग ! अवसरोऽयं खलु नौ लग्नवेलायाः, अतो मां पत्नीत्वेनोररीकुर्याः, यतोऽहं पूर्वमवधारितवती स चायमवसरो जात एवेति श्रुत्वैवं तदीयां वाचं स हरिवलो विचिन्तयति-' यदहो अचिन्तनीयो नियममहिमा ' इत्यादि बहुधा विमृश्य सहर्षो गान्धर्वविवाहेन हरिः श्रियमिव सकलशोभाश्रियं वसन्तश्रियं परिणीतवान् । तद् दिनादेव | हरिबलीयः पुण्यपद्मोदयो बोभवीति स्मेति । ततस्ततो विहरन्तौ कंचनैकं सुग्राममुपलभ्य तत्र ॥ ३४ ॥ For Personal Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 113 गत्वा सलक्षणकं घोटकं चिक्राय । कतिपयाँश्च दासीदासान् स्वान्तिके संस्थापयामास । यतः | 'सति द्रव्यव्यये को नाम देहक्लेशादिकमुपसहते।' ततः सदासादिको चलन्तौ भूरिदेशान् समुल्लंघयन्तौ क्रमशो लक्ष्म्या विशालं विशालपुरं | समपलभ्य शुभशकुनेन तस्मिन् सुपत्तने प्रविविशतुः । ततो गते कियति काले कस्माञ्चिद् व्यव- । हारिपुत्रात्सप्तभूम्यावासं मूल्यतः संक्रीय तस्मिन् गृहे शुभमुहर्ने स्थितिं चक्राते। ततो हरिबलो | विचिन्तयति- क्वाहं नीचवंश्यो धीवरः?, क्वासौ पुण्यवती राजपुत्री ?, क्वेदं वित्तसामग्रीबाहल्यं? IN क्व चाह निर्धनो जनः ? अस्तु सर्वमपि दैवयोगतोऽलाभि मया । अतः पद्मां प्राप्यापि किमर्थं न लक्ष्मीफलं लभेयाहम् ।' इत्थं विमृश्य हीनदीनदुःखिजनेभ्यो बहुदानं प्रदत्ते स्म । अतस्तदीयं सौभाग्यातिशयं यशश्च सुविस्तारतामगात् । अथान्ते नगरे किंवदन्तीयं जाता-यत् कश्चनैको वैदेशिको राजपुत्रः समागात्, स चाखण्डं दानं देदीयते । महागुणवानुदारचेताश्च यतो दानात् | किं किं न बोभूयते खलु किन्तु सर्वमेव । तथाहि-- पात्रे धर्मनिबन्धनं परजने प्रोद्ययाख्यापकं, मित्रे प्रीतिविवर्द्धनं रिपुजने वैरापहारक्षमम् । Jain Educationallonal For Personal Private Use Only Mnelibrary.org Page #106 -------------------------------------------------------------------------- ________________ - सार ५ ।। 114 भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजाप्रदं, महादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥१॥ किंवदन्त्येत्थमाकर्ण्य तन्नगराधिपतिर्भूपतिः सबहुमानं हरिबलं सभायां समाकार्य बहुमानादिभिः सत्कृत्य निजान्तिके संस्थाप्य गोष्टयादिकं विहितवान् । अथ हरिबलोऽपि तद्दिवसमारभ्य शाश्वतिकां राजसेवां कर्त्तुमारब्धवान् । 'यस्य हि पुण्योदयः स्यात् स सर्वमनोरथफलभाक् स्यात् ' । अतएव स नृपतिर्हरिवलाय बहुप्रसन्नतामाप्य तदर्थं कामधुग् जातः । इत्थं जाते कियत्यपि काले स हरिबलो जातु व्यचिन्तयत्-यद्राज्ञा साकं नव्यासौ प्रीतिः, अतः कदाचित् निमन्त्रयितव्यो नृपतिः, विचार्यैवं भूपतिं निजगृहमानीय बहुभक्तिपूर्वकं भोजयामास । स च भूपतिर्भुञ्जनः पक्वान्नमिष्टादिसमर्पयन्तीं हरिबलीयां भार्यां वसन्तश्रियं विलोक्यैवं कामातुरीभूय विमृशति स्म-यत्कथङ्कारमपि हरिबलं संमार्य क्वचित् चिपामि चेत् स्त्रीयं मदधीना स्यात् । अहो धिगेतादृशं कामातुरं जनमिति । अथ कुमार्गमापतन्तं कामातुरं राजानं तदीय: स कुमात्यो भूपतिं कुमार्गादनिवारयन् राज्ञोऽभिप्रायमवगत्य सेयः प्रैरयत् ! हन्त धिगेतादृशं मुख्यामात्यं येन राजाऽनर्थग पात्यते । हो सत्यमेव- nternational For Personal & Private Use Only चरित्रम् | ॥ ३५ ॥ Page #107 -------------------------------------------------------------------------- ________________ 115 सर्वत्र सुलभा राजन् ? पुमांसः प्रियवादिनः । अप्रियस्य कुपथ्यस्य, वक्ता श्रोता च दुर्लभः ॥ १॥ ___ अथ स राट् हरिवलमारणाय कुमतिमन्तं मुख्यामात्यमाह-यद् भोः ! करणीयोऽस्ति मयो- | त्कृष्टविवाहमहोत्सवः, अतो वर्त्तते कश्चिदेतादृशः सत्त्वान् पुमान् , यो लङ्कापुरीं गत्वा सकुटुम्बं । राक्षसाधिपं विभीषणं समाकारयेत् । सभास्थितैतादृशमघटितं राजवचः समाकर्ण्य सर्वलोकोऽधोमुखीभूतः, नालञ्च कोऽपि राजसंमुखी भवितुम् । अथ दुष्टमतिः स राजमंत्री राजानमित्थमभ्यधात्-स्वामिन् ! सर्वभूपतिललामभूत ! कीदृशो भावत्काः सेवकाः, यत् भावत्कं वचः श्रुत्वा समेऽ. प्यसमर्था इव कृतनीचैर्मुखा बभूवुः । न कोऽपि संमुखोत्तरदायी, किं चाहं जानामि यश्चैतादृक्कार्ये सामर्थ्यवान् स च साहसिकशिरोमणिहरिबल एवेति । स च भावत्कं कार्यमवश्यं विधास्यतीति मे विनिश्चयः यतो भवता सम्मान्यः, मान्यो भवाँश्च तेनापि, सत्यभूतां तदीयां वाचमवधार्याभाणि राज्ञा स हरिवलः । लज्जावशीभूतः सोऽप्योमिति स्वीचकार । “ यतो हि सलज्जाय पुंसे वाक्यमेवोन्नतादुन्नतं कर्म, त्रपावशीभूतो जनोऽकार्यमपि कार्यमङ्गीकृत्य स्वीयमरणमपि स्वीकरोत्येव । ततः स धीवरो हरिवलो निजगृहमेत्य तदीयं वचो निजभार्यायै वसन्तश्रिये संश्रावयामास । श्रुत्वैव Jain Edu For Personal & Private Use Only mjainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ 18 सविषादा सा राज्ञो दुरभिप्रायं विज्ञाय स्वीयं भर्तारं हरिबलं संबोधयामास-प्रियप्राणनाथ ! || चरित्रम् । राजगृहगमनात् भवतः कीदृशोऽनर्थोऽजनिष्ट । भवदनायैव सर्वमेतद्विहितं तेन । अतो बहु विचार्य II भवता विधातव्यं कार्यमेतद्यतोऽविचारितं कार्यमनायैव भवतीति । शास्त्रादिना श्रूयते- सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः KI एतादृकार्यनैपुण्येन किं ? एतादृग्लजयापि किं ? येन यया वा स्वीयैव हानिः संपद्येत । नेदानी किमपि जातम् , अतो राज्ञे कंचन व्याज दत्त्वैहि । एवंभूतवसन्तश्रीमुखनिस्सृतवाचमाकर्ण्य स हरिबलोऽप्याह-प्रिये ! मा भैषीः। धर्मोऽयं खलु मतिमतां, यत् साहसिको जनः प्रतिज्ञां कृत्वा पुनः पश्चात् पादं मा विदध्यात् । प्राणा ब्रजेयुः, किं च प्रतिज्ञाभङ्गो मा भवेत्। यथा चन्द्रो विपत्तिं प्राप्यापि मृगलाञ्छनं नैव जहाति ' अतोऽमुष्मै कार्यायावश्यं गन्तव्यं मया। यद्भवितव्यं तद्भावि मह्यं, मदीया चिन्ता नैव किन्तु त्वदीयैव । यथा सिंहो हरिणी हरेत्तथा त्वां राजेति' हरिवलीयां वाचमाकर्ण्य सहर्षिका सा वसन्तश्रीनिजभत्रै शुभमीहमाना तद्वियोगात्सबाष्पनेत्रा रोमाञ्चितगात्रा व्याहरत्-शुभो भवते भूयात् पन्थाः कार्य संसाध्य शीघ्रमेवागन्तव्यं भवता, नैव शोच्याहं Sain International For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ Jain Educa 소규 नीतिरसौ, ' यदुत्तमा निजजीवं पातयेत् किं च निजसदाचारशीलं सर्वत्रैव संपालयेत् ' किन्त्वेतदेव भवन्तं वच्मि स्वीया रक्षितव्या अवश्यं प्राणाः अविचारितं कर्म कृत्वा पतङ्गवन्न मर्त्तव्यम् । यतो हि -- जीवन् भद्राण्यवाप्नोति, जीवन् पुण्यं करोति च । मृतस्वदेहनाशस्य धर्माद्युपरमस्तथा ॥ १ ॥ प्राणेश्वर ! भद्रपुरुषाय शिक्षेयं खलु स्त्रियाः किं च भवति प्रेमाधिक्या न स्थिरायते मे चेतः । अतो भवकन्तं भणाम्येव । इति सुधामयीं प्रेमवतीं तदीयां वाचं पायं पायं स हरिबलो दक्षिणस्यां दिशि प्रातिष्ठत । केवलं सत्वरूपसुहृदा सह भूरिग्रामदेशविकटाटवीः समुल्लंघयन् स समुद्रान्तिकमायातः । गत्वा च तत्र बहुभयानकं वाद्धिं दृष्ट्रैव सचिन्तचेतसा चिन्त्यते स्म । यत्कथं विलंघ्योऽसौ वार्धिः ? कथं वा गम्या लंका नचात्र वर्तते काचन नौः, कार्यसाधनमन्तरा कथं पश्चात्पादनिधानं, यतोऽहं धीवरस्तत्रापि इयती मे महती प्रतिष्ठा ! अहो इदानीं कार्याकार्यविमूढस्य मे को वा हितकृत् साहाय्यकः स्यात् । यदधुना मदर्थमुच्चप्रतिष्ठानदायी मद्धीवरत्वापहारी यो देवः सचैतादृक्काले मम साहाय्यकश्चेद्वरं स्यादिति समुद्राभ्याशे क्षणं विमर्शं विमर्शं हृदि धैर्यं चावलम्बमवलम्वं हे जीव ! कातरत्वे कार्यसिद्धेराशा दुराशैवेति भूयो भूयो विचारं कारं कारं मदीयं मरणं स्याज्जीवनं वा For Personal & Private Use Only ainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ चरित्रम् । 118 यद्भावि तद्भावि मृतिरप्येकवारमवश्यैवेति अवधारमवधारं सहसैव वार्डों झम्पापातमकरोत् । अथ यावत्तेन झम्पापातो विधीयते तावत् वा_धिष्ठातृदेवः पूर्वप्रदत्तवरप्रभावतस्तदन्तिके समागत्य | सप्रणामं तमूचे-यत्त्वन्नियमफलप्रभावात्तुष्टोऽहं तावकं साहाय्यं करिष्ये, इति तदीयं वचोऽभिज्ञाय : सोऽप्याह-यन्मया लङ्कापुरी गन्तव्यास्तीति सोऽपि श्रुत्वैव तदीयं वचोऽङ्गीकृत्य हरितुल्यं हरिबलं शेषनाग इव स देवस्तं खीयपृष्ठे समारोप्याम्भोधिमार्गे संचलन् वायुदेववदल्पकालेनैव तं । लकोद्याने समपातयत्। ___ अथ हरिबलोऽल्पकालं विद्याधरवनानि, सर्व फलानि, तत्रत्यगुमाँश्च विलोकयन् प्रतिस्थाने परिभ्राम्यन् सुवर्णमय्यां लङ्कापू· प्राविशत् । स च लङ्काश्रियं तत्रत्यकौतुकाँश्च संप्रेक्ष्य तृप्ति नापत् । अत्रान्तरे किमपि कनकमयं सुभवनं समपश्यत् । तच्च कीदृगासीत्-क्वचिन्मेरुसदृशा घटिता स्वर्णराशिः, क्वचित् पाषाणतुल्या रजतराशिः, क्वचिद्धान्यराशिवन्मणिराशिः, क्वचिच्चणकान्नराशिवत्प्रवालराशिः, क्वचित्स्फटिकरत्नराशिः, कचिन्मरकतादिमणिराशिः, क्वचिन्नीलरत्नराशिरित्यादिविविधमणिराशीन् व्यलोकयत् । प्रज्वालनार्थं स्थापितां काष्ठराशिमिव सुगन्धिमयीं चन्दन ॥३७॥ Sain International For Personal Private Use Only Page #111 -------------------------------------------------------------------------- ________________ 119 राशिं कचित् कचित्सबहुमूल्य देवदुष्प्राप्याम्बरराशिं क्वचिच्छीत कालोचितरत्नकम्बलसदृशं बहुजा - त्यूर्णवस्त्रकम्बलराशिम्, कचिन्मृत्पात्रमिव मणिकनकभाजनानि, कचिद्बहुविधयोग्यासनतल्पादि दर्श दर्श बहुशः साश्चर्यो जातः । अथैतादृक्समृद्धियुतं गृहं निर्जनं कथमिति विचारयन् गृहान्तराले प्रविश्य सौभाग्यादिगुणयुतां सुरूपवतीं नवयौवनां मृतप्रायां भूमौ शयानां कांचन सुकन्यां दृष्द्दैव सविस्मयो व्यचिन्तयत् - अहो को जानीते दैवगतिं क्व बहुसमृद्धिपूरितं गृहं, क चेयं शवतुल्या कुमारीति बहुखेदमावहंस्तत्र सुधापूर्णां तुम्बिकामेकां प्रेक्ष्य ततोऽमृतं किंचिन्निस्सार्य तच्छरीरे पातितवान् । ततोऽमृतस्पर्शादेव देवशयनोत्थितेव झटित्येवोदतिष्ठत् । ततोऽग्रे हरिबलं दृष्द्वैव कृतप्रणामा सप्रेमाह- अयि सुजन ! यत्त्वयाहमुपकृता, अतो निश्चिनोमि यदुत्तमो भवानि - ति, तथापि कस्त्वं, कस्तेऽत्रागमनहेतुः ? क्व च निवासीति सर्वं स्वीयं वृतान्तमावेदय ? ' ततः स ब्रूते - यदास्ते विशालाधिपतिर्मदनवेगनामा राजा, तदीयोऽहं सेवको हरिवलनामा च तत्रत्यराज - स्यातिप्रियो लङ्काधिपतिर्विभीषणस्तदर्थं निमंत्रणदानाय संप्रेषितोऽहमत्र किं चाहमहिंसाप्रतापतो देवेन मत्स्यरूपं धृत्वात्र पातितः । अथ स्वकीयं वृत्तमाख्याहि श्रुत्वैव तदीयं वचो हर्षमावहन्ती For Personal & Private Use Only inelibrary.org Page #112 -------------------------------------------------------------------------- ________________ चरित्रम् । कुमारिका नैजं वृत्तमाह-यद्राज्ञो विभीषणस्य पुष्पबटुकनामा मालाकारः, स च मे पिता, किन्तु परिणामहीनो दुष्कर्मकारी कुसुमश्रीनाम्नी चाहं । विद्याधरविषयहारिकां विषधरभोगिमणिमिव 1.21 मां विलोक्य कदाचिन्मे पिता सामुद्रिकशास्त्रज्ञं कञ्चन दैवज्ञमाकर्ण्य स पृष्टस्तेन ‘कीदृशं पतिं लप्स्यते मे तनया ? ' लप्स्यतेऽनया राज्याधिपतिभर्ता, इति श्रुत्वा मत्पिता राज्यलुब्धोऽनभिज्ञ इवमत्पाणिग्रहणाय शिथिलमना बभूव । सत्यमेव लोभवशीभूतो जनोऽन्ध इव किं किमनर्थं न विदधाति । तथाहि- रतिंधा दीहंधा अचंधा मायगाणगोबंधा । कामंधा लोहंधा इमे कमेणं विसेसंधा॥१॥ अतस्तदीयमेताहग्दुष्कर्माभिज्ञाय मे जननी तथाऽन्यस्वजनपरिजनो बहुद्वेगतामाप्य सर्वो जनो मम तातं पथिकः स्मशानद्रुममिव समजहात्। स च दुष्टकर्मकृच्छ्पच इव मां प्रतिदिनं दुःख यति, अतिदुष्कर्मकारी सोऽत्र विद्याधरगृहं निर्मायावतिष्ठते । यदा च दुष्कर्म विधातुं कुत्रापि । गच्छति बहिस्तदा मां मृतप्रायां कृत्वा ब्रजति, पश्चाच्चागत्य पीयूषबिन्दुभिः सचेतयति, दुःखभरं ) ला दृष्ट्वा मरणोद्यता भवामि । यतोऽनार्यकार्यान्मृतिरेव वरीयसी, इदानीं त्वत्तो मे प्रार्थनेका त्वं चाव ॥ ३८ ॥ Sain Ed e mnational For Personal & Private Use Only a w .jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ १२१ श्यं मनोऽभीष्टफलदायी कल्पवृक्ष इव सामर्थ्यवान् । अतस्त्वं त्वदनुरागिकां मां पत्नीत्वेनाङ्गीकुरु । मम पूर्वपुण्योदयादेवेह ते समागमः । मम जीवनदानस्यासावेव हेतुः। आस्ते चेदानीं सुलग्नवेलाऽतो विलम्ब मा कुर्याः । इत्थंभूतकन्यावचः समाकर्ण्य हरिवलो विचारयति । सर्वमदो महत्वं केवलं जीवदयाया एव । यतो देवाङ्गनेव सौन्दर्ये विद्याधरीवेन्द्राणी तिरस्कुर्वतीयं कन्या विद्याधरम || पहाय मामेवाङ्गीकरोति । अतो मे महद्भाग्य, मयि प्रसन्नो देवः । इत्थं बहुशो विमृश्य तदीयं वचः स्वीकृत्य पाणिग्रहणमकरोत् । ततः स्नेहं दर्शयन्ती सा कुमारी तमेवमाह-अयि प्राणेश ! । यदि जीवनेच्छा स्यात्तर्हि हेयमवश्यमदो गृहं, इहावासोऽनर्थकर एव, यदि पुष्पबटुकोऽभोत्स्यत्तर्हि । बबनर्थं व्यधास्यत् । इति स्वचित्ते निश्चित्यातः स्थानात् क्वचिदन्यत्र स्थेयं, विभीषणाय निमंत्रणमपि रुन्धि, यतो विद्याधरेन्द्रः कुत्रापि स्वीयं स्थानं नान्यत्र कुर्यात् । तावकमिहागमनं जातमतो निमंत्रणमपि जातमेव । पश्चाद् विश्वासार्थं कुमारी गत्वा राज्ञश्चन्द्रहास खद्गमानीय । हरिवलायार्पयत् । समर्प्य चाह-खड्गतोऽस्माबलवानपि रिपुः साध्यो भवत्येव, तद् बुध्वा | चमत्कृतो हरिबलः खहं कुसुमश्रिया गृहसारभूतानि सुवस्तूनि सुधातुम्बिकां च समादाय योगीन्द्र Jain Educ a tional For Personal Private Use Only Jainelibrary.org. Page #114 -------------------------------------------------------------------------- ________________ हूं सार ॥ 122 इवाद्भुतशक्तिर्लङ्कातो निर्गत्यानिमेषदृष्टिभूतवृषभमन्दिरे सन्तिष्ठमानौ शिवाविव सदेवो वृषभरूपं धृत्वा द्वावपि निजस्कन्धे समारोप्याध्वनि बहुकौतुकं दर्शयन् विशालापुरीवने समुत्तारयामास । अथ यदा हरिलो निजगृहाल्लङ्कां जगाम; तदानीं तद्गृहे किं किं जातमिति वर्ण्यते स कुटिलमतिर्भूपतिः सविकारो हरिबलीयां स्त्रियं ग्रहीतुमेव दास्यादिभिः सह तद्गृहे कुशलप्रश्नाय तस्याः प्रसादाय च नवानि शोभनानि वस्तूनि प्रेषयति स्म । अथ कदाचित्सा हरिबलस्त्री 'किमर्थं मे नवानि सुवस्तूनि प्रेष्यन्ते राज्ञेति दासीं पप्रच्छ । राज्ञा पूर्वमेव प्रतिबोधितास्ता दास्यो न विज्ञायते त्वया तावकीनः पती राज्ञः प्रसादभाजनं राज्ञा त्वदर्थमेव प्रेषितानि, अतस्त्वदुचितकार्याणि राजैव विदधाति ' इत्थमुत्तरयामासुः । किं च सा वसन्तश्रीः राज्ञो दुरभिप्रायं ज्ञात्वापि राजप्रेषितसर्ववस्तुजातं स्वीकृत्य 'राज्ञो मयि महती कृपेति' दासीर्मधुरवाचोवाच । स च दुर्मतिः कामान्धो नृपतिः प्रतिदिनं नवं नवं वस्तुजातं प्रेषयतीत्थं बहुकालं व्यतीयाय । अथ कदाचित् कामवशीभूतो नृपो दासीभिर्वसन्तश्रियं समवेदयत् । ' मया तव भर्त्ता कपटं विधाय लङ्कायां षि, अतो मां त्वं भजेः । ' अहो यस्य कामवासना वर्धते स कमनर्थं विधातुं न शक्नोति ! ' nternational For Personal & Private Use Only चरित्रम् | 11 38 15 Page #115 -------------------------------------------------------------------------- ________________ ५२४ अथ दासीमुखादेतादृग्वचनानि श्रुत्वा श्रोत्रे समुत्पन्नबहुव्यथेव तद्वचोऽसहमाना कथञ्चिद् धैर्यमवलम्ब्य कष्टवाद्धि तरितुं बाढं नवा बाढमिति किमपि दासी ह–ततस्ता दास्यो राजान्तिकं गत्वा सर्वमुदन्तमवोचन् । तेनापि स्वीये हृदि विनिश्चितं, यत्तया नोति नोचे, अतो विज्ञायते साऽवश्यं मे स्वीकृताशयाऽभूदिति बहुधा विमृश्य प्रमुदितमनाः कामातुरः पुष्पधन्वनो धनुरिव स रात्रौ चौर इव हरिबलगृहमाजगाम । अतिकामातुरो नृपतिर्वसन्तश्रियं दृष्ट्वा परां NT प्रीतिमापत् । अथ पतिप्रिया सती, हरिबलप्रिया, नैनं विषादमन्तगोपयन्ती, राजानमालोक्य । युक्तायुक्तं वचो विदधती, ससंभ्रमाऽऽसनादिभी राजानं सम्मान्यावोचत्-यद् भवदागमनान्मे | महान् हर्षोऽजनीति । श्रुत्वैतत् स नृपतिर्बहु प्रजहर्ष । पातिव्रत्यान्विता सा मनोवचनकायादिभिः स्वशीलरक्षणायासतीवाऽऽचरतीति साधारणेयं जगतो दशा । अतः साप्यसतीवाऽऽचचार । स च स्वात्मानं बहु कृतार्थं मन्यमानस्तामित्थमाह-यदयि वसन्तश्रि! त्वदाकारणाय मेऽत्रागमः । अतो मया साकं शीघ्रमेव ब्रज। यथा कनकमन्तरा रखं न भाति तथा त्वामन्तरेण मेऽन्तःपुरं न | भाति । इत्थं श्रुतनृपतिवागजाला जातान्तर्बहुरोषा सा युक्त्या तं नृपतिं सम्बोधितवती-राजन् ! Jain Educ a tional Personal & Private Use Only ainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ बर्द्ध चरित्रम्। सार १०॥ 124 यदात्थ तद्वरं हितकृत्सत्यं च । परं मद्गृहचिन्तको मद्भर्तृस्वामी भूत्वा नार्हस्येतादृशं वचो वक्तुम् । यावत् खलु सूर्योदयस्तावच्चन्द्रप्रभायाः प्रकाशं को नाम समीहेत । श्रुत्वैवं स विहस्याहला त्वदर्थमेव खलु तव स्वामी मारणाय गहनसङ्कटे प्रेषितो मया । ततः स किं जीवन्नेव समायि ष्यते, किं समुद्रपतितो जीवो जीवन् समायते ? । अथ जातु प्रतिज्ञां समुज्झित्य समायेत जीवन्नेव, तदाहं घातयिष्यामि केनापि व्याजेन तम् । अहो धिगेतादृशं कामिनरं यो गोप्यमपि निजाभिप्रायं वदत्येव । तथाहिall कुवियस्स पाउरस्स य, वसणासत्तस्स आयरत्तस्स । मत्तस्स मरंतस्स य, सम्भावा पायडा हुँति ॥ १॥ अयि चन्द्रमुखि ! यद्दिने भोजनार्थं त्वद्गृहे समायातस्तद्दिनात्त्वदीयं मनोहारिरूपयौवनलवणिमादि दृष्दैव कामाग्निपीडितोऽभवम् । सुन्दरि ! मदीयगात्रं दन्दह्यते, शरीरावयवाः सव्यथा बोभूयन्ते, श्वास उष्णो निस्सरति, जिह्वा शुष्यति, कण्ठः शुष्कति । अहं च निरुत्साही जातः, |मह्यं नानाविधाः क्रीडा अपि न रोचन्ते । अखिलं वसनभषणादिकं सारभतमसा प्रतिभाति । वन्दिजनैस्सार्धं कीदृशमपि गोष्ट्यादिकं न रोचते । मन्दबुद्धिश्चाहं जातः । यावदेकं किमपि वस्तु ॥४०॥ Sain International For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ स्मरामि, तावद्वितीयं विस्मरामि । अहर्निशं कालवत्प्रतिभाति । राजनगरमधिवसामि, उत वनं व्रजामि । यद्येव प्रव्रजामि, तद्देव त्वदाकृतिं पुरः पश्यामि । अयि वल्लभे ! नक्तं तव मनोहरं नाम संस्मरन् तल्पे इतस्ततो भवन् वसन्तश्रीः का वसन्तश्रीः अहो सैव वसन्तश्रीरित्यपर्णनिद्रात एव समत्थितः । इत्थं प्रतिक्षणे तावकं नाम संजपन सोन्मादो जातः निजराज्ञीनां हास्योऽभवम् । प्रिये ! स्थितेरस्यास्त्वमेव मुख्यबीजमतो मयि दया कार्या । कामज्वरातस्य मे रोगरोगितरोगिणो भिषग् भूत्वा प्रेमौषधि पाययित्वा जीवय माम् । तावकं शीतलाझं समालिङ्गय सशीतलमना भविष्यामि, अयि कमललोचने ! सकलसौन्दर्यसदने ! अद्य नौ नवो भाग्योदयस्त्वदधीनः । प्रिये ! तवैकमधुरवचोऽखिलं राज्यादिकं तावकीनमेव । मदी| यमनोहरहामूल्यवसनाऽलङ्कारबहुविधसुरत्नजटितस्वर्णहस्त्यश्वादिप्रधानराजपुरुषदासीदासभृत्या| दिनिखिलवस्तुजातं त्वदायत्तमेव । अद्यारभ्य तुभ्यं पट्टराज्ञीपदं समर्पयामि । यदि चैतादृशो विचारः स्यात्त्वयि । यदद्य प्रसन्नो मयि मामेवं वक्ति, पश्चाच्च किं ब्रूयादित्यादि शङ्कान्वितहृदया चेद्विनष्टशङ्का भव । किं वहुनाऽद्यारभ्य प्रतिज्ञायते खलु मया। यद्यावदस्मिन् देहे मम जीवनं PSSSSSSSSS Jain Educati For Personal Private Use Only elibrary.org. Page #118 -------------------------------------------------------------------------- ________________ 126 पतं. चरित्रम् । सार ११॥ | तावत्त्वन्निदेशतो मदनवेगितोऽसौ क्षणमात्रमपि त्वत्तः पृथग्भूय नैव वितिष्ठेत ! इत्थं वाचं सम Z सकुमतिं भूपतिं युगपत्करं प्रसारयन्तं विलोक्य विचारसागरमग्ना हारिबलीभार्या राजवशं गताऽधः पश्यन्ती किमपि विचारयन्ती निःश्वासान् त्यजन्ती दृग्भ्यां बाष्पं पातयन्ती सा वसन्तश्रीः सकरुणं विदेशिनं निजं प्रियपतिं ध्यायन्ती विचारयति-प्राणनाथ ! तव विदेशप्रेषणेऽसौ दुर्मतिर्नृपतिरेतद्दःखेसङ्केतमन्तरा किमन्यत्स्यात्, इह चाहं वैदेशिकी को मे चात्र साहाय्यवान् , भूपतिश्चायं दुर्मतिः, पतिरहितायां निर्बलायामबलायां मयि छद्मनाऽनुचितं कार्यश्चिकीर्षति, शीलञ्च मे चिखण्डपिषति मनागपि तस्य नाऽऽयाति ब्रीडा । अहो धिक् ते राज्यादिकं, किं मे प्रयोजनं तेभ्यः नेच्छामि ते पट्टराज्ञी भवितुं किं कर्त्तव्यानि मया ते रत्नवस्त्राभूषणस्वर्णानि। क्षणभङ्गुरेऽस्मिन् देहे न | मे वित्तेच्छा काचित्।अखण्डितं मे शीलं स्यादेतदेव हीच्छामि। रे पापात्मन् ! न सोढुं शक्ता ते दुर्वाचं | स्वमार्गमवलम्बय ? यद्देह यथाऽऽयातस्तथा ब्रज ? यतोऽहं क्षत्रियवंशजा, खण्डयामि तेऽमुमखर्वगर्व IN क्षणादेव । किं च किं कुर्याम् , जीवहिंसया विभेमि इत्याकर्ण्य राजाऽवदत्-सर्वमदः साधु, किन्तु मादृशो नरपतिस्त्वादृशीमबलां प्राप्य राज्यादिकं किं कुर्यात् । अत एव प्रिये प्रिये ! इति बहुशः ॥ ४ ॥ For Personal Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 127 । समाह्वयाम्यतो न कार्यो लम्बो विलम्बः शीघ्रमेव व्रज, गच्छामीति ओम् , नो वा किमप्युत्तरय, कीदृशी ते मतिः, न जानासि त्वं यत्त्वमिह केवला तावकीनश्च पतिः किं जीवन्निह समायास्यति? को नाम जानीयात्स महोदधौ पतन् कदा मृतः स्यात् , का नामैतादृशी ह्यनाथा स्यात् या पृ. थ्वीपतिं मादृशं पतिं प्राप्य सनाथा न स्यात्। न शोभते ते मृगनेत्रायाःशुभेऽस्मिन् कार्ये चारुचक्षुषोर्बाष्पधारणम् । त्वं मूर्खमेव यदलमतिशुचा व्रज व्रजेति जल्पसि ? बहिरास्ते च मे स्यन्दनः। अद्या- IM | रभ्य मच्छयनागारमागत्य मनोऽभिलषितां स्वेच्छां पूरय ?, सुखानि भुङक्ष्व दुःखाद्वा प्रपञ्चान्मया | | तावको भर्त्ता विदेशे प्रैषि, नोचेत्प्रत्यक्ष एव तव भर्तृशिशरश्छेदनं कारयेयं चेत्को नाम मामवरुन्धीत, त्वां च स्वशयनागारे संस्थापयेयम् । अतो मे वचोऽङ्गीकुर्याः। न हि कोऽपि लाभः खलु बहु- IN वादविवादे । त्वं च मतिमती तावकं च किं ध्येयं श्रेयस्तद्विचारय । स च हरिबलः किं कुर्यात् , तदपेक्षया रूपगुणादिभिन्यूनोऽहं किं ? मदनवेगवेगितानां कामिनीनां कामवेगशान्तावनभिज्ञोऽहं किम् ? त्वद्भञपेक्षया कामशास्त्राभ्यासेऽपक्वोऽहं किम् ?, अतः प्रिये ! मे मन्दिरमेहि । निखिलal मनोरथैः पूरितास्याः, मच्छयनागारशोभनां शोभा विलोक्यैव देवालयं तुच्छं मंस्यसे । वसन्तश्रीः Sain EducY atang Personal Private Use Only HDainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ चरित्रम् । बर्द्धसार २ ॥ वसन्ततॊ मादृशेनैव पुंसा शोभते । अहो ! निन्दनीयः खलु विधिः यत्प्रतिकार्येषु तस्य मौर्ण्यमेव दरीदृश्यते, कियती चास्याऽपूर्णता । नो चेन्निर्धनायायोग्याय हरिबलाय रत्नमयीं वसन्तश्रियं समर्पयेत् । रत्नादिकं किं लोहपात्रे सुशोभते । रत्नस्थानं तु स्वर्णादिकमेव । एवं चेत्कश्चिन् मूर्यो जनो रत्नादि लोहपात्रादिषु पातयेत् , सुज्ञो जनस्ततस्तन्निस्सार्य सुस्थान एव योजयेत् । अथ निजभर्तीयोग्यगर्हामसहमाना सा वसन्तश्रीरूर्ध्वमुखी मुखे लोहरक्ततां प्रदर्शयन्ती को| पाध्धृदयं कम्पयन्ती स्वगात्रं चोष्णं कुर्वती समभ्यधात्-राजन् ! वचनान्तरं विवक्षुश्चेद् ब्रूहि । किन्तु त्वां सत्यं ब्रवीमि-इत आरभ्य मामको भर्ता मत्पाऽनिन्दनीयस्त्वया, कीदृशोऽपि स्यात् | सुरूपो वा कुरूपो वा गुणी स्यान्निर्गुणी वा, धनी वा स्यान्निर्धनी वा । क्षणभकुरेऽस्मिञ्जगतितले मदीयं स एव सर्वस्वम् । राजाह-सर्वस्वं चेत्ते कुत्रास्ते । स तु कदैव मरणं प्राप्तवान् । यच्च जगतो बहिर्वस्तु, यच्चाऽसंभवं तत्सर्वं नैष्फल्यमेव व्रजति। 'विज्ञो जनो गतवस्तु नैव शोचति । अतो मिथ्यावचोऽपहाय मच्छरणमेहि, कर्त्तव्यं चैतत्तावकीनम् । नो चेच्छिरो धृत्वा सहसैव मे भटास्त्वां मच्छयनागारं प्रापयिष्यन्ति । न हि कोप्यत्र ते साहाय्यवान् । तत्र हि मदिच्छाधीना भविष्यसि । । ॥४२॥ Sain E t ernational For Personal & Privale Use Only w.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ 129 यतस्ते भाविकालो वरीयान् स्यात्तद्विधेहि । अथ कठिनविपत्तिवार्द्धा निमज्जन्ती, साऽनाथाऽबला, परदेशगतं, निजपतिमनुशोचन्ती, दुष्टभूपतितो मे शीलरक्षणं कथं भवेदिति बहुशो विचिन्तयन्ती, किंचिदूर्ध्वमुखीभूय राजानं विलोकयन्ती, मन्दं मन्दं जहास । हसन्तीं तां विलोक्यैव सोऽपि विसितमना बभूव - अहो चिरकालाद्वारिताया मे वाञ्छाया अद्य पूर्त्तिर्जातेत्याशया धीरो भवन्नाहयत्स्त्रीजातिः स्वभावादेव चञ्चला भवतीति निगद्य भद्रे ! मद्रथे समारुह्यतामिति यावत्तत्करं ग्रहीतुं समुत्तिष्ठति तावत्स्नेहवचोभिरभिधत्ते स्म सा - राजन् ! व्याकुली मा भूयाः । इदानीं ब्रज, नाहमेतादृशी किलाऽधमा नारी या स्वीयं शीलं जहामि सहसैव । अद्यारभ्य मासं यावन्मभर्तृकु शलादिकं न लप्स्ये त्वामवश्यं प्राप्स्यामि । ततः कामातुरः सोऽपि व्यचिन्तयत् - कुत्राऽस्या भर्तृलब्धिः सतु कदैव मृतो भवेत् ? कुतः समागमनं तस्य मासैकावधिस्तु सहसैवान्तमेष्यति । मासान्ते चागमनाय वचनं प्रददात्येव । तदर्थमुद्यमादेवैयर्थ्यमेव वाढमिति समभिदधानो निजकार्यसिद्धिप्रहृष्टः सहर्षं निजगृहं समागात् । अथ कामान्धमदनवेगवेगितनृपतिगमनान्ते निजचित्तव्याप्तचिन्तातुरा सा कियन्तं कालं समापत् । मासैकावधेः पूर्तिर्जातेति विचिन्त्य ' अहो ! For Personal & Private Use Only elibrary.org Page #122 -------------------------------------------------------------------------- ________________ 130 नसार कथमहमिदमनुचितं कुर्याम् ' श्वः प्रत्यूष एव स श्वपचो दुष्टमतिर्भूपतिः कामाग्नौ होतुं श्रेष्ट- चरित्रम् । N) मच्छीलरत्नं समायास्यत्येव । अहो ! धिङ्मां मद्रूपं मद्यौवनश्च। यानि मदीयोत्तमशीलसंहाराय a दुर्मति राजानं प्रेरयन्ति । अतो शीलरत्नरक्षणार्थं यत्नो विधेयो मयकेति मे मुख्यो धर्मः । इति निश्चिन्वानापि सा व्यचिन्तयत्-यत्कथं शीलरत्नो रक्षितव्योऽबलया मया सबलात्पुंसः। स मदनवेग आगामिदिने प्रत्यूष एव सबलसैन्यमादाय मदीयाङ्गणं समागत्य मां वक्ष्यति समेहि मे गृहं यद्यहं वक्ष्यामि नैव संगस्ये चेत् किं भवेत् ? तदानीं स दुर्मती राजा निजभटान् समाज्ञापयिष्यति यद् गृह्णीतेमां बनीतेमां बध्वा च मच्छयनागारं प्रापयतेमाम् । अहो ! तदवसरे निजप्राणपतिमन्तरा को मां संरक्षेत् । शयनागारं समानीय मां स दुर्मतिः किं कुर्यात् हन्यादेव वा । जीवत्याश्च मे शीलवतं मोषिष्यति । अहो ! पापिन्याश्च मे किमर्थं जन्माभवत् । प्रादुर्भवन्त्याश्च | मे किमर्थमेतावतीसुरूपता जाता । इदानीं पर्यन्तमपि दुःखमनुभवन्त्या मे शान्तये काचनौषधिर्न जाता, अतएवाहं सुशोचामि निराधारा सती। स्त्रिया यदि काचित्प्रजा शीलवतं परिखण्डये ॥ तर्हि राज्ञा शरणं भवेत् । यदि च राजैवैतादृशो भवेत्तदा कृतान्तमेव शरणं भवेत् । अतोऽहं |॥ ४३ ।। Jaini n ternational For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 13.1 तमेव शरणं कुतो न व्रजामि, इदानीं चात्मघातमन्तरा न काचिदन्या कृतिर्वरीयसीति । अथेदानीमेव हरिबलोऽपि नवीनोद्वाहितां निजस्त्रियं कुसुमश्रियमुद्याने संस्थाप्य निजगृहस्वरूपावलोकनाय शनैरागत्य क्वचिद्रहस्येवावातिष्ठत । तत्र सत्या निजस्त्रियाः साहसं दृष्ट्वा सहसैवावादीत्-अहो ! नैतदुचितमात्मघातादिकुर्वत्या भवत्याः। न द्वितीयमात्मघातादन्याय्यम् । इति वाचमभ्यदधद्धरिबलेन वसन्तश्रियाः समक्षे समागत्य समुपस्थितेनाऽभावि, दृष्दैवामुं सगद्गद्वाचा वसन्तश्रीः | प्रावोचत्-अहो कोऽयं मे स्वामिनाथः किं, प्रियप्राणनाथ ! स कुशली भवकान् । अथ सोऽप्याहप्रिये ! अस्मि तावत्कुशली, किं च पतिप्राणायै सत्यै स्त्रियै किमर्थमदोऽयोग्याचरणम् । इति भर्तृ-14 वचः समाकर्ण्य साह-स्वामिन् ! अयोग्यं विद्धि योग्यं वा, यदद्य भावतं दर्शनं न स्यान्चेत् श्वो वसन्तश्रीन स्यात् । हरिबलोऽगादीत्-यद्वेम्यहं तावकं सम्यक् सतीत्वं, दुष्टोऽसौ भूपतिस्त्वयि दुष्कर्मकर्तुमुद्यतः 'अधर्म कुर्वाणोऽधर्मफलं सहसैव लप्स्यते ।' अथ निजस्वामिनं विलोक्यैव सरोमाञ्चा वसन्तश्रीस्तदीयं कुशलादिकं पृष्ट्वा राइयोऽखिल वृत्तान्तमचकथत् । अथ हरिबलो निजगृहे समागत्य तत्रत्यमखिलवृत्तान्तं वसन्तश्रियं समवोचत् । JainEduc a tional For Personal Private Use Only Delibrary.org Page #124 -------------------------------------------------------------------------- ________________ 132 बर्द्धनसार ४४॥ 'यत्र हि वास्तविकं प्रेम तत्र किं नामगोप्यं भवति पुंसां सुविदुषाम् ।' अथ कुसुमश्रीसुलग्नवृत्तान्त- चरित्रम्। माकर्ण्य तया वसन्तश्रिया निजभा सत्राऽऽरामेऽब्राजि तत्र बहु हर्ष मन्यमाना तया सह मुहुर्मुहुर्मिलित्वा द्वेअपि सहैव सन्तिष्ठमाने सुखमनुभवतः स्म । यथेदानीन्तनो जनो जायाद्वयं परिणीय स्वात्मानं दुःखवन्तं विदधाति न तथा हरिवलो जातः । तदीये द्वेऽपि प्रेमपूर्वकं सन्तोषा-11 मिलित्वा निजभर्तृसेवातत्परे जाते । क्वेदानीन्तना मूर्खाः स्त्रियः, क्व च तदानीन्तना विदुष्यः । ततो हरिबलो निजप्रियाद्वयसहितो गृहं गच्छन् राज्ञः सूचनार्थं कंचन जनं प्रेषीत् । तदीयं समागमनसमाचारं श्रुत्वैव स दुर्मतिर्हताशो बोभवामास । “ पूर्वं हि तं समाचारमनाहतवान् पश्चाच्च स्वीयभाग्यं विगर्हयन्नद्य नष्टा मे मुखप्रसादच्छविः। अद्य हि परिपक्का मे अप्याशा भूमौ प्रविष्टाः। धनिनो यथा धनं धूलिलिप्तं भवेत्तथा मे सर्वाण्येव परिश्रमादीनि वैयर्थ्यमापुः। प्रावृषि यथाऽभ्रागमो वायुवशात् क्षणे एव वैनाश्यमाप्नोति तथाद्य मे निखिला मनोरथाः क्षणे एव वैनाश्यमापुः । किं बहुनाद्य भाग्यदेवी मां मेरुं समारोप्य नीचैरेवापातयत् । अद्य मे विनष्टं सौख्यादि ।" इत्थं बहुशो विचिन्त्य पश्चात् समेषामन्येषां विनिश्चयार्थं स्वस्थीभूय परिजनानाह-यद् भोः! अद्य मे ॥४४॥ S For Personal Private Use Only घ w w.jainelibrary.org nternational Page #125 -------------------------------------------------------------------------- ________________ 133 स्वानन्ददिनमतः राजभवनं सशृङ्गारं सत्तो रणमलङ्कुरुत, गजाश्वरथप्रभृतिबहुविध निखिलवाहनादिकं सज्जीकृत्य संस्थापयत, राजपुरुषांश्च समाज्ञापयत । यत् समेऽपि निजदिव्यवासोभूषणानि परिधाय राजद्वारमागच्छेयुः । अद्य मयि परमप्रेमवान् हितेच्छुर्हरिबलः समर्पितं कार्यं सत्वरमेव विधाये - हायातः । अद्य मे चिरकालीनो विनष्टो वियोगः । अतः समेऽपि सुसजिताः शीघ्रं समायान्तु, नगरप्रवेशं च कारयन्तु तस्य वै 1 अथ राजाज्ञां श्रुत्वा वाद्यादिकं समवादयत् । नगरे सर्वत्रानन्दादिकं समजायत । नगरप्रवेशार्थं स हरिबलो भूपतिना विशालाधिपतिना सत्रा राजभवनमागात् । राजापि तं ससन्मानं योग्यासनं समारोप्य कुशलादिकं संपृच्छय कथं साधितं कार्यं त्वया तत्र गत्वा ? श्रुत्वा च सोऽप्याह-राजन् ! लङ्काधिपतिविभीषणं समाकारयितुं गृहान्निर्गत्य कठिनातिकठिनं मार्गं समुल्लंघयन् वार्धितीरं गतवान् । तत्र गत्वाऽम्भोधिगांभीर्यं विलोक्य व्यचिन्तयम् - कथं मया लङ्कापुरी गन्तव्या ? ततो बहुविचारान्ते खादामि खादामि इति वचो ब्रुवन्तं समीपमायान्तं विचित्रचित्रविक लमूर्ति भयङ्कराकृतिं कंचन रात्रिचरं विलोक्य तमभ्यधाम - अहो ! महाबल ! मत्खादनात्त्वत्तृ For Personal & Private Use Only mational jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ G 134 प्त्या महान्तं परोपकारं मन्येऽहं । यतो नास्ति मे जीवनशोकः, किंचेयमेव चिन्ता, यदहं कृतप्र- चरित्रम् । तिज्ञापूर्तिमकृत्वैव मृतिं लप्स्ये । श्रुत्वैवं व्याकुलीभवन् स राक्षसः सकोपमाह-रे मानव ! कैतादृशी कृता प्रतिज्ञा त्वया, यन्मरणकाले प्रतिज्ञा प्रतिज्ञेति वदसि ? उत्तिष्ठ कृतप्रतिज्ञां मां द्रुतं | ब्रूहि । तत्पूर्तये साहाय्यन्तेऽहं करिष्यामि । इति राक्षसीयमाशायुतं वचः समाकर्ण्य धैर्यश्चावल म्ब्य प्रहृष्टचेतसाऽहमब्रवम्-अयि महाभाग ! विशालाधिपतिमदनवेगनाम्नो राज्ञोऽहं समाज्ञाङ्कितः सेवकः, स च निजविवाहमहोत्सवं कर्त्तमुद्यतो वर्त्तते । तदीयाज्ञां स्वीकृत्य लङ्काधिपतिवि- 10 भीषणाय निमंत्रणं दातुं गम्यते मया तत्र, कठिनातिकठिनं चैतत्कार्यं निखिलसभामध्ये मयैव । स्वीकृतम् । कर्म चैतद्यदि मत्तो न स्यात्तर्हि प्रतिज्ञाभङ्गी भविष्यामि । श्रुत्वैवं स राक्षसश्चक्षुषी | रक्तीकुर्वन् मामाह-रे मानव ! एतत्प्रतिज्ञासंसाधनाय नैवाऽस्ति कस्यापि सुलभा शक्तिः । न चैव महासागरसन्तरणाय मानवानां कर्म, तथापि तेऽहं काञ्चनैकां सुयुक्तिं वच्म्येव, यतो मामकं कायें | सिद्धयेत्तावकं च । आकण्य चाञ्जलिं बद्ध्वाहमभणम्-भोः ! द्रागेव मां तां युक्तिं वक्तुकामो भवान् भवतु । मत्स्वामिकार्यसंसाधनाय यदेव त्वं वक्ष्यसि तदेवाहं कर्तुमुद्यतो वर्ते । श्रुत्वैव स ला॥ ४५ ॥ in International For Personal Private Use Only Page #127 -------------------------------------------------------------------------- ________________ 135 राक्षसः प्रहर्षं प्रहर्षं क्षुधापिडितो बहुविधवैचित्र्यादि प्रदर्शयन् मामवोचत् - अयि मानुष ! यदि लङ्कां गन्तुमनाः, यदि विभीषणं निमंत्रयितुमनाः, यदि च निजस्वाम्याज्ञां विधातुमना स्तर्हि वनेSस्मिन् याsssसौ कठनिचयरचिताचिता, तस्यां पतित्वा द्रुतं म्रियस्व । मृतिमन्तरा लङ्कागमनाय मार्गान्तरं नास्ति । एवंभूतां राक्षसीयां युक्तिं श्रुत्वा पूर्वमनुत्सुकमना अभवम् । पश्चास्वामिकार्याय कृतघ्नोऽपि सेवको निजासूनपि समर्पयेत् । इति बहुधा विचिन्त्य प्रतिज्ञापूर्त्तये रोवचसि विश्वासं कुर्वाणो वह्नौ पतितुमभ्यधावम् । पतित्वा च तत्र भस्मीभूतोऽभवम् । ततः स राक्षसो मद्भस्मनिचयमेकीकृत्य विभीषणाय समर्पयत् । मवृत्तान्तमचकथत् स च मम स्वाम भक्तिं विलोक्य मयि समतुषत् मद्भस्मनिचयं सुधया निषिच्य मां सजीवमकार्षीत् । मदीयारूपं चावलोक्य मह्यं कन्यकामेकां समर्पयत् । कन्यया साकं बहुमूल्यबहुविधवासोभूषणहस्त्यश्वखपासुलाद्यनेकवस्तुनिचयं समर्पयत् । परन्तु तत्सर्वमपि गृहीत्वाऽत्रागमनाय काठिन्यं निश्चित्य नाङ्गीकृतं मया तद्वस्तुजातम् । दृष्द्दैवं तेनापि मदर्थमत्याग्रहं कृत्वा त्वमिहैवावतिष्ठस्वेति चाहमवाचिषि । भुज्यन्तां स्वचेष्टितानि ऋद्धिसमृद्ध्यादीनि वस्तूनि, रम्यतां च नवयौवनाभीरूपवती " For Personal & Private Use Only ainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ 136 चरित्रम्। १६॥ बर्द्ध- भिः स्त्रीभिः । श्रुत्वैवं मयाऽभिहितं-न भवितव्यं मया चेत्थम् । यतोऽहं विशालाधिपतिमदनवेगासार Nज्ञया त्वनिमंत्रणार्थमिहायातः। भूपतिश्च महान्तं निजविवाहमहोत्सवं कर्तुमुद्यतो वर्त्तते, अतो माय कृपां कृत्वागन्तव्यं त्वया तत्र । स च विभीषणः किञ्चिद्विचार्य मां व्याहार्षीत्-हरिबल ! मामकी पुत्रीं स्वीकृत्य पूर्वं त्वया गन्तव्यम् विवाहदिनद्वयशेषे चाहमागमिष्यामि । इत्थं तदीयं निश्चितं वचः श्रुत्वाहमिहायातः । प्रत्ययार्थं च निजचन्द्रहासनामकं स्वीयखझं मह्यं समर्पयत् सस्त्रि| यं मां समुत्थाप्याचिरादेवेहानीतवान् । राजन् ! तव दुष्करकार्यसंसाधनाय मया चैतादृशी व्यथा | | सोढा । यतोऽहं स्वामिसेवां स्वीयं मुख्यं सुकृतं वेद्मि। अथ पुण्यप्रतापतो हारिबलीयां कृत्रिमा वाचमृतां मन्यमानो मूढो नृपती राजसभा चाश्चर्यKa त्वमाप्य प्रशस्य च तं समब्रुवन्। अहो ! महाप्रतापशीलोऽयं हरिबलो नो चेदस्मात्कठिनकार्यात् कथंकारं | पुनः समायातु । इत्थं गच्छत्सु कतिचिदिवसेषु तदीयवाक्ये संशयमापन्नो मुख्यो राजमंत्री व्यचिन्तयत्-यत्केनापि सत्रा छद्मकृत्वाऽऽनीतेऽनेनामू खड्गकन्यके । अथ तस्मिन् हरिबले सोऽमर्षाग्निना दन्दह्यमानो राजसभायां तदीयां बहुख्यातिं श्रावं श्रावं भृशमताप्सीच्च। तदनु राज्ञस्तस्मिन्नधिकस्नेह- I ॥ ४६॥ Sain international For Personal & Private Use Only Drww.jainelibrary.org, Page #129 -------------------------------------------------------------------------- ________________ 137 माने चावलोकमवलोकं दुर्मतिना भूपमंत्रिणा चिन्तातुरीभूयाहर्निशं विचारं कुर्वतेकस्मिन् दिने | हरिबलगृहे राज्ञो निमंत्रणार्थं निश्चिक्ये । निजप्रेयस्योः स्त्रियोः शीलवर्णसन्तापनाय दन्दह्य- 15 मानां नूतनां भस्त्रिकां दृष्ट्वा हरिबलो निजहृदि बहु समताप्सीत् । परन्तु तत्काले किं कुर्यात् ।। अथ निश्चितदिने विशालाधिपतिर्मुख्यामात्यादिसर्वसम्बन्धिनः समाकार्य हरिबलगृहे भोजनार्थ- | मायातः । स हरिबलोऽपि भूपतिमनःप्रसादार्थं बहुविधां सामग्री समकारयत् । यदैव विशालाधिपतिभोजनशालां समायातस्तदैव वसन्तश्रीकुसुमश्रियौ सुन्दरान् वसनालङ्कारान् परिधाय | स्वर्णस्थालपात्रे पक्वान्नादि संस्थाप्य समागतवत्यौ चम्पकवर्णचतुरचपलावलयोस्तयोर्मनोहरं | गात्रं दर्श दर्श तयोर्मनोहरां मधुरां वाचं च श्रावं श्रावं स मदनवेगो मूढो जातः, भोजनादौ मनो न संलग्नम् । मदनवेगे मदनवेगः समुत्पपात । तत्कालमेव तदीयकामाग्निबहु प्रजज्वाल । कथंकारं मया ते प्राप्ये । अथ स राजभवने समायातः । समागतं तं वीक्ष्य | दासीदासप्रभृतयः स्वागतं चक्रुः। परन्तु तदा तस्मै किमपि नारोचत । यतः– परस्त्रीदीपशालायां विषयगंधं मदनवेगवेगितमदनवेगमनःपेटिकया सत्रा घृष्टवान् । अथ कामाग्निः Jain Educanadalanal For Personal & Private Use Only S helibrary.org Page #130 -------------------------------------------------------------------------- ________________ 138 प्रार्दुबभूव । अयि पाठकाः ! विचारयन्तां नितरां निजचेतस्सु यत् सदाचारवृक्षसुयशःपुष्पं || चरित्रम् । कृशानुज्वालायां प्रदीप्यमानायां दाहमन्तरा कथं नाम सन्तिष्ठेत ।' अग्नितोऽस्मात् राज्ञोऽन्तः करणरुधिरमुत्पपात । तच्च निखिलशरीरे प्रससार, शरीरं च प्रजज्वाल । स नृपती रोगस्यास्य निवारणाय स्वीयं प्रधानमंत्रिणमाहृतवान् । राजनीतिनिपुणो हि स प्रधानमंत्री-अवसरं विज्ञाय निजप्रतिस्पर्धिनं हरिबलं निस्सारणाय यत्नं यतितवान् । स चागत्याञ्जलिं बद्ध्वा सनम्रस्तं प्रोवाचअयि राजन् ! तव कामज्वरः शान्तिमापद्येत । एतदर्थं का नामौषधिः, मद्विचारे तु हरिबलपार्चे ये वसन्तश्रीकुसुमश्रियौ स्तः, ते एव भवदीयौषधिर्भवितुमर्हन्त्यौ । ते वै विचित्रगुणवत्यो, दृष्टिगोचरमात्रादेव महाविषयोऽपि कामज्वरो निवृत्तिमाप्नुयान्नाम । एवंभूते हि ते द्वे अपि । अवश्यं रक्षितव्या सा भवतौषधिः, भवतो मनोविकारं शाम्येत्सा, हृदयारविन्दं समानन्दयेत् , जगवृद्धिं वितनुयात् , ऐहलौकिकसुखानि दद्यात् । अतो धराधिप ! माङ्गल्यसम्पादयित्रीमवश्यं तामुररीकुर्याः । इत्थं प्रधानामात्यवचः श्रावं श्रावं स मदनवेगो व्याकुलीभवस्तमाह-मंत्रिन् ! हीनदेवाय मे कथं लब्धा नाम सौषधिः । दुर्लभ्येयं मया, मदपेक्षया स हरिबल एव महापुण्यशीलो ना, ॥ ४७ ॥ Jain i nternational For Personal Private Use Only Page #131 -------------------------------------------------------------------------- ________________ Jain Educat!AY 139 किं च स मे हितकृत् सुहृत्, मामकं दुष्कार्यमपि कार्यं करोत्येव, एवं सत्यपि नूनमहं मन्ये यद्स्य मारणात् कार्यं मे सिध्येत् । श्रुत्वैवं स दुर्मतिर्मुख्यामात्यो ऽभाणीत् - राजन् ! किमत्र वाच्यं यदेव भवान् तमाज्ञापययिष्यति द्रुतमेव तत्कुर्यात्सः । अतो निजकुमारिकाविवाहकार्ये भवता यमः समाकारयितव्यस्तेन । यमनिमंत्रणाय च स हरिबल एव नियोक्तव्यो भवता, तस्मिन् कार्ये च स्वीयां मृतिं लभेत सः । पश्चाच्च भोग्ये ते हरिबलस्त्रियौ । श्रुत्वैवं मदनपीडापीडितो मूढो मदनवेगो हि गर्वितां प्रधानदुस्सम्मतिं स्वीकृत्य तदाह्वानाय निजभृत्यानाह - यद् गत्वा हरिबलमाकारयत । तेऽपि गत्वा तथैवोचुः -- ततः समायाते हरिबले बहुमधुरया वाचा तं संभाष्य सत्कृतो हरिबलस्तेन । तदीयगुणाँश्च वर्णयित्वाह- हरिबल ! मदीयमुख्यः सुहृद्भवानेव, नो चेद्विभीषणनिमंत्रणाय कठिनातिकठिनं कार्य को नाम संसाधयेत् । इदानीमपि कार्यमेकं वर्त्तते मम । निश्चीयते मया तदर्थं मत्कठिनातिकठिन कार्यसंसाधने ऽनुत्सुकमतिर्न स्याः । कर्त्तव्यानि च त्वया मद्वचांसि । इत्युक्त्वा निवेदयामास कार्याणि । निजस्त्रियौ च ational अथ हरिबलः श्रुत्वा तद्वचांसि शिरसि धृत्वाऽसन्तुष्टचेता गृहमागतवान्, For Personal & Private Use Only linelibrary.org Page #132 -------------------------------------------------------------------------- ________________ ३५० चरित्रम् । नसार १८॥ वृत्तान्तं तन्निवेदितवान् । ते च दुर्मते राज्ञो दुःसंकल्पितं कार्यं चतुरया निजमत्याऽचेतिष्टाम् । धैर्य चावलम्ब्यागादिष्टाम्--स्वामिन् ! निर्भीकेन निःसशंयेन भवितव्यम् , पुण्यप्रभावाच्च ते | निर्विघ्नं कार्यसाफल्यं भावि, नौ शीलादि संपतेन्नाम ! अथ राजा तत्काल एव नगराबहिः | काष्ठानां सञ्चयं कारयित्वा तस्य मृत्युमयीं चितां च कारयित्वा तामग्निना प्रज्वालयामास । हरिबलो ग्राम्यजनसमक्षे तस्यां पतित्वा भस्मसाद् बभूव । ते च ग्रामीणा हृदयविदारकं हाहेति ॥ शब्दं विचुक्रुशुः । समेऽपि जना राजानं मुख्यामात्यं च विगर्हयाश्चक्रुः। अहो कियानाश्चर्यविषयः। राजाऽसौ प्रतापिनं हरिबलं छद्मनावधीत् । अत्यनुचितं व्यधात् । याहशो वै नो नृपतिर्न | तादृशोऽवन्यां कोऽप्यन्यः स्यात् । अथ ते समेऽपि राजानं मुख्यामात्यं च विगर्हयन्ति हरिबलं च | | भृशं प्रशंसन्ति, किं च सिंहमिव पराक्रमिष्णुं बलिनं विष्णुमिव शक्रमिव यशस्विनं प्रतापिनं | महान्तं पुरुषं हरिबलं, दुर्मतिराड् प्रधानश्च ललनालम्पटौ छद्मना तं घातयतः स्मेति महद् दुष्कृतं कर्म । अतो नैतादृशो कावप्यधर्मिणौ स्याताम् । इत्थं यथा मृतदेहाद् दुर्गन्धाधिक्यं निस्सरेत्तथाऽ- | खिलपत्तने राज्ञोऽधर्मापकीर्तिदौर्गन्ध्यं वितेने । अथ स हरिबलो वह्नौ संपतन्नेव सुस्थितदैवतं POSSSSSSSS ॥४८॥ Doww.jainelibrary.org Sain For Personal Private Use Only International Page #133 -------------------------------------------------------------------------- ________________ 24. सस्मार । तत्सांनिध्यात्तच्छरीरे किंचिन्मात्रमपि व्यथा न व्यापत् , किं च यथा स्वर्णतापनात्तस्मिन् प्रदीप्तेराधिक्यं जायते तथा हरिबलोऽपि कान्त्या प्रदिदीपे । अञ्जनसिद्धिरिव तत्क्षण एव चितातो | निस्सृत्यादृश्यो भवन् रहसि व्यतिष्ठत । रात्रौ च निजगृहे प्रातिष्ठत । हरिबलं च दृष्दैव तदीये स्त्रियौ हर्षवत्यौ बभूवतुः । विस्मयमावहन्त्यौ च धन्यम्मन्यमाने सुधातुम्बीतोऽमृतं निस्सार्य तस्मिन् प्रचिक्षेप । तत्प्रभावतस्तदेहः शक्रकान्तिरभवत् । “ पुण्योदयात् किं किं न सम्भवति दुर्जनो जनः पुण्यवन्तं सुजनं कष्टवाझै पातयेच्चेत्तदर्थं सौख्यवास्सिंपद्येत । यथाऽगरौषधिं वह्नौ पातयति कश्चित्तदा ततः सुगन्धिरेव निस्सरति तथैव पुण्यवते पुंसे खलताकृता विपत्तिरपि संपत्तिरूपैव भवति ।" ____ अथ हरिबलो निजस्त्रीभ्यां सत्रा प्रेमवार्ता चकार । तदवसरे स दुर्मतीराजाऽनङ्गज्वरपीडितोऽतिमदोन्मत्तो हरिबलगृहमाजगाम । समापतन्तं राजानं विज्ञाय हरिबलमवोचतां ते वामिन् ! भवान् गृहे रहसि स्थित्वा नौ चातुर्य साहसं च विलोकयतु किं करोति स दुष्टो | | नृपः । श्रुत्वैवं सोऽपि तथैव विहितवान् । यदैव समायातस्तदैव द्वे अपि राज्ञे आदरपूर्वकं सन्मानं | Sain Educ a tional Page #134 -------------------------------------------------------------------------- ________________ ܝ 142 कृत्वा विष्टरादिकं च समर्प्य व्याहार्षिष्टाम् - राजन् ! अस्मिन्नवसरे भवदागमने को हेतुः ?, इत्थं स्त्रीवचः समाकर्ण्य मूढमतिः स नृपतिर्विहसन् भृशमुल्लासमुद्रहन् ते चाह - अयि कामिन्यौ ! किमेतन्न जानीथो युवां वां समाह्वानायैव मे समागमः । अतो द्रुतमेव व्रजतम् इत्थं राजकीयं वचः समाकर्ण्य द्वे प्रप्यावभाषाते - राजन् ! न शोभतेऽदो वचो वक्तुं त्वं हि सेवकानां ताततुल्यः । अनर्थकृते पुरुषाय दण्डं दातुमर्हो भवान् । यदि च त्वमेवानर्थं कुर्यास्तर्हि त्वां को नाम निवारयेत् । देवस्त्रीवत् सुरूपवतीमपि परस्त्रियं दूरतः परिहरेत् । तत्रापि भृत्यस्त्रियं पुत्रमेव पुत्रवधूमिव विशेषतया परिहरेत् । यो वै राजा सचाऽन्यायकुर्वतीं प्रजां दृष्ट्वा तस्यामुचितदण्डं दत्वा ततो निवर्त्तयेत् तां यदि राजैव स्वयमन्यायं कुर्यात् तन्निवारयितुं को वाऽलं भवेत्, यो वै रात्रौ चौर्यनिवारकः स एव यदि चौरकर्म कुर्यात्, सत्यपि जले बहून्युत्थापनके, सत्यपि भानौ तमोव्याप्तौ कमुपायं कुर्वीत । अतः किमिदं जातं त्वयि यथावामीहसेऽस्मात्प्रयासात् नौ प्रारणा विनश्येयुश्चेत्तावतापि स्वीयशीलं न विनाशयावः । यतः - " वरं शृङ्गोत्तुङ्गे गुरुशिखरिणः कापि विषमे, पतित्वायं कायः कठिनहृषदन्तर्विदलितः । For Personal & Private Use Only an International चरित्रम् । ॥ ४६ ॥ . Page #135 -------------------------------------------------------------------------- ________________ Jain Educat 143 वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, वरं वही पातस्तदपि न वरं शीलविलयः ॥ १ ॥ अतः - अयि राजन् ! महदनुचितं कार्यमेतद् । यः परस्त्रीभोगं कामयेत, ततो न विरमेत् । ' सुकृते सत्यपि कर्मणि दुर्गतिरेवान्तरा श्रियं हरति, तैलेछुमुक्तेऽपि हि दीपशिखां हरति वातालिः ’। अतोऽन्यायमार्गमपहाय न्यायमार्गो हि स्वीकार्यो भवता, 'न्यायमार्गो हि सर्वसंपदां हेतुः तथाचोक्तं नीतिशास्त्रे - द्रुमेषु सलिलं सर्पिर्नरेषु मदने मनः । विद्यास्वभ्यसनं न्यायः, श्रियामायुः प्रकीर्त्तितम् ॥ १ ॥ श्रुतेन बुद्धिः सुकृतेन विज्ञता, मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना, नयेन चालं क्रियते नरेन्द्रता ॥ २ ॥ इत्थं सुरीत्या हरिबलस्त्रियो नूत्नयापि युक्त्या प्रबोधितवत्यौ किन्तु यथाऽतिसारे सदौषधि - मिथ्यात्वमापद्यते, तथा तस्मिँस्तयोः प्रबोधोऽपि वैफल्यमाप । अथ कन्दर्पदर्पपीडापीडितः स दुर्मति राजाह - अहो कामिन्यौ ! अहं धराधिपतिर्भवन्नपि युवां बह्वर्थये, तथापि युवां न मन्येथे । किं च किञ्चिद्विचारयतं यद्यौष्माको भर्त्ता जीवन्नेव समायादित्याशा वां दुराशैव । वां प्राप्तये एव मया पूर्वमेव स भस्मसात्कारितः । अतो द्रुतमेव युवां मां भर्तृभावेन प्राप्नुतम् । यतोऽहमेवेदानीं Personal & Private Use Only elibrary.org Page #136 -------------------------------------------------------------------------- ________________ चरित्रम्। बर्द्धसार 144 वां दुःखसुखहेतुः। युवां च मे वश्येऽवश्यंभाव्ये यदि मत्कथनं न स्वीकुर्वातां भवत्यौ तदाऽहं बलादपि युवां गृह्णीयाम् । यतोऽहं युवयोरासक्तः, अतो स्वेच्छयैव मद्गृहागमने शोभनं भवत्योर्मम च । इत्थं राजवचः समाकर्ण्य हरिबलस्त्रियौ बहुरोषमावहन्त्यौ तं भणितवत्यौ-रे दुमते ! धिकू त्वां यद्वायस इवाभ्यां निषिद्धोऽपि छद्मप्रौढोह्यावामेवं वदसि । पापत्मन् ! दूरमपसर नोचेत्पापफलं शीघ्रमेव लप्स्यसे । इत्येवं तयोः कटुवचः समाकर्ण्य यावत्सराजा तयोर्बलात्कार कर्तुमुत्सहते तावरकुसुमश्रीः सहसैव निजविद्याबलेन राजानं चौरवद्वबन्ध । बद्धा च यथा तस्य सकलापि दंष्ट्रा सन्त्रुट्य पतेत्तथा भूमौ तं पातयामास । तेन तदानीं राज्ञो दन्तमेकमपप्तत् । एकं तु निजबन्धनं, द्वितीयं दन्तपतनं, ताभ्यां च महापीडा प्रादुर्बभूव । तया च तदानीं महती दुर्दशामाप । इत्थं स दुष्टो राजा मूढ इव शनैः शनैराचक्रन्द । तदानीं राज्ञो मुखाजलपतनमाक्रन्दनं | दन्तपतनं द्युतिविनाशनमित्यादिदशामापन्नस्तरुणोऽपि वृद्धइव ददृशे । इत्थं यथा कश्चनलाभमिच्छन्निजधनादिविनाश्य दुःखी भवेत्तथैव राजा बभूव । अथ दीनवन्मुखं कुर्वन्तं मुहुर्मुहुराक्रन्दन्तं राजानं विलोक्य दयासमुद्रयोस्तयोर्मध्ये कुसुमश्रीस्तमाह-रे दुर्मते ! त्वं हि बहुपापरतस्तथापि - ॥५०॥ - in Ul a tonal For Personal Private Use Only w.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ 145 || त्वयि बहुदयां कृत्वा दुःखादमुष्मात्त्वां विमुञ्चामि । परन्तु परत्रानेन कर्मणा घोरनरके पतित्वा Hd दुःखान्तं भोक्ष्यस एव । भूयोऽपि नैतादृशं कार्य कदापि कुर्याः । इत्येवं तं बहु प्रबोध्य निजवि| द्याबलेन कुसुमश्रीर्बन्धनात्तं विमुमोच। स राजापि स्वाझं स्वस्थीकृत्य सावधानमना भूत्वा भूमि| मधिष्ठितोऽवादीत्-हरिवलस्त्रीप्रसादतः किं न लभ्यते सर्वमेव, किं दुष्प्राप्यं ? न किमपीति | बहुशो वदन् भृशं शोचन् निजचक्षुषी वाससा समाछाद्य कथमपि ततश्चचाल । मार्गे च बहु पश्चात्तापं विदधद् बहुधा विचारयन् गुप्तरीत्या निजगृहमाजगाम । आगत्य च गृहे बहुविधसुखप्रदायिकां रात्रिं कथमपि व्यतीत्य प्रत्यूषे निजदन्तपतनाल्लज्जापन्नो बहुव्याजान् विधाय निजमुखं चाऽऽच्छाद्य राजसभामागत्योपस्थितवान् । निजवृत्तान्तं च सर्व मंत्रिणमूचिवान् । सोऽपि नृपतितः - सर्वमुदन्तं जज्ञिवान् । तदानीं यथा तत्त्वं विज्ञाय संसारस्वरूपं विचारयति । तथा सोऽमात्योऽपि कदाचिद्भयं कदाचित्कौतुकं कदाचित्करुणेति त्रिभिरेव युक्तो युगपद् बभूवान् । अथ हरिबलोऽपि || तदानीं निजस्त्रीकृतातिविविधचरित्रमद्राक्षीत् । ततो गृहाद्गते राजनि निजप्रियाववादीत्-युवयोरd घटितकार्यकर्ते राज्ञ एतदेवोचितमासीत् । मूर्खजनाय दण्डमन्तराऽन्यत् किं स्यात् ? यथा हीनः Sain Education a l For Personal & Private Use Only Library.org मा Page #138 -------------------------------------------------------------------------- ________________ बद्धं नसार ५१ ॥ 146 सारथी रथं कुमार्गे चानयति । तथैव कपटी अमात्योऽपि तस्मै राज्ञे दुर्मतिं प्रदाय कुमार्गे पायत्येव खलु । तथाहि — नृपतिर्नरश्च नारी, तुरङ्गस्तंत्री च शास्त्रमथशस्त्रम् । चारुत्वाऽचारुत्वे, स्यातामेषामन्यसङ्गात् ॥ १ ॥ वल्लीनरिंदचित्तं, वक्खाणं पाणियं च महिलाओ । तच्छ्रयवचंति सया, वच्छ्यधुत्तेहिं निजंति ॥ २ ॥ 1 एते समेऽपि ' नीचजनसंगत्या नीचैस्त्वं लभन्ते । सुजनसंगत्या च सौजन्यं लभन्ते । ' अतएव दुष्टोऽयममात्यो राजानं कुमार्गे पातितवान् । अतः पूर्वं प्रधानाऽमात्यार्थमेव कश्चनोपायो विधातव्यो मया किं च यावद् दुष्टोऽयं जीवति तावत्स्वीयं दुर्भावं नैव हास्यति । अतोऽयमेवान्यायविधायकोऽमात्यः कथङ्कारं मारणीयः । यतो दुर्जनाय दमः सुजनाय च प्रतिपालनमित्यादि शास्त्रेषु नीतिरुक्ता । अतोऽमात्यविनाशाय कश्चिदुपायो विधातव्यः । यदसौ मंत्री मया सह बहुविदधाति । अतो मयाप्येतेन सह छद्म विधेयमेव । उक्तञ्च- International व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि नन्ति शठास्तथा विधा न संवृताङ्गान्निशिता इवेषवः ॥ १ ॥ For Personal & Private Use Only चरित्रम् | ।। ५१ ।। Page #139 -------------------------------------------------------------------------- ________________ Jain Educa 147 अथेत्थं विमृश्य स हरिबलो निजाभीष्टदेवं सस्मार । तत्स्मरणादेव स देवः शीघ्रमेवोपस्थाय हरिबलीयशरीरमद्भुताकारं दिव्यस्वरूपं च विधाय तस्यैवान्यभयङ्करयमदूतं निर्मितवान् । तं सहैव गृहीत्वा प्रत्यूष एव हरिबलो राजसभायां गत्वा राजानं प्रणिपत्योपस्थितवान् । ततः - इन्द्रोपमं हरिबलं स्वर्गसमागतं विलोक्य चमत्कृतो राजा राजभृत्याश्च बहुविस्मयं लेभिरे । राजा च हृदि व्यचिन्तयत् - अहो ! धिग् पापान्वितमंत्रिवचांसि । यद् यदर्थं मयाऽसौ हरिबलः साक्षाद्वह्नौ भस्मीकृतः । सचायमागतः कुतः ?, राजा हरिबलं परिपृच्छयते यत्त्वं यमगृहात्कथमिहायातः ? त्वया सत्राच कोऽयं पुमान् ? स आह- राजन् ! यदाहं चितामधिष्ठाय भस्मीभूतस्तदैव यमद्वारमगच्छम्, गते च मयि तत्र यमभटा मदीयवृत्तान्तं यममाहुः । निजकिङ्करास्यान्मदीयवृत्तं निशम्य जादयो मयि सन्तुष्टीभूय मां सजीवितं व्यधात् । अथ यमप्रसादान्मदीयदेहशोभादि समधिष्ट | 'एकतः कष्टं द्वितीयतः सत्यम्, इति द्वये सम्पन्ने सति किं दुर्लभं स्यान्न किमपीति । कष्टात्सत्याच्च तुष्टीभूतो देवः सत्पुरुषाय किं किं न ददाति ?' अथ धर्मराजो मया वक्तुमशक्यानि तथा मनसाप्यगोचराणि बहुविधर्द्धिसमृद्धिवस्तूनि समदर्शयत् । अहं च किं पश्यामि किन्न पश्यामीति चिन्तायुतोऽ For Personal & Private Use Only Inelibrary.org Page #140 -------------------------------------------------------------------------- ________________ बद्धं नसार ५२ ।। Jain Ed भवम्, यावद्वितीयं पश्यामि तावत्प्राथमिकं विस्मरामि, यावत्तृतीयं पश्यामि तावद् द्वितीयं विस्मरयेतादृशोऽभवम् । राजन् ! तत्र शक्रनगरी विजेत्री संयमनी नाम यमनगरी महीयसी वर्तते, तस्यां धर्मराजो यमो राज्यं करोति । तत्र च पुण्यवन्तो जना निवसन्ति । तत्रैव तेजसी नाम्नी शुभकारिणी सभा । तस्यां च सभायां ताम्रचूडो नाम दण्डधरः । स च लेखनाय चतुर्हस्तपरिमितमेकं पुस्तकं स्थापयति । शक्रादयो देवाः सुसेवया तं सुसेवन्ते । ब्रह्मेशविष्णवो यमदेवतुष्टये शर्मणे च कष्टं सहन्ते । परमयोगीन्द्रास्तदनुमत्या योगाभ्यासं भजन्ते ! ये चेमे त्रयो लोकास्ते तं सुसेवन्ते । गाढतो विनाशको हि तदुत्पादयिता सूर्यो नाम तदीयतातः । यद् वै जीवेऽस्मिन् संज्ञावन्मुख्यं, तदेव संज्ञावती नाम्नी तदीया जननी । शनैश्चरो नाम भ्राता, यो जगत्यां वज्रवद्दुःसहस्तथा श्यामवर्णः । सकललोकपावयित्री यमुना नाम तदीया भगिनी । सकलद्वेषकत्र धूम्रमुखी धूमोर्णा नाम तदीया पट्टराज्ञी । मृतपुरुषोत्थापयितृधीरपुरुषाणां योग्यं तदीयं वाहनम् । त्रिजगदादरप्रदाता वैद्युतो नाम याष्टिको दुतः । चण्डमहा चण्ड नामानौ द्वौ दासौ चित्रगुप्तो ternational 148 For Personal & Private Use Only चरित्रम् । ।। ५२ ।। Page #141 -------------------------------------------------------------------------- ________________ 149 नाम तदीयो लेखकः यो जगत्त्रयजननमरणादिसुकर्मकुकर्मादि विलिखति । इत्येतादृशो यमस्तुष्टीभूतः कल्पवृक्ष इव भाति । रुष्टेऽपि यमे यम एव भवति सः। इत्थं यमीयां समृद्धिं विलोक्याहं स्वात्मानं कृतार्थ मेने । तथा लोकोऽयं वदति यजन्म समुपलभ्य बहु जीवेद्बहु च पश्येत् । अथेत्थं गते कियति काले धर्मराजाय भवत्प्रदत्तं निमंत्रणं मया तस्मै निवेदितम् । तदानीं स मयि सन्तुष्य मामवोचत्-यद्राज्ञो वै मत्कृते महानादरः । अतोऽहमवश्यं समायिष्ये, किं च तद्विषये किमपि तमहं वक्ष्यामि-यदि तावको राजा मम सुहतु मयि प्रेमवान् स्नेहादिकं करोति, तर्हि वारमेकं सकुटुम्बः सामात्यः ससेनो मदन्तिके समायातु | | तदाहन्तमनुभजे, इत्यहं विमृशामि । इत्थं स मां बहुशोऽभ्यधात्-हरिबल ! त्वं तत्र गत्वाऽवश्यं । तं मदन्तिके कदाचित्प्रेषय, इत्येवं मां बहुशोऽभिधाय मह्यं दिव्यालङ्कारवासोभूषणानि प्रदाय ॐ दिव्यरूपधरा देवाङ्गनाः परिणेतुं समर्पयत् । किं चाहं तानोररीकृतवान् । ततः प्रान्ते मामाह-ए ता हि काञ्चनकान्तीस्त्ववश्यं स्वीकुरु? येनाहं कृतार्थो भवामि । तदाहं तमब्रुवम्-नाहमेकामपीच्छामि, मम स्वामिविवाहसम्बन्धिकार्यमत एवेहाहमागच्छं त्वदाकरणाय । देयाश्चमा भवकता म. Sain Educati o nal For Personal Private Use Only Thelibrary.org Page #142 -------------------------------------------------------------------------- ________________ 150 नसार स्वामिने राज्ञे मंत्रिणे चैतेनैव मे सन्तोषः । यतो हीमा बालास्तयोरेवार्हाः। यतो बन्धने वधे युद्धे । चरित्र। दुर्गग्रहणे गृहोत्सवयोश्च यत्र यत्रैव भृत्यः कष्टायते ! तत्कष्टस्य फलप्राप्ती राज्ञे भवति । श्रुत्वैवं सोऽप्याह-अस्तु, त्वं ब्रज, किं च राजादयोऽत्रावश्यं प्रेष्याः । इत्थं मामभिधाय सादरं व्यसर्जयत् । अतएव त्वदाह्वानाय मदर्थं मार्गावलोकनाय तव बहुमानाय च निजो यष्टिकाधारको वैद्युतो नाम भृत्यः प्रैषि मया साद्धर्म, अत इदानीं तेन सह सहर्षी व्रज, तत्र गमनं सुयोग्यमेव । अथ स याष्टिको हरिबलकथनानुसारं सभा स्थितान् सर्वानेवमेवाह-इत्थं तद्वचांसि सत्यानि मन्यमानाः सदस्या नराः सत्यमेवैतदित्याहुः-कार्यश्चैतन्न दुष्कार्य, सर्वमेव सत्यं खलु महाकैतवी सोऽमात्योऽपि देववाक्यं सत्यमेवामस्त । यतश्छद्मकारिणामन्तं ब्रह्मापि नैव जानाति ।' ___ अथाऽमात्यादयोऽपि यमराजगृहं गन्तुमनसो वभूवुः । यस्य यमराजस्य स्मरणादेव भीतिमन्तो भवन्ति सुजनास्तस्मिन्नेव यमे ते समेऽपि सोत्साहचेतसो जज्ञिरे । तदानीं तत्कौतुकावलोकनाय समेऽप्युत्साहवन्तो जाताः। 'यतो वै लुब्धो जनः किं न कुर्यात्? सर्वेष्वपि तेष्वेकोऽवादीत्यत्पूर्वमहं संगच्छेय, द्वितीयो नैव पुराहमेव गच्छामि, एवमभिदधत्सु तेषु सर्व एव गन्तुमुत्सुका |॥ ५३ ।। Sain E l Aternational For Personal & Private Use Only arww.jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ 151 बभूवुः । राज्ञश्च पूर्वं या वै दन्तपतनपीडा सेदानीं धर्मराजान्तिकेऽहं निखिलाः समृद्धीः प्राप्स्यामितीच्छया सर्वापि वैनाश्यं लेभे । धर्मराजगृहगमनाय चातीव सोत्साहमना बभूव । तदपेक्षया च पूर्वममात्यः सज्जितो जातः तथा तस्यापेक्षया पूर्वं सदस्या नागरीकाश्च सज्जिता बभूवुः । किं च समेषामपि देवप्रभावतः क्रमशो बुद्धिर्वैनाश्यमत्रजत् । कियन्तो देवबालाः परिणेतुं, कियन्तो दिव्यद्रव्याभरणानि विलोकितुं, कियन्तश्च कौतुकान्यवलोकितुमेव नृपतिना सत्रा नगराद्वहिर्निर्जमुः । अहो ! कीदृशं लोभराज्यादिकम् । इत्येवं विचारनिश्चितेषु तेषु राजानुमत्या नगराद्वहिर्बहुभीत्युत्पादिकां महतीं चितां विरचितामग्निना योजयामासुः । समृद्ध्यादिप्राप्तिस्तु कुत्रैव किं च भस्मीभवनमेव निश्चितम् । तथापि ते सावधानचेतसोत्सुकमनसो जज्ञिरे । अहो अक्षरशः सत्यमेव यत्कीदृक्षं नाम संसारस्वरूपम् । तथाहि जादव्वे होइ मई, हवा तरूणीसु रुवमईसु । ता जड़ जिणवर धम्मे, करमलयजं ठिया सिद्धि ॥ १ ॥ अथ सर्वऽपि ते पीतमद्या इव संसारसुखाभिलाषुका लोभवशङ्गता नववचांसि कुर्वन्तो जगर्जुः, कियन्तो नर्त्तनं, कियन्तो गानं कियन्तश्च हास्यं कर्त्तुमारेभिरे । वह्नौ पतनायोत्सुका बभूवुः । For Personal & Private Use Only national jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ बर्द्ध नसार ५४ ॥ 152 इत्येवं दृष्ट्वा दयार्द्रचेताः स हरिबलस्तदानीं व्यचिन्तयत् — यदपराधं चामुं कृत्वा निरयेकां गतिं sasyar को विधेयो ममोपायः । यस्मात्सर्वे नरा निवर्त्तेरन् । पतेश्च्च केवलं वह्नौ मुख्योऽमात्यः । इत्येवं विचारयति हरिबले झटित्येव यमयाष्टिको दूतो हरिबलानाह - भोः यावन्तो वै यूयं वह्निपतनायोत्सुका वर्त्तध्ये, ते समेऽपि यूयं किञ्चिदवतिष्ठध्वम् । मद्वचांसि च प्रतिशृणुध्वम् - यद् यूयं फलाभिलाषुकास्तर्हि व्याकुलचेतसो मा भवत । यतो मे स्वामी यमो विषमः, अतो यो राजातिमानितो भवेत्स एव पूर्वं मया सार्धं वह्नौ पतेत् । ततो राजा, ततः प्रजादीत्थं दैविकं वचः शृण्वन् स मुख्योऽमात्यो मनस्येवं विचिन्तयति स्म - यदहं पूर्वगच्छानि तर्हि स्वमनोऽभीष्टफलं प्राप्नुयाम्, इत्येवं विचार्य सोऽमात्यो राजानमाह - स्वामिन्! यदि भवतामाज्ञा स्यात्तर्हि पूर्वतोऽहं गच्छेयं, राजाप्याह-यथेच्छं व्रज, इत्थं राजाज्ञया यथा कश्चित्स्वर्गसुखभोगाय गच्छेत्तथा स्वात्मानं कृतकृत्यं मन्यमानो मनसि हर्षं दधत् सोऽमात्यो यमयाष्टिकेन सह प्रज्वलितकृशानौ झम्पापातमकरोदेव भस्मीभूतः । इत्थं पापबुद्धिरमात्यो निजमनोरथाय यमराजगृहं सकष्टं जगाम तस्मिन् स राजा सरागः शलभ इव पावकपतनायोद्युतो बभूव । तदानीमेव जातकरुणो हरिबलो nternational For Personal & Private Use Only चरित्रम् | ।। ५४ ।। Page #145 -------------------------------------------------------------------------- ________________ Jain Education 153 राजकरं गृहीत्वा निषिद्धवान्, निषिद्धश्च तमाह - हरिबल ! सुकार्ये कथमन्तरायभूतो भवान् भवति । राज्ञो वचश्च श्रुत्वा सोऽप्याह - राजन् ! यदहं त्वां ब्रवीमि तत्सावधानमनाः शृणुयाः । यो ह्यविचारितं कार्यं विदधाति स ऐहलौकिकपारलौकिकदुःखान्येव सर्वथा सहते । यश्च विचारवान् निपुणो जातः स बहुविचार्य कार्यं विदधातु । राजन् ! यमप्राप्तौ मद्वचांसि सत्यानि मा विद्धि । मृतो जनः कदाचिद्दृष्टो भवता । म्रियमाणो जनः केन वारयितुं शक्यः, एतत्सर्वमेव मया छद्माऽऽवि - ष्कृतम् । यतः कुमतियुतेनाऽमात्येन हि प्रपञ्चरचनां विधाय मुहुर्मुहुः कष्टनयां चिप्तोऽहं तेन तेनैव भवानपि दुःखे पातितः, भवन्तस्तेनैव पातितः । यतस्त्वयि महती वेदनाऽजायत । इत्यादि महान्त्येव दुःखानि प्रदत्तानि तेन, भवादृशे सुज्ञवरे कुबुद्धिरदायि । त्वादृशः सत्पुरुषः परद्रोहपरस्त्री लम्पटो विहितः । यतो वै दुष्टमंत्रिणा राड् दुःखमेवानुभवति । अतो वै छद्मरचनां विधाय दुर्मती - राजमंत्री पावके भस्मीकृतो मया । यतो नीतिरियं -' एधमानं व्याधिं वैरिणं च शीघ्रमेव विनाशयेत् ' तत्रापि त्वं मे स्वामी, अतो वह्निपतनाद् भवन्तं कुतो न निषेधामि । कथितमपि शास्त्रेषु यत्स्वामिनो द्रोहान्महत्पापम् । अन्येन केनचित्सामान्येनापि सह द्रोहान्महत्पापं भवति । तत्र For Personal & Private Use Only rary.org Page #146 -------------------------------------------------------------------------- ________________ बढुं नसार 154 सुहृदा स्वामिना गुरुणा च सह द्रोहात्महत्तरमेव पापं भावि, इत्थं हरिबलास्यनिःसृतं वचःशृण्वन् IN चरित्रमा स नरवरोऽतिसशङ्को व्यचिन्तयत्-बहु विचिन्त्य च निजमनस्येव व्यम्राक्षीत्-अहो! मदीयं सकलमेव दुर्विचारितं जानात्यसौ । इत्यादि बहु विमृश्य तदानीं महत्या त्रपयाऽधोमुखीभूय बहुकालं शून्यतां दधदिवावतिष्ठत । यथा कश्चित् मूर्छितो जनः स्यात्तादृशो बभूव । अथैतादृशं नृपतिं विलोक्य मधुरया वाचा च बहु प्रबोध्य तदीयं दुःखमपाहार्षीत् । स राजापिहरिबलीयमाननं देवोपमं तदीयाद्भुतचरित्राणि च दर्श दर्श सविस्मयो निजमूर्धानं विकम्पयन् विचिन्तयति स्म-अहो ! सापराधमपि मां वृहच्छक्तियुतोऽसौ दयया जहौ । अतोऽसौ महान् सामर्थ्यवान् मदीयराज्यमपि नोररीचकार । सर्वथाऽसमर्थोऽहं चैतस्य लक्ष्म्यौ गृहीतुमुद्यतोऽभवम् । अतोऽधमाधमोऽहं परमोपकारिणोऽस्मात्कथमहं मुक्तो भवामि । इत्येवं हरिबलस्य प्रशंसां कुर्वन् स्वात्मानं विगर्हयन् भवोद्वेगमावहन् चिराद् बहुकष्टेन निजभवनमगमत् ।धर्मराजगृहगमननैष्फल्यान्वितो जातः। यमगृहगमनाय समुपस्थितो लोकश्च कौतुकान्वितं हरिबलचरित्रं वर्णयन् निजगृहं जगाम । तदानीं तत्राकस्मिकनिमित्तकारणेन स भूपतिर्वैराग्यचेता बभूव । अथ स राजा गते कियति काले वैराग्यरागरञ्जितो Sain E r national For Personal Private Use Only vw.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ 155 - हरिबलाय निजां दुहितरं पत्नीत्वेन समर्प्य स्वकीयराज्यं च तस्मा एव दत्त्वा पूर्वसञ्चितपापविना. शाय शुभे मुहूर्ते सद्गुरुपार्श्वे दीक्षां गृहीत्वान्तेऽनुत्तमां गतिमाप ।। . अथ तत्र काञ्चनपुराधीश्वरोऽपि निजगृहाद्विनष्टां स्वीयात्मजां विज्ञाय दुःखीभवन् प्रतिदिशं । समाचारघोषणां कृतवान् । ततः शनैः शनैः पथिकजन मुखाद्धरिबलीयं वृत्तमश्रौषीत् । अथातिहर्षान्वितो नृपतिर्हरिबलं निजजामातरं विज्ञाय कार्यविज्ञातृन् मुख्यामात्यादिमहतो नून् प्रेष्य बहुमानं निजतनयमिव हरिबलमाचीकरत् । हरिवलोऽपि पृथिव्यां पुरुहूत इव निखिलर्द्धिसमृद्धियुतः || ससैन्यः सस्त्रीकोऽखिललोकेभ्यः कौतुकहर्षादि ददानः काञ्चनपुरं समागात् । तदानीं राजा राज्ञी च दुहितरं स्वामित्वमभिदधतुः । अयि प्रियवत्से ! त्वया स्वेच्छया वरो वृतस्तच्चाघटितं कर्म, किं || च भाग्यं ते महत्तरं, यत्त्वं लोकपूजितं भर्तारमलभथाः । इत्यादि जननी निजात्मजां प्रशशंस । भूपतिश्च हरिबलाय राज्यं समर्प्य द्वावपि भगवद्भजनादि कृत्वान्ते सद्गतिं लेभाते। ____ अथ वैरिकटको वैरिवलो दर्पसनिवारणविनतासुतो भाग्योदयविपुलराज्यपरिपालकोऽप्यति | प्रियप्रजाप्रेमवान् राज्ञी त्रर्यायुतो हरिबलोऽन्यनृपतितनया अपि परिणिनाय । यद्यपीश्वरो जनायाs-1 Sain Educ a tional For Personal & Private Use Only . Page #148 -------------------------------------------------------------------------- ________________ 156 बद्धं सार ६॥ तुलं फलं ददाति, तथापि तत्फलं तज्जन्मन्येव न लभ्यते पुंसां, किंतु जन्मान्तरे लभ्यत एव, चरित्रम्। तथैव हरिबलो जीवहिंसापरित्यागादतुलंफलमलभत । तथाहि सुधासुतासूत्रचामररत्नछत्रप्रभृतिवटगुमफलवत्प्रबलः शोभते स्म । ततो हरिबलो निजनियमादिपरिपालयन् कदाचिद् व्यचिन्तयतअहो क्व मे धीवरकुले जनिरधमत्वं दरिद्रत्वं च क्व चेयं राज्यसमृद्धिरेतत्सर्वमपि सर्वसम्पत्सुखादिप्राप्तिः, केवलं जीवदयात एव मेऽजनि । इत्थं शश्वन्नियमानुमोदं कुर्वन् नियमान्न विसस्मार। | अथेत्थं गते कियति काले जातु हरिबलो व्यचिन्तयत् यद् यो गुरुमा देशनामयं पीयूषमपाययत् । । यत्कृपातश्चाहमिदानी समृद्धियुत इन्द्रोपमो वर्ते, स एव गुरुरिदानीं समायातु चेत् किमपि तं पृच्छामि । कृतकृत्यो भवामि । इत्येवं यावद्विचारयति तावदेव हरिबलध्यानाकर्षितः समायातो गुरुस्तं समाह्वयत् । सोऽपि समागतं गुरुमवगम्य जातचित्तातिहर्षो गुरुसमीपे गत्वा गुरुपादौ ववन्द। वन्दित्वा च तन्मुखारविन्दगलितदेशनाफलानि समसिस्वदत् । देशनां निशम्य प्रमुदितमनाः सप्र श्रयोऽवादीत्-अहो सुकृतपोषिन् ! भवत्प्रसादादेवाहमद्भुतलक्ष्मभिोक्ताऽभवम् । पूज्यवर ! अहं | तु पापात्मा सदा गर्दाश्चातो मयि दयां कुर्वंतु दयावन्तो भवन्तः। विदधतुतरां मां मोक्षाधिकारिणं ||॥ ५६ ॥ Sain Ed e rational For Personal & Private Use Only | w.jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ 157 | यद्धितं च तदुपदिशन्तु निजचेतसि स्थापयतु मयि तुष्यतु । इत्यादि गदित्वा गुरुं प्रणनाम । पश्चाच्च सुकृते लग्नमनसं हरिबलं दृष्ट्वा गुरुर्बभाषे-राजन् ! त्वमेव धन्यतमो यस्येतादृशी द्रढीयसी धर्मरतिः सुमतिः । संसारे भिन्नरुचिमन्तो जनास्तथाहि-- केचिभोजनभङ्गिनिर्भरधियः केचित्पुरन्ध्रीपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः। केचिद्यूतकथामृगव्यमदिरा नृत्यादिबद्धादराः, केचिद्वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः ॥१॥ ____ इत्थं द्वैविध्यमापन्नः स धर्मस्तत्रैको हि साधुधर्मो द्वितीयो गार्हस्थ्यधर्मश्च । तत्रापि निश्चलधर्ममूलं जीवदयैव । यश्चान्यो धर्मः सोऽपि तस्या एव विस्तारः। एवं च यो जीवदयाधर्मपरिपालनदक्षः स सर्वविरतिसाधुत्वपरिपालने रतिमीहते । किं च चारित्र्यमन्तरा दयापालनं सुरीत्या न संभवति । यश्च वै साधुधर्मपालनेऽशक्तः स पुमान् गार्हस्थ्यधर्मपरिपालनाय प्रावीण्यं लभते । सर्वधर्मापेक्षया केवलमेष एव समाराध्यो जीवदया धर्मः । प्रमादमपहाय दयैव समाराधनीया । इत्यादि देशनां श्रुत्वा गुर्वन्तिके ससम्यक्त्वमणुव्रतमग्रहीत् । अन्यान्यपि व्रतानि यथाशक्ति गृहीत्वा निजगृहमाजगाम । यथा निर्धनो जनो मन्दारद्रुमं लब्ध्वा हर्षवान् बोभवीति, तथा हरिबलोऽपि in Educati o nal For Personal Private Use Only Clinelibrary.org Page #150 -------------------------------------------------------------------------- ________________ चत्रिम् । 158 गार्हस्थ्यधर्म लब्ध्वा हर्षवान् बोभवाम्बभूव । सर्वस्वविनाशकानि नरकप्रदानि च सप्तव्यसनानि निजदेशाबहिः कृतवान् , निजामृततुम्बाच्च बहून् रोगिणो नीरोगान् विहितवान् , इत्यादि बहुविधपुण्यानि विधाय न्यायनैपुण्यधर्मेकछत्रराज्यं हरिबलोऽपालयत् । अथ व्यतीते कियति समये हरिवलो निजगुरुं पुनः सस्मार । गुरुरपि सुसमयं विज्ञाय काञ्चनपुरोद्याने समाजगाम । हरिवलोऽपि सपरिवारो वन्दनाय प्रतस्थे। वन्दित्वा चोचितस्थाने समुपविश्य देशनां शुश्राव । गुरुरप्युपदिशतिराजन् ! त्वं जीवदयाप्रभावादेव सकलसमृद्धिकोभूतः, केवलं जीवोपकारादियत्फलं जातं । यच्च त्वं जीवानुपकर्यास्तर्हि मौक्तिकसुखं लभेथाः । सर्वजीवदयां कः परिपालयेत् यश्चारित्रं पालयितुं शक्नुयात् । अतस्त्वयेदानीं यतिधर्मो ग्राह्यः येन मोहादिदुःखं विनाश्यात्मीयराज्यं लभस्व । || गुरुवचः समाकर्ण्य परमवैराग्यवान् हरिबलो गृहमागत्य स्वराज्यं ज्येष्ठापत्याय दत्वा सत्रिस्त्रीको II दीक्षया दीक्षितो बभूव । दीक्षितोहर्निशं दुष्करं तपः कृत्वा कर्माणि क्षिप्त्वा शाश्वतसुखमयं मोक्षं प्राप । अतोऽपि भव्याः ! जीवदयाविषये हरिवलचरित्रं लक्ष्यीकृत्य विशेषतो जीवदयापरिपालनोद्यतमानसा भवेयुरिति । ॥ ५७।। Sain International For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 159 पुण्यफलदर्शक-श्रीअघटकुमारचरित्रम् । गुरुवरचरणसरोजं हृदये निधाय भवजलधिसुपोतम् । अघटकुमारचरित्रं रचयति सकलोपयोगकृते ॥१॥ __ अमुष्मिन् संसारे लौकिकसाहाय्यरहितानामपि पुण्यवतां प्राणिनामघटस्येव ध्रुवं विपदोऽपि । सम्पद एव जायन्ते । तथाहि इहैव भरतक्षेत्रे सकलदेशशिरोरत्नायितोऽवन्तीनाम महीयान् देशो विचकास्ति । वरीवृत्यते चात्र सकलभुवनतलीयनगरवरमण्डनी विशालानाम्नी श्रीशालिनी नगरी । निवसति चाऽस्यां दासीकृताऽशेषविपक्षपक्षः सुघटिताऽभिधानो भूजानिः। अस्य क्षितिभुजः सुरसुन्दरीव रूपलावण्यमञ्जरी सुन्दरी नाम्नी प्रेयसी विद्यते, यामालोकमाना दृढव्रता मुनयोऽपि क्षुभ्यन्ति। तयोश्चाऽतुलबलपराक्रमी विक्रमसिंहनामा पत्रो विभ्राजते । अस्ति चास्य ज्ञानगर्भनामा नौमित्तिकः पुरोहितः।। अथैकदा सभायामागत्य कोऽपि पुमान् कर्णाऽभ्याशे पुरोहितं किमपि न्यगादीत् । त्तच्छुत्वा स नितरां विस्मयमापद्य तस्योत्तरं शिरःकम्पनेनाऽकरोत् । तत्रावसरे राजा सुविस्मितं पुरोधसमपृच्छत् JanEduce For Personal Private Use Only ainelibrary.org. Page #152 -------------------------------------------------------------------------- ________________ चरित्रम् । कुमार 1८॥ 160 निमितज्ञ ! विस्मयस्य कारणं माङ्कथय? सोऽवक् राजन्! एतत्कारणं माप्राक्षीः। आकर्णिते चैत- स्मिन् तव महान् खेदो भविष्यति । तदा पौनःपुन्येन तत्कारणं तस्मिन् पृच्छति सति स पुरोधा अपि तत्कारणं वक्तुमारभत । तथाहि-स्वामिन् ! ममालये काचिदेका दासी निवसति, तस्याः । पुत्रोऽजायत । स पुत्रापि सा शूद्रा मामके कुटीरके तिष्ठति । तदाकर्ण्य नृपोऽवदत्-भोः पुरोहित ! सा दासी पुत्रमसविष्ट, तेन तवेदानीमियान् विस्मयाटोपः कथमजनिष्ट, मुधैव तवेयं विषादः प्रतीयते । तदा निमित्तज्ञः स राजानमित्याख्यत्-राजन् ! मामवज्ञासीरेवं मद्वाक्ये, यदसौ शिशुः सकलक्षितिपतीनामखर्वदर्पहा भूपतिर्भविष्यति । पुनरूचे नरपतिः-भोः ! यथाऽन्ये राजानो वर्तन्ते, ॥ तथाऽयमपि जायतां भूपतिः का ते हानिस्तेनापीति। पुनरवोचत नैमित्तिकः-क्षितिपते ! स राज्यङ्करिष्यति, तेन मे मनागपि विस्मयः क्लेशो वा मानसे नोत्पद्यते । किन्तु त्वयि जीवति सति ! त्वदीयेऽस्मिन्नगर एव स नूनम्भविष्यति सर्वेषां शासितेति विस्मयो मे महान् समुत्पद्यते । इदमेव विस्मयस्य कारणमवेहि । अनेन भवन्मनसि दुःखं सुखं वा समुत्पद्यतां नाम, परमेतस्मिन् व्यत्यासः कर्हिचिदपि नैव भवितुमर्हति, शिलाक्षरवत् । इत्याकलयन् कोपाटोपादन्तःकरीषाऽग्निरिव जाज्व ॥ ५८॥ SainEd i temational For Personal Private Use Only १ w .dainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ 16.1 ल्यमानो नरपतिः क्षणमपि स्थातुमक्षमस्तदेव सभां विससर्ज। तदैव पुरोधसा साधू स नरपतिस्तत्र गत्वा समुदितं बालार्कमिव कल्पतरोरङ्कुरमिव द्वितीयायामभ्युदितं शशधरमिव पुण्यानां निधानमिव श्रीणां क्रीडोद्यानमिवाऽशेषराजलक्षणलक्षितं तं बालर्कमपश्यत् । तमद्भुतं विलोक्य राजाऽजल्पत् । विधे ! त्वां धिगस्तु । यतस्ते सृष्टिरीदृशीयमजायत । येन च त्वयाऽविवेकिना नूनमिदं पुं माणिक्यं दौष्कुल्येन कलङ्कितमकारि । सन्तश्च निर्धनाश्चक्रिरे । दुष्कुले च पुंरत्नमुदपादि। मूर्खाहि धनिनो विदधिरे । एतत्रयी तावकीनैव स्खलना प्रतीयते । इत्थं हर्षशोको मानसे विद- - धानो नरपतिः स्वसदनमागात् । सायङ्काले पुनरेष मनस्येवमचिन्तयत् । हन्त, मत्पुत्रे मयि च जीवति सति कथमेष दासेयः शाशिष्यति मदीयाः प्रजाः। को जानीयात् विधेश्चेष्टितम् । अत इदानीमेव मया नखच्छेद्यतां नीतेऽमुष्मिन् नाऽऽयतौ कुठारच्छेद्यतामसौ जातुचिदपि नो ब्रजिष्यतीति । अपि च-सुखेप्सुभिः प्रभुभिः समुत्थिताः कलहवह्वि-रोग-ऋणाऽरयो नोपेक्षितव्याः कदाचिदपि, यतोऽमी वर्धिताः सन्तो नितरां दुःखदा भवन्ति, अशक्याश्च प्रतीकर्तुं पश्चादिति निश्चित्य | कृत्याऽकृत्यमगणयन्नेष नरराजस्तस्य शिशोर्विघाताय पदातिद्वयमाज्ञापयत् । अथ तावपि पुमांसौ al Sain Education international For Personal Private Use Only Page #154 -------------------------------------------------------------------------- ________________ चरित्र कुमार 16 तत्र गत्वा तां दासी सुप्तामालोक्य तं बालकमुपादाय बहिः क्वापि निर्जनप्रदेशे समागाताम् । तत्रैकः करुणया द्वितीयमेवमजल्पत्-भ्रातः ! अमुष्य गर्भकल्पस्य सुलक्षणस्य शिशोर्मारणे मनसि मे महती घृणा समुत्पद्यते । अतस्त्वमेवैनं जहि, मुश्च वा। तदाकर्ण्य द्वितीयोऽवदत्-हन्त ! किमेवमाख्यासि, मत्पूर्वजा अपि भ्रमादपि बालहत्यागर्भहत्यादि महापापं नैव चक्रिवांसः, किञ्च को नाम प्राणी दीने वियुक्ते च मातापितृभ्यां शिशौ नानुकम्पां बिभर्ति, पश्य, विधुन्तुदोपि जात्वपि बालेन्दुं नो असति, एवं तर्हि मामेतमर्भकं हिंसितुं यदीरयसि, तन्न शोभनं मन्ये । अतोऽयमर्भको मया नैव घानिष्यते, त्वयैवाऽयङ्करुणास्पदं हन्तव्यो मोक्तव्यो वा । इत्थं तस्य वधे विवदमानाभ्यामुभाभ्यामपि मनसि समुद्भूतप्रभूतदयावद्भयां कुत्रापि जीर्णवने कूपोपकण्ठेऽत्याजि सोऽर्भको जीवन्नेव, समागत्य च तौ राजानमित्यजल्पताम्-स्वामिन् ! इदानीमेव स कृतान्ताय वलीकृतः, तदानीं तयोः सुधोपमं तद्वचनमाकर्ण्य तत्कालमेव विशल्यतां मन्यमानः परमां निर्वृतिमापञ्च । इतश्च महीयसः शिशोः प्रभावतः शुष्कमपि तदुपवनं समुद्भूतपल्लवकुसुमफलादिभिर्मनोरममभूत् । प्रातस्तत्रागत आरामिकः स्ववनं नवीनमद्भुतश्रियं ॥ ५९। in E slational For Personal Private Use Only rw.dainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ 163 विलोक्य निजवल्लभामभाषत-अयि प्रिये ! विलोकय । दैवात्कीदृशीजाता वनशोभेति । अहो ! किमिदं वनं नीरस्फारभारखिन्नो वारिदोऽसिचत् , येन चिरशुष्कमपि पुनर्नवीभूतभवलोक्यते, किं वा स्वर्गान्नन्दनं वनं भूमावतीर्णम् । तदाऽत्याश्चर्यं पश्यन्ती तद्वधूरिति जल्पितवती-नाथ ! नायमात्मीयः । स्वकीयो हि पुरा विशुष्कतरतरुलतादिक आसीत् स ईदृशः क्षणादजायत, इति कदापि न सम्भवति । पुनरारामिकोऽवदत्-प्रियतमे ! किमिति कथयसि । ममैवेदमुद्यानं, नान्यस्य कस्यापि कथमात्मीयममुमाघाटं विलोकमानापि भवती नात्मीयमिति जल्पति । ममैवेदमिति निश्चित्य प्रेयस्या सत्रा वनान्तरे पत्रैः कुसुमोद्गमैः प्रचुरफलैः शोभितां चेतोहरां तरुराजिं तथा सरित्तुल्या वहन्तीः कुल्याश्च पश्यन् मनसि भृशं तुष्यन् स तत्कूपाभ्याशमागात् । तत्र स्थितभर्मकमवलोक्य मनस्यचिन्तयत् । अहो क्रीडार्थमागतायाः कस्याश्चिदमरवध्वा विस्मृतापत्यमिवैष बालकः प्रतिभाति । तदनु स मालाकारः-प्रोच्वैरघटोऽयमिति जल्पन् तमर्भकमादाय तदीयसुकृतनिचयैः प्रोल्लसदाश्चर्यकारिमनोहारिशरीरत्विषां चयैश्च चित्रीयमाणो भवन् प्रेयसी व्याजहार-सुन्दरि ! एष शिशुः साधारणो नास्ति, कश्चन महाप्रभावो दिव्यात्मकोऽनु in Educ a t For Personal & Private Use Only INDainelibrary.org. Page #156 -------------------------------------------------------------------------- ________________ बद्ध कुमार ० ॥ 164 मीयते, यत्प्रभावात्तत्क्षणमेवाऽयमारामः पुनर्नवतामियाय । किञ्चैतत्प्रभावादेव कूपादुपर्यागत्य प्रणालीषु जलानि प्रसस्रुः । गृहीतेचा मुष्मिन् पाणिभ्यां तानि पयांसि मनाग् न्यग्बभूवुः । किमेनं काचिन्मुग्धा सुरसुन्दरीन्द्रनीलमणिङ्काचधियाऽजहात् । किमथवा शोणपाषाणशङ्कया माणिक्य मौज्झत् । प्रियतमे ! तव पुत्रो नास्ति, अतस्त्वमेतमर्भकं महाद्भुतं गृहाण, तदनु सापि सहर्षं तं बालं समादाय स्वं पुत्रवतीममन्यत । पश्चात्सतनयां तां प्रेयसीं तत्रैव लतावेश्मनि स्थापयामास स मालाकारः । ततस्तदैवाऽप्रसूताया अपि तस्यास्तदनुभावतः स्तन्यमजायत । यद्वा- पुण्यशालिनां पुंसां क्षेत्रेऽपि खलं जायते । अथ मालाकारः स्वकीयसमस्तज्ञातिवर्गे पुत्रजन्मव्याख्याय तदीयम - हिमानं मलयोद्यानसम्पदा व्याचीकरञ्च । महता महेन षष्टिजागरणादींश्च विधाय तदीयमनुगतामघट इति नामधेयमकार्षीत् । ततस्तेन निजावासे समानीतः सोऽर्भकस्ताभ्यां महीयसा मुदापालितो लालितश्च त्रिवर्षीयप्रायोऽभूत् । अथैकदा कृती स मालिकः पत्न्या उपरोधेन राज्ञः प्रीतिकृते काञ्चनात्यद्भुतां चेतोहरीं पुष्पमालां विरचितवान् । अत्युत्तमां तां च स्वप्रेयसीं तदैव मुदाऽदीदृशच्च । यतोऽमी मालिकनर्तकरजकप्रमुखाः कामिनीप्रधाना एव प्रायशो जायन्ते । अथ nternational For Personal & Private Use Only चरित्रम् । ॥ ६० ॥ Page #157 -------------------------------------------------------------------------- ________________ 165 | प्रमोदभरं विभ्रती मालिनी तद्दाम पुष्पकरण्डके निधाय दास्यै समर्प्य स्वयञ्चनिजकठ्यां सुतं । || समारोप्य नृपावासमागतवती । राजसभामागता ससुता सा मालिनी राजानं नमस्कृत्य दक्षिण-d हस्तेन तां स्रजं दधाना देव ! गृह्यतामिदं दामेति राजानं स्पष्टमाचष्ट सा, तत्रावसरे तां माला महीशो मनस्तुरङ्गस्य सहसा नियन्त्रणो विधिरचितां वल्गामिव कामचापस्य ज्यामिव प्रमोदभरस्याऽश्रुलहरीमिव ऋतुराजस्य श्रिया दोलामिव, मृग्या बन्धनाय जालमिवचिरमपश्यत् । कस्य कीदृशी दृष्टिरेतस्यां मालायामर्भकेचामुष्मिन्निति बुभुत्सोर्महीभर्तुस्तदानीं चपलतरादृष्टिः समस्तसभ्यजनोपरिपपात, यतः-राज्ञा भोगिनेवैकदृष्टिना नैव भूयते । पश्यत्सु च सर्वेषु तां मालां तस्य पुरोधसे । दृगमनागपि मालोपरिनापतत् । किञ्च तत्र दामनि भृङ्गीष्विव समेषां सभ्यानां दृष्टिषु निविष्टास्वपि गाढसंमर्दभीतेव पुरोहितस्य दृष्टि ऽगात् । किन्तु तत्राऽर्भकोपर्येव नितरां पपात । तदालोकमानो राजा मनसि दध्यौ, अहो, सर्वे जना एतां मनोरमां सजमेव सहर्ष पश्यन्ति, एष पुनरमुं शिशुमेव ग्रैवेयकविभूषितं गाढं परिपश्यति निरपत्यवत् , कथमिति । तत्रावसरे स राजा IN तां मालामादाय सहर्ष पर्यधत्त, अदीदपञ्च तस्यै मालिन्यै षोडशोत्तरसहस्रदीनारान् अतिप्रीत्या । Sain Educatio n al For Personal Private Use Only Hinelibrary.org Page #158 -------------------------------------------------------------------------- ________________ बिद्धटकुमार ६१॥ 166 विसृष्टायां सभायां पुरोहितं जगौ-पुरोहित ! सत्यं कथय । यत्ते दृष्टिर्मालां विहाय मालिनीतनये चरित्र भूयसी रतिं कथं कृतवतीति । सोऽजल्पत्-राजन् ! स भूपालो भविष्यति, अतस्तदीयसेवाहेवाकिनी मदीयादृष्टिरपरं सर्वं विसस्मार, केवलं तमेव सस्मार। इति नैमित्तिकवचः श्रवणान्मुखवातादादर्श इव विच्छायतां प्रपन्नो महीजानि स्तत्कालमेव चिन्तासन्तापभागजायत । अहो ! यस्य दासीतनयस्य पुरोहितोऽयं भाविराज्यमचीकथरपुरा, सोऽभकस्तु मया प्रा. गेव मारितः, तदसौ कश्चिदपरः किमुत्थितः, स एव वा, सचेत् कथमनया तयोर्मातापित्रोः सकाशादलम्भिः, इत्थमनेकशङ्काकुलीभूतो नरपतिस्तदैव तौ पुरुषो रहस्याकार्य पप्रच्छ । भोः! तदा हन्तुमादिष्टौ युवां तमर्भकमवधिष्टाम् , अत्यजतां वा, अथवा कस्याश्चिद्योषितः करुणया समर्पितः किम् , एतत्सत्यमेव ब्रूताम् , यतो नेतार एकमपराधं चिरसेविनां क्षमन्ते, सेवन्ते च ते सकृदागसः पुरेव नेतारम् , इति मनागपि भीतिर्न कार्या, अहमस्मिन्नागसि वामभयं ददामि। इत्थं राज्ञो वचनं श्रुत्वा परस्परमुखावलोकनं विधाय विश्वस्तौ तौ यथार्थमेव तत्कथितवन्तौ। महाराज ! भवदादेशाद्वधाय गृहीतोऽपि सोऽर्भकः कार्यान्तरे निघृणाभ्यामप्यावाभ्यां नाऽघानि, किन्तु तदानीमुद्भूत-1॥६१ ॥ For Personal Private Use Only wow.dainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ 167 प्रभूत कारुण्यात् पुर्या एतस्या दक्षिणभागे विशीर्णवृक्षस्याऽऽरामस्यान्तः कस्यचिदेकस्य जीर्णतरस्य कूपस्य तटे जीवन्नेवाऽमोचि । परमेतत्सत्यं जानातु श्रीमान्, यत्तदैव सोर्भकः श्वापदादिसंयोगात्, कूपान्तः पतनेन वा कृतान्तस्याऽभूद्वैकालिकाऽशनमिति । तदाकर्ण्य क्षितिपतिस्ता पुमांसौ विससर्ज यदेतत्कृत्यमकरुणजन साध्यम् । तौ तु सकरुणौ । पुनस्तेनेदं तर्कितम्, देताभ्यामाराममध्ये समुज्झितः सोऽर्भको मालाकारेणाऽऽतोऽपरः कोपीति निश्चिकाय च निजमनस्येवं स वसुधाधवः यत्खलूभयायत्तम्भवति कार्यं तदवश्यं विनश्यत्येव दुर्मन्त्रिराजवत् । इत्यवधार्य क्षोणीपतिः कमप्येकं पत्तिमाकार्य समादिष्टवानिति, भोः ! ममाऽय सभानिषहास्य या मालिनी पुष्पमालामर्पितवती, तस्याः सुतं निहत्य तदीयं ग्रैवेयकमानयतु भवान् । तत्पश्चान्नृपादिष्टः सपत्तिस्तदैव निर्घृणस्तुरगमारुह्य सायं तस्य मालिकस्य गृहाभ्याशमा गात् । तत्रागत्य च यदकारितेन तद्वर्ण्यते-देवराणकसामन्त ! अयि माण्डलिककुमारक ! हे तात ! भो मज्जीवित ! इत्यादि मनोल्लासनपुरस्सरं वलिं तत्र करवाणि, अवतारणे च ते कोटिदीपोत्सवान् विधाय त्वज्जीवदुःखमादाय For Personal & Private Use Only inelibrary.org Page #160 -------------------------------------------------------------------------- ________________ चरित्रम्। बद्धकुमार ६२॥ 168 व्रजामि चाऽहम् । इत्थं हर्षातिशयेन वातूला सा मालिनी, कदाचित्करतालिका दापयन्ती, कदाचिद्गायन्ती, कदाचिद्धासयन्ती, क्षणादात्मनः सुतं स्वेच्छया शिररयारोपयन्ती, क्षणं वक्षसि, क्षणं कटितटे, क्षणात्करकमलतले कुर्वती, तत्रागात्। अत्रावसरे कण्ठाभरणभूषितं तमर्भकं तस्याः करादाच्छिद्य सहसैव स राजपरुष आमिषं गृध्र इव गगने समड्डीनवान । अथाकाशे तमादाय काम्य तस्तस्य पुंसः शैशवात्सोऽर्भकः पौनःपुन्येन तात तातेति जल्पन कूच पितुरिवाऽकृषत् । सोऽप्यमुना बालकर्मणा नितराममोमोदीत् । यतः शिशूनां केलयः केषां प्रमोदाय नोजायन्ते, अपि तु सर्वस्यापीति भावः। तदा मनसि दध्यौ च सः । यदयं बालो मामहितमपि पुनः पुनस्तात तातेति कर्णाऽमृतगिरा पितर ममंस्त। अस्मात्कारणादमुष्मै द्रुह्यतो निर्दयस्य दुरात्मनो मम हृदयं किमिति न स्फुटिष्यति? कथं वाऽमुष्य हनने पाणिः प्रभवे जात्वपि। यत्कृत्वा जनः प्रेत्य महीयसीं भूयसीञ्च | नारकी यातनामसह्यां चिरं सहते । यच्च हिंसकोऽपि नोत्सहते कर्तुं तत्कथं कुर्याम् । धिग् | राजसेवां या हि दुर्निवारव्यसनद्रुमवाटिकीभूय लोकान्महानरके पातयतितमाम् । किञ्च-यत्राऽनावभक्ष्यमिवाऽकृत्यं किमपि नास्ति । अथवा ततोऽधिका पापीयसी कापि राक्षसी नास्त्येव ॥ ६२॥ For Personal Private Use Only Intainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ 169 लोके । तदुक्तम् यदश्यतामुपगता जनता किलात्र, घोरातिघोरमतिकिल्विषकारिकर्म । चर्कति मृत्युमधिगत्य हि बोभुजीति, तन्नेहतां सुमतिमानिह राजसेवाम् ॥१॥ व्याख्या-यस्या राजसेवाया वश्यतां तदधीनतामुपगता-प्राप्ता जनता-जनसमूहः । अत्र संसारे घोराऽतिघोरं-क्रूरतरं किल्विषकारि-पापकारि कर्म चर्कर्ति-अतिशयेन पौनः पुन्येन | करोति । पुनः--मृत्युमधिगत्य-मृत्वेत्यर्थः तत्फलं यमीययातनादिकं बोभुजीति पुनः पुनर्भुङ्क्ते, | तस्माद्धेतोः सुमतिमान् पुमान् इह लोके राजसेवां नेहताम् न कामयताम् । ___हन्ताऽनेन घोरकर्मणा परत्र काङ्गतिं व्रजिष्यति नरपतिः । यदेनं क्षीरकण्ठमतिमुग्धधियं | शिशुं जिघांसति पापीयानसौ लोभपिशाचग्रस्तः क्षितिपतिः। किमेष तदीयमवरोधं विदुद्राव, | | किमु कोषं वा मुमोष कुल्यो वा राज्यमादास्यमानः, शत्रुसुतो वा, यो वा सोऽस्तुतमाम्। नूनमेतस्य वसुधाधिपस्य ग्रैवेयकजिघृक्षयैव निनाशयिषा प्रादुरासीत् । अतोऽसौ पुण्यभारप्राप्यः शिशुजीवन्नेव मोक्तव्यः कुत्रापि, कण्ठाभरणमेव समादाय राज्ञे ढौकनीयमित्यवधार्य तदीयं ग्रैवेयं गृहीत्वा स JainEducation For Personal Private Use Only S pelibrary.org Page #162 -------------------------------------------------------------------------- ________________ 170 चरित्रम् । पबद्ध- पुमान् बहिर्देवकुले तमर्भकमजहात् । तदनु नृपान्तिकं गत्वा तद्नेवेयकमर्पयामास । नृपोऽपि टिकुमार तदालोकमानो निष्कण्टोऽहम भूवमिति मन्यमानोऽमोमोदीत्तताम् । इतश्च तत्र देवकुले दिदृक्षया ६३॥ गगनादवतणिकञ्चनलेपयक्षं पुण्ययोगादघटः पर्यपश्यत्। स च निजतातमिव तं जानानःप्रमोदभरेण समालिङ्ग यस्तदीयमुत्सङ्गमारुह्य तस्योच्चैस्तमङ्क्र्चमस्पृशत् । तत्रावसरे तात तातेति जल्पन्तं क्रीडन्तं | | निजाऽङ्कस्थममुं डिम्भं विलोकमानो नितराममोदत स यक्षोऽपि। असौ मधुरया गिरामां पिनीचके ऽतो मयाप्यसौ ध्रुवं पुत्रवत्पाल्यः । तदा तस्य शिशोः क्रीडाभिर्निशायास्त्रियामान् क्षणमिव स | व्यतीयाय । पश्चात्तत्रैवासन्नवनेऽपुत्रमश्वक्रयिकं देवधरनामधेयं वासितमवधिज्ञानेन विदित्वा स | यक्षराट् तत्रागत्य शयनीये सुखसुप्तं तमुदलीलपत्-भव्य ! निशावसानेऽधुना किं शेषे, IN इति मधुरया गिरा । सोऽपि तद्वाक्यमाकलय्य प्रबुद्धो भवन् मनसि कौतुकं विदधानः शयनादधोऽवतीर्य सुविस्मितस्तमूचिवान्-खामिन् ! कोऽसि, किमादिशसि च, इत्थं तेन भणितो यक्षेश्वरोऽवादीत् । अहं यक्षेशोऽस्मि, वने च मदीये प्रत्यहं गमागमं कुर्वाणो भवानत्र निवसति, Hal कदापि किञ्चिदपि नोपद्रवयसे च, तेनाद्य त्वयि प्रसन्नीभूय तवान्तिकमागतोऽस्मि । किमपि ॥६३ ॥ Sain Educ a tional For Personal & Private Use Only ainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ १८ रत्नादिकमभीष्टश्चेद्वरय, तदहं तुभ्यं दित्सामि, इत्थं यक्षराजेन प्रोक्तः स उवाच । भगवन् ! | भवदनुकम्पनेन सर्वमेतत्पर्याप्तमस्ति, केवलं पुत्रविरह एव नौ मनो नितरां विदुनोति, यदि प्रसन्नोऽसि तर्हि कुलश्रीवल्लीमण्डपं पुत्रं देहि । यतः-तं विना मनुष्यजन्माप्यवकेशिवद् विफलं | प्रतिभाति । यदाह--अपुत्रस्य गृहं शून्यमित्यादि तच्छ्रुत्वा यक्षेशोऽजल्पत् । वत्स ! विषादं मागाः । कल्पवृक्षवन्मयि कामदे सुप्रसन्ने सति तव दुरापमपि सुलभमेवास्ति । प्रभाते च मन्दिरमागत्य मदङ्कस्थितोऽघटाभिधानो मत्पुत्रो गृहीतव्यस्त्वया, स हि निखिलराजलक्षणलक्षितो महाप्रभावशाली वसुधापतिर्भवितेति निगद्य स यक्षेशोऽदृश्यतामैत्। तत्रावसरे स मनस्येवमचिन्तयत्अहो किमयं स्वप्नः, चित्तभ्रमो वा, काचिन्माया वा, यद्भावि, तद्भवत्येव जात्वपि नैव व्यत्येति, इति साश्चर्यः स प्रगे तस्य यक्षराजस्य मन्दिरमागात् । श्रथ यावदेषोऽन्तः प्रविशति तावत्कणच्चग्गाघर्घरोघटस्ताततातेति भाषमाणस्तदन्तिकमयासीत । देवधरोऽपि वत्स! एह्य मुदाऽऽलिलिङ्ग। तदनु यक्षपादौ नमस्कृत्य तमर्भकं निजसदनमनैषीत्। सर्वं नैशिकयक्षागमनादिवृत्तान्तं कथयित्वा निजभार्यायै तमद्भुतं बालमर्पयत् । सापि निर्धनो निधिमिव तमर्भकं गृहीत्वा Sain Educa t ional For Personal & Private Use Only inelibrary.org Page #164 -------------------------------------------------------------------------- ________________ प्रबद्धकुमार ६४॥ जहर्षतमाम् । मत्पुत्रोऽयमिति कश्चिदपि माकलहायिष्टेति लोकसमक्षं निगदन् देवधरस्तदैव द्राक् चरित्रम् । प्रयाणमकार्षीत् । अथ प्राक्तनाऽधिकतरसंस्कारवशाच्छैशव एव सर्वासु विद्यासु कलासु चाऽशेषासु ! नैपुण्यमासादयन् क्रमेण कलाकेलिकमनीयतमः सोऽघटः सौन्दर्यसारसदनं यौवनमलाप्सीत् । इतश्च प्रयातो देवधरोऽपि क्रमेणाऽङ्ग-वङ्ग कलिङ्गतिलङ्गमगधादिनानादेशेषु पुनः पुनर्भ्रान्त्वा सकलनगरमौलिमाणिक्यदामभूतायां विशालाऽभिधायां नगर्यां श्रीविशालायां पुनराययौ। तदैव च क्षोणीपतिं प्रणन्तुं सोऽचलत् । तस्मिन्नवसरे राजाऽवलोकनचिकीरघटोऽपि पित्रा सत्रा चचाल । अथ पुत्रेण सह निर्गतो देवधरः पदे पदे समुल्लसदनेकविधक्रीडानाटकाऽवलोकनजान् कौतुकान् । पुत्रं दर्शयन् नृपद्वारमागच्छत् । तत्र गत्वा प्रतिहारिणमाख्यत्-भोः ! राज्ञो मदागमनं निवेदय । प्रतिहारी तदैव सभामेत्य राजानं व्यजिज्ञपत्-खामिन् ! कश्चिदश्वव्यापारी द्वारि तिष्ठति राजदर्शनार्थी । राजाह-सत्वरमिहानय । ततस्तेन सह पुत्रादिपरिवारयुतः स राजसभामविक्षत्। ततः सकृती श्रेष्ठतरौ द्वावश्वौ नृपाय प्राभृतीकृत्य विधिवन्नमस्कृत्य यथास्थानमुपाविशत् । तदानीं पुनरपि पुरोधसो दृष्टिः पुरेव सुभकामिनीव नवयौवनमघटं शिश्लेष । तदालोकमानः शङ्कमानश्च ।।६४॥ Janta For Personal & Private Use Only Jetainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ 13 मनसि राजा तदैव तं देवधरं प्रसन्नमनाः सत्कृतवान् । सोऽपि नृपादिष्टमावासं मानसं मरालइव | स्रागगच्छत् । तस्मिन् गतेऽतिविस्मितो ज्ञानगर्भो राघवं वशिष्ठ इव तथ्यां वाचमुवाच-महाराज ! | योऽसौ नवयौवनः पुमान् देवधरं दक्षिणेन सदसि श्रीमताऽदर्शि, सोऽस्ते रिव त्वदीये स्थाने | भविता, अत्रार्थे मनागपि संशयं माकार्षीः, इति ज्ञानगोंदितं श्रुत्वा मन्दराचलेन प्रमथितः | | सरिताम्पतिरिव क्ष्मापतेर्मनश्चुक्षोभ । व्याहृतञ्च तेन राज्ञा-अहो ! मयि स्वतन्त्रे सपुत्रे च राजनि। जीवति सत्येव कथङ्कारमेतस्यां श्रीविशालायां नगयाँ राजान्तरो भवितेति । अत्याश्चर्यमेतत् ।। यत्सोऽपि कश्चिद्राजवंशीयो न, किन्तु दास्याः पुत्रः । पुनश्चिन्तयति भूपः, किमेष स एव । | दासेरः किमपरो वा कश्चित् ? नूनं तेनापि कण्ठाभरणमादाय कुत्रापि सोऽर्भको मुमुचे ।। अहो ! भवान्तरे कीदृशं कार्यमनेन सुकृतं, बलवद्वास्य दैवं येन पुनः पुनर्हन्यमानोऽपि नैव हिंस्यते, सम्भाव्यते सएव वालः। नेतरः। कथमितरथाऽस्य नैमित्तिकस्य ज्ञानगर्भस्याऽऽस्यतः सएवाऽक्षर- | विन्यासः, सैव विस्मयपत्रिका च प्रादुर्भवतितमाम् । इत्थं चेतसि बहुधा चिन्त्यमानो राजाऽतिगूढं | तस्य हननोपायमन्यदेव पुनर्निरचिनोत् । तथाहि-नायमुपायान्तरेण कथमपि वध्यो भवितुमर्हति । For Personal Private Use Only brary.org Page #166 -------------------------------------------------------------------------- ________________ यिबद्धइटकुमार 14 ६५॥ 14 अत एष देशादिदानेन वश्यो विश्वस्तश्च विधाय पश्चादनायासेनैव केनापि व्याजेन हन्तव्यः || चरित्रम्। इति । अथ सायमायातं देवधरं सपरिच्छदं मुहुर्मुहुरघटं गाढदृशा पश्यन् राजाऽजल्पत्-भो महा- ! भाग ! अयङ्कोऽस्ति । यस्त्वां निकषा महाबाहुर्विक्रमेण सौन्दर्येण चाऽपरश्चक्रपाणिरिव दरीदृश्यते। पश्चात्सोऽप्यभाषिष्ट-स्वामिन् ! एनमघटनामानं मामकं सुतं जानीहि । अमुष्य सर्वशास्त्रेषु कलासु | च सर्वासु नैपुण्यमस्ति, अस्ति चायमशेषशस्त्राऽस्त्रयोधनपटीयान् । इत्थं तस्योदारगुणग्रामं शृण्वन्नवनीजानिर्भयोद्भुतैरपि रोमाञ्चैरानन्दित इव भवन्नित्यवोचत । यद्येवमस्ति, तर्हि ते सुतो मामवलगतु तस्मै देशमेकं वितरामि । सोऽवक्-देव ! मम कुले केनापि राजसेवा नाऽकारि, सर्वे । पूर्वजा अश्वव्यापारमेव चक्रिवांसः । अस्मिन्नवसरे पैत्रिकं वचो निशम्याऽघटः पितरमित्याचष्टतात ! स्वयमायान्ती स्वयम्बरे यं लक्ष्मीः कथं त्यज्यते । कौलिकीतु शकचक्रिणामपि सा नैव 13 | श्रूयते । तस्माद्राज्ञः शासनं सहर्षमेव प्रमाणीक्रियताम् । इत्थं तयोर्वाचमाकर्ण्य राजा देवधरमित्थं | बभाण-देवधर ! मामैषीः । त्वन्तु कुलक्रमादागतमश्वमेव व्यप्रियस्व । केवलं तावकः पुत्र एव | मया दत्तं देशमेकमादाय साम्राज्यं भुक्ताम् । पार्श्वेचाऽमुष्य मामकीना एव पुमांसः स्थास्यन्ति । ॥६५॥ घ For Personal Private Use Only lanelibrary.org Page #167 -------------------------------------------------------------------------- ________________ 15 पत्तयोऽपि सर्वे मामका एव सेविष्यन्ते चैनं सदा । तन्तु केवलं तद्देशशासितारमेव विदधे । इत्थमाख्याय तस्मा अघटाय राजा मथुराराज्यमदात् । विश्वास्य मैनिको मीनेभ्यो मांसमिव । तदैव । च पुरोधा नृपश्च शकुनग्रन्थिञ्जग्रन्थ । निश्चिक्ये च महीपतिर्मनस्येवं नूनमनेन कर्मणाऽसौ मे मुष्टिमध्ये पतितोऽभूत् । यद्यपीदान मेनं हन्तुमर्हामि, तथापि साम्प्रतममुष्यं हनने लोके भूयान्महांश्च मेऽपवादो भविष्यति । इतीदानीमसौ न हन्तव्यः । तत्र गत्वा देशं शास्तु । पश्चादुपायेन हनने सर्वमीहितं सेत्स्यतितमाम् । अथाऽघटोऽपि स्वांशं गोत्रज इव प्राप्तसाम्राज़्यो द्वितीयेऽह्नि सुधाकिरा गिरा राज्ञा भणितः-भोः अघट! तत्र याहि, देशं शाधि, नोचेद्दधिस्थली काकाइवाऽध्यक्ष विना वैरिणः प्रजा लुष्टिष्यन्तितराम् । तदनु कृताञ्जलिरघटोऽपि नृपालादेशमुररीकृत्वा सहर्ष तदैव राजकीयपत्यादिपरिवारयुतो मथुराम्प्रत्यचलत । तदागमनमाकाऽऽनन्दमदुरैः पौरैः सा | मथुरानगरी देवपुरीव द्रागुत्पताकाऽकारि। तस्यां पुर्यां प्रविशतः समग्रबलशालिनः श्रीमतोऽघटस्य द्वारावत्यां हरेरिख काचिदनिर्वचनीया लक्ष्मीः प्रादुरासीत् । तदानीं ज्यायसां पौराणाङ्गणश्चिरञ्जीव, चिरं नन्द, चिरं राज्यमकण्टकमेतद्भुव चिरमाश्रितलोकानां मनोरथांश्च पूरय, इत्याशीभिरेनं प्रेदि Sain Educati o nal For Personal Private Use Only Snelibrary.org Page #168 -------------------------------------------------------------------------- ________________ 178 चरित्रम् । घबद्ध- धत्। तथा पुरपुरन्ध्रीभिरमरीभिरिव भासमानाभिराशिषा भूयस्याऽभिनन्दितोऽघटाभिधो माण्डलिको | टकुमार | महोत्तुङ्ग राजसौधं प्राविशत् । अथ दानमानवचनादिना लोकान् यथायोग्यमभिरञ्जयन्, राज्यश्च ६६॥ नयेन कुर्वन् अन्येद्युर्निशायामेवमशोचत्-या लक्ष्मीः सुमित्रैर्न भुज्यते, याञ्चावलोक्य द्वेष्टारो वक्षांसि नो ताडयन्ति, तयाऽलम् । नैव श्लाघ्यते वा लोके सा लक्ष्मी रेधमानापीति । अथ जाते | च प्रभाते विज्ञप्तिं विलिख्य तातपादान्तिके प्रेष्य स्वदेश्यानां सहचारिणां सहस्रं स्राग् आनीनयत् || सः। ततः समागतेषु स्वीयभटेषु तत्क्षणादेव राजपक्षीयांस्तान् सर्वानुत्थाप्य तत्स्थाने सर्वत्राऽऽत्मीयान् पुरुषानेव न्ययूयुजत् । किञ्च भो भोः ! यूयमिदानीमेव नृपान्तिकं व्रजत, यस्माल्लोके समुपागते देवदत्ते नहि यज्ञदत्तः केनापि गीयते इति तानजल्पीच्च । तेऽपि तदैव राज्ञः समीपमागत्य सर्वमेतद्व्यजिज्ञपन्-स्वामिन् ! तेनाऽघटेन दौवारिकोऽप्यात्मीय एव पुमान् स्थापितः 11 वयञ्च सर्वे विसृष्टाः। तच्छ्रुत्वा फालभ्रष्टो मृगारातिरिव चेखिद्यमानः पृथ्वीपतिः स्वान्ते किलैवमचिचिन्तत् । अहो, दृक्तु प्रसारितैवाऽतिष्टत्, किन्तु वायुनाऽमुना कज्जलमक्षेपि, हन्त, दुर्दैवा- 1 लोकितस्य मम मनोरथा रङ्कस्येव मनस्येवोदपद्यन्त, विलिलियरे च हृद्येव, असहायोऽप्यसौ पुराऽपि ॥ ६६ ।। Sain Edu c ational For Personal & Private Use Only Pur.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ | केसरीव दुर्निग्रह आसीत् , अधुना तु शक्रेणापि निग्रहीतुमशक्य एव प्रतीयते । हा हा कीदृशं मे | दुर्दैवं प्रादुरासीत् । यद्यद्विदधे, तत्सर्वं वैफल्यमेव नयते । ततो भूपतिः कुटिलमतिस्तान् विसृज्य । गुप्तलेखेन तमघटमित्यादिशत्-भोः सखे ! पत्रमालोक्य द्रागत्रागत्य मम मिलित्वा जलादिकं पिबेः, | यतो ह्यसाधारणं त्वन्मात्रसाध्यं कार्यमेकमुफ्तस्थे । अघटोऽपि तल्लेखमधिगत्य तरक्षणं करभीमा-1 रुह्य सह पञ्चषैः पत्तिभिरज्ञातचर्यया निश्युपराजमाययौ । तत्रागतमघटमुदीक्ष्य राजापि तदानीं । कृत्रिमं संभ्रमं दर्शयन् सखे ! त्वादृशो भक्तो हितैषी च मम कोप्यन्यो नैवास्ति, एतत्सत्यमवेहि । इत्थं बाह्यमधुरालापेनाऽपृणोच्च । तदनु नृपोऽवक्-अयि-साहसिन् ! सम्प्रति समुपस्थिते सङ्गरे | प्रेषितः कुमारः शिविरे वर्तते, तत्पार्श्वे कोप्यन्यः सांयुगीनः पुमानधुना नास्ति, अतस्त्वामिदानीमनवसरेप्यस्मार्षम् । त्वमधनैव तत्र याहि, मार्गे क्वापि विलम्बमाकार्षीः । त्वयि तत्र वर्तमाने सति सर्वेषां महीयानुत्साहो भविष्यतितमाम्। तदैव स्वहस्तेन लिखित्वा पत्रमघटाय नरेश्वरः समापर्यत् | । राज्ञः कौटिल्यमजानानः सरलाशयोऽघटकमारो नपादेशमादाय तदैवाऽचलत। अथाघटकमारो दिनान्ते कटकासन्ने नन्दनस्यानुजमिव मनोहरं शावलद्रुमाणां वनमाप । तत्रैव पथश्रान्तः स Sain Educ a tional For Personal & Private Use Only jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ 118 गयबद्ध-|| पल्लवशय्यायां सुखेन सुष्वाप, सिषेवे चैनं तिलो मन्दसमीरणः स्वैरम् । किञ्च तदानीमेवेतस्ततः । चरित्रम् । घटकुमार | पर्यटन् स यक्षाधिपतिरपि तदीयसुकृतप्रचयैराहूत इव तत्रागात् । तथावस्थमघटकुमारमालोक्य | १६७॥ सकोपं तत्पुरस्तादित्यारव्यत्--हा हा ! केन पापीयसा मदीय एष सूनुरिमां पथिकोचितां दशां प्रापितः। तदानीमवधिज्ञानेन तत्सर्वं राजेङ्गितं विदित्वा हा हा दुरात्मना राज्ञा सुघटितेनेष हन्तुमेव || प्रहितोऽस्ति । तदनु तत्र राजनि साभ्यसूयो यक्षेश्वरस्तत्क्षणादयःशल्यमयस्कान्तरत्नवद्राजादशं | तत्पादाकृष्य वाचितवान् । तत्रैतदासीत् । एतस्याऽधौतपादस्य तालपुटं गरलं देयमित्यक्षरश्रेणी मालोक्य तत्कालमेव ताममार्जयत् । स पुनरवधिज्ञानेन कटकस्थां राजकुमारी कुमारस्य सहोदरी मवेदीत् । अनेनाऽऽयासमात्रेण सा राजकुमारी परिणाययितव्यति विलिख्य तं राजलेखं पूर्ववत् । स्थापयित्वा यातवान् सः । तदनु प्रातरुत्थायाऽघटोऽपि शिविरमागत्य संमुखीनाय तस्मै कुमाराय | नृपादेशमार्पयत् । तदाकुमारोऽपि तत्पत्रं पठित्वा मूावतंसतां कृत्वा राजानमिव सिंहासने कुमारमघटं नीत्वा साष्टाङ्गमनमत् । ततस्तावुभावपि कुमारौ मिथः परिष्वज्य समुचितासने समुपाविशताम् । कुमारो भूयोऽप्यघटानीतं राजलेखमुन्मुद्य तदर्थमवधार्य दैवज्ञमाकार्य सम्भ्रमस्मेरलोचनः प्रश्रया- ॥६७ ।। sain Educ a tional For Personal & Private Use Only mainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ 118 मासिवान्-भो दैवज्ञ !, किमस्ति ? अमुनाऽघटकुमारेण सत्रा सुन्दर्या अमुष्या मेलापको भविष्यति साधीयान् राजकुमार्या इति विचार्यताम् , निगद्यतां चाशु सर्वमिति । दैवज्ञः स्माऽऽह-आयुष्मन् ! अनयोर्हरगौर्योरिवाऽतिश्रेयान्मेलापकः प्रतीयते, विवाहलग्नोऽयैव सन्ध्यासमये तद्वदेवास्ति शुभंयुः। तदाकर्ण्य कुमारो मनस्यशोचत्-मन्येऽस्मादेव कारणादेष स्वयमेवात्र जवात्प्रहितस्तातेन, सा मे स्वसा तु तत्र नाऽऽहतेति । तदनु भूपसूनुरघटकुमारस्य जन्यावासमिवाद्भुतं पटमन्दिरं निवासार्थमार्पिपत् ।म्वयं विवाहाऽशेषसामग्रीसङ्घटनायोद्यतो राजकुमारःक्षणाद् ब्रह्माण्डस्य सोदरमिव पश्यतां लोकानां चेतोहरमतिविशालं महामण्डपं प्राचीकरत् । अथ सायन्तने शुभवेलायां नृपनन्दनो महता. महेन त्रिजगजनजनितोत्साहः स्वसारमघटकुमारेण पर्यणीनयत् । अथ द्वितीयेऽहनि कुमारप्रेषितः कश्चिद्वर्धापकस्तत्र गत्वा राजानं व्यजिज्ञपत्-राजन् ! दिष्ट्या वर्धापयामि, तत्र भवता यथान्ययोजि, तथैव राजकुमारेण समपादि महीयसाऽभूतपूर्वेणमहोत्सवेन । तदानीं तयोर्वधूवरयोः काचिदवाच्यैव शोभा बोभवाभास, यां कोटिजिह्वोपि निगदितुं नो क्षमते। किन्तु सर्वे पुरावेदिनो जना हस्तावुत्थाप्यैवमूचिरे-यदीदृशी लक्ष्मीर्लक्ष्मीकेशवयोरिवतरयोः कयोश्चिदपि बधूकाले नैवाऽजनीति । अमुया Sain Educ tion For Personal Private Use Only linelibrary.org Page #172 -------------------------------------------------------------------------- ________________ बिद्ध टकुमार ६८ ॥ 180 वार्तया तत्कालोद्भूताऽन्तर्विषादविह्वलीकृतो नरपतिरुत्सवं वर्णयन्निव मूर्धानमचकम्पत किञ्च-रे दुर्दैव! मयि मधुना विपरीतं फलं वितर वितरेति मुहुः परिगदन् मनसा विधिं धिक्कुर्वन् मन विस्मयाधिक्यं दधदपि राजा बहिः रञ्जितइवाऽभूत्तमां निजसुतोद्वाहश्रवणात् । हन्त ! कुमारेण विपरीतमेव सर्वमकारि, अहमन्यदेवालिखम्, तत्तु नैवाऽकारि । अत्याश्चर्यमेतत् । यन्मम राज्ञ आदेशमवगणयता विनयवतापि कुमारेण ततो विपरीतं व्यधायि । अथवा मयैव विपर्यस्तधिया तथैवाऽऽलेखि तदा । अपि च- निजप्राज्यराज्य विलोपशङ्काव्याकुलतया समुद्गच्छदश्रुपूर्णलोचनयुगलोऽपि महीपतिस्तदानीं सदसि जनान् बहिरानन्दमेवाऽदीदृशत् सञ्जाता सीमानन्दव्याजेन । इत्थं बहिरुच्चैस्तमं प्रहर्षं दर्शयन्नपि स्वान्ते दहनज्वालोपमया शुचा तातप्यमानः क्षितीशः सह कुमारेण वधूवरौ समाह्वातुं लेखं प्रैषीत् तत्र । अथ राजलेखमधिकृत्य तदर्थमवगत्य च कुमारोपि तदैव वधूवराभ्यां सत्रा चतुरङ्गन्या चम्बा शोभितस्ततोऽचलत् । अथ तदागमनसोत्सुकैरशेषैः पौरजनैरनुरागातिरेकान्नृपादेशात्प्रागेव नगर्याः शोभा महती व्यधीयत । अथ पथि पथि रागान्निर्निमेषेचणैः पौरैर्नरनारीगणैः सादरं निपीयमानः श्रीमानघटकुमारश्चक्रिवन्महोत्सवे जायमानेऽन्तःपुरीं प्रावि For Personal & Private Use Only emational चरित्रम् । 115 11 jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ शत् । तस्मिन् काले सर्वे राजन्याः सामन्ताः सचिवादयो राजजामातरमघटकुमारं ढौकितैरुपायनभरैरधिकं प्रौढं विदधिरे । इत्थं तदुपायनैरतिप्रौढिं गच्छति सत्यघटकुमारे पञ्चषाहेषु व्यतीतेषु च स महीपतिस्तद्वधाय निशायामेकस्यामित्यचिन्तत्-इह लोके कस्यचिदपि पुत्र्या वंशोन्नतिर्न जायते, किन्तु पुमपत्येनैव जायते । अत एनं जामातरं केनाप्युपायेन हत्वाऽकण्टकीभूतमिदं राज्यं सूनवे मया देयम् । इत्यवधार्य कमपि घातुकं सर्वमासूच्य कृत्रिमसंभ्रमो नरेशस्तमित्थं दूतमुखादचिख्यपत्-वत्स ! अस्मदुपयाचितपूर्तयेऽद्य राबावेकाकिना त्वया नगराबहिः स्थितामस्मद्गोत्रदेवीमभ्यचितुं तत्रागन्तव्यम् । एतन्नृपादेशमासाद्य सर्वां बलिपूजनादिसामग्रीमादाय | करे चैकस्मिन् पटलिकां वामे च करे दधानः सोऽघटस्तां देवीमर्चितुमेकाक्येव निशि निजसदना| दचालीत् । तदा सौधगवाक्षस्थः क्षितिपतेः सूनुर्यान्तमघटमुदीक्ष्य दध्यौ-क एष योगीन्द्रो विद्या साधयितुमिव निशि याति, अथामुं समीपमागतं भगिनीपतिमवगत्य तन्मूर्धनि राजकुमारः ।। स्मेरमुखः पूगीफलेन जघान, बभाष च-अये ! महाधूर्त इव लक्ष्यसे । यतः-इयत्यामपि वेलायां रजन्यां ब्रजसि । क्व यासि ? किञ्च चिकीर्षसि, मामपि तदावेदय, इत्यं राजकुमारेण in Educa For Personal & Private Use Only helibrary.org Page #174 -------------------------------------------------------------------------- ________________ बद्ध चरित्रम्। टकुमार ६९ 182 सादरं सानुरोधं भणितोऽघटस्तमाह-अयि शालक ! अहमेतत्किमपि नैव वेद्मि, किन्तु राजादेशाद् ग्रामावहिर्भवद्गोत्राधिष्ठात्री देवी जागर्ति, तदर्चाये प्रस्थितोऽस्मीदानीमनवसरेऽपि । तदाकर्ण्य कुमार आख्यत्-भोः ! एह्येहि, पर्याप्तमिदानीं चत्वरलङ्घनेन, अपि च तत्र भवान् नवविवाहितोऽसि, क्वापि किञ्चिदपि तव स्याञ्चेच्छोभनं न स्यात् । सा चाऽस्माकं गोत्रदेवी लगति,तामहं स्वयमेव पूजयिष्यामि, भवांस्त्वत्रैव तिष्ठतु इति ब्रुवन्नधस्तादवतीर्य तन्नेपथ्य- 0 मण्डितः कुमार एव वलिपुष्पादिकमादाय देव्यर्चायै चचाल । अघटकुमारस्तु तत्रैव तस्थिवान् । | इतश्च स राजकुमारो यावद् देव्यालयद्वारं प्राविशत् तावदाकृष्टचापः कोऽपि घातको व्यमुचच्छरम् । | तेन विदीर्णहृदयो विक्रमसिंहः सहसैव कदलीस्तम्भवद् भूमौ पपात, तत्कालमेव व्यसुरभूत् । | तदैव तत्रत्यलोकाः किमभूत्किमभूदिति ब्रुवन्तः पूच्चक्रुः । हहो देव्यर्चायै समागतो राज्ञो जामाता केनापि पापीयसा पुंसा बाणेन न्यघानि, इति जल्पन्तः सर्वे योद्धारस्तत्राजग्मुर्महता सम्भ्रमेण । राजापि तदाकर्ण्य क्षणं मनस्यसीमं सुखमन्वभूत् । लोकानुवृत्तयैव किजातङ्किातमित्यालपन् बहिः शोकातिशयं प्रकटयन् यावत्सपरिच्छदो भूपो राजपथमायातस्तावत्तत्राकृष्टखद्गोऽघटकुमारोऽ ॥६ ॥ in national For Personal & Private Use Only 16 T ww.jainelibrary.org, Page #175 -------------------------------------------------------------------------- ________________ 183 प्यागत्य येन केनापि दुर्धिया छद्मनाऽयङ्कमारो व्यसुरकारि, ध्रुवं तेन पापीयसा सिंहोऽजागारि अथवा कृतान्तः प्राकोपि, इत्यादि जल्पन्तमुद्यतासिमघटं पुरस्तादवलोकमानः किमेतदिति विच्छायवद्नो जल्पद्राजा । तदाऽघटोऽवकू – देव ! अहमिदानीमेकाकी पूजनार्थं गोत्रेश्वरीमन्दिरं व्रजन् मार्गे कुमारेण पृटः सर्वमुदन्तमचीकथम् । तदनु कुमारेणाऽभाणि त्वमत्रैव तिष्ठ, यतस्त्वं तन्मार्गमपि नो जानासि, रात्रावेकाकी कथं तत्र यास्यसि । अतो मयैव तत्राधुना यास्यते इत्युदीर्य मया वारितोऽपि सहसैव कालपाशैराकृष्ट इव मदीयनेपथ्यं परिधाय स गेहान्निरगात् । तदैव कुमारश्वानो जना अपि राजानमिति व्यजिज्ञपन् । राजन् ! अधुना तत्र मायाहि, यत कुमारो व्यसुजतः । साम्प्रतं प्रसादं कृत्वा निजसौधे पादोऽवधार्यताम्, यस्मादमङ्गलं मृताननं राजानो नेक्षन्ते, अथेदृशीं वज्रपातसोदरां गिरं श्रुत्वा शोकशङ्कना कीलितो नरपतिस्तदैव ताम्बूल महासीत् । अथ निजसौधमागतो राजा मानसे निजे दध्यौ - अहो देवस्य चरितं विधिरपि नो जानाति, सर्वतो बलवच्चाऽस्ति, केषामपि वाङ्मनसयोर्गोचरतां नोपैति । यच्चिन्तयति जनस्तत्तु विघटयति, अचिन्तितं पुनरेतद् घटयति, ईदृशं दैवमेव बलीयः प्रमाणञ्चास्ति, मनुष्याणाम्, For Personal & Private Use Only inelibrary.org Page #176 -------------------------------------------------------------------------- ________________ 184 चरित्रम् । धबद्धइटकुमार ७०॥ " ततोऽन्यचिन्तितमपि विनश्यत्येव । यदसौ कुमारो यत्नतो रक्ष्यमाणोऽपि सहसैव व्यपद्यत । एष दासेरः पौनःपुन्येन हन्यमानोऽपि लक्ष्मीमधिकाधिकामेव लेभानः। इत्थं शोकसागरे पतितो मेदि-| नीपतिः कथमपि रजनीं निर्गम्य जाते च प्रभाते सुतक्रियां विधाय द्वितीये दिवसे सदसि सकलजनसमक्षमित्याख्यातवान्-हंहो मत्पापं सर्वे शृणुत, अमुष्याऽघटस्य पुराकृतं सुकृतनिचयं पश्यत, ज्ञानगर्भस्य ज्ञानमपि कियदस्तीति प्रत्यक्षीकुरुत। जगदेतत्रयीं सर्वेषामाश्चर्यजननीमवगच्छत, IN असावघटो यदैवाऽजनिष्ट, तदैव तमदृष्ट्वैव केवलं जन्ममात्रश्रवणात् पुरोधा मामित्याचख्यौ पुरा, राजन् ! एष ते राज्यं त्वयि जीवत्येव ग्रहीष्यतीति। ततो राज्यलोभेन धर्ममप्यहं नाऽजीगणम् , नैवात्मविशुद्धं कुलमजीगणम् । चाण्डालोऽपि यत्कर्तुं सहसा न प्रभवति, तदप्यहमचीकरम् । किञ्च-मया पापीयसा बाल्यादेवैष मारणाय विहितः सकलोऽप्युद्योगो विफलतामेव निनाय, परमेष निजपुण्यैः सदैव सुरक्षितोऽभूत् । इत्थं स्वकृतं पापं लोकसमक्ष प्रकाश्य तानापृच्छय तदैव पुण्योत्कटमघटकुमारं स महीभर्ताऽभिषिच्य तस्मै निजं प्राज्यं राज्यं प्रदाय सकलं जनं क्षमयित्वा गुरोः पार्श्वे स्वात्मकल्याणसिद्धये संसारोदधितारणसमर्थां दीक्षां प्रपेदिवान् । ॥ ७०॥ Sain Edd l ernational For Personal & Private Use Only jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ 185 अथाऽघटोऽपि तद्राज्यमासाद्य निजजननी, तो मालिको, देवधरं, तानशेषान् वधकांश्च, तदैवाऽऽकार्य राज्यभोजिनो व्यधत्त । तदनन्तरमघटमहीपालो राज्यं प्राज्यं नयेन पालयन् विपक्षपर्दुर्निरीक्ष्योऽपि नयधर्मयोर्वश्यतामैत् । तस्मिन्छासति सति समस्ताः प्रजाः प्रामोदन्त, परां प्रतिष्ठाश्च निन्ये । विषादस्तु विषमीभूयतद्विद्वेषिणां नगराण्यागात् । यस्य यात्रारम्भेऽपि सकला अपि भूपालाः सेवकतामेवाऽऽपेदिरेतमाम् , तस्य सङ्ग्रामकौतुकं केनापि नैवाऽऽपरि। अथैकदाऽत्युग्रतपो वारिधौतान्तरमलोत्करः केवली सुघटितो राजर्षिस्तत्राऽऽययौ । तमागतं श्रुत्वाऽघटराजोऽपि सपरिवारो महीयसाऽऽडम्बरेण समुत्पन्नप्रमोदातिशयस्तद्वन्दनायै तदन्तिकमागच्छत् । अथ कनककमलासीनं राजहंसमिव राजर्षि महीयस्या भक्त्या विधिवदभिवन्द्य पदातिरिव तदने निषसादसः, तदनु श्रुतिसुखं मनोहरं धर्मोपदेशं तदीयमुखारविन्दाच्छ्रुत्वाऽघटमहीपालः प्राग्भवार्जितं निजं चरितमप्राक्षीदसौ । तथाहि-भगवन् ! मया भवान्तरे किमगण्यं पुण्यमकारि, येनाऽमुष्मिन् भवे विपदोऽपि सम्पदः समपद्यन्त । तदाकर्ण्य केवली समूचिवानेवम्-राजन् ! इह भरताऽवनौ विदर्भदेशावतंसभूतङ्कण्डिनाख्यं महानगरं विलसति । तत्राऽऽस्ते वित्रासिताऽशेषवि For Personal Private Use Only Sibrary.org Page #178 -------------------------------------------------------------------------- ________________ बद्ध- चरित्रम। टकुमार 186 पक्षीभूतभूपः पुरन्दरो नाम क्षितिपतिः। तस्याऽऽसीन्महीयसी रूपलावण्यायुदारगुणगरीयसी | शची प्रेयसी राज्ञी । यस्य च विद्वषिगृहा अनारतं क्व दिवः, कुत्र भूपालाः क्वचाऽयं स्वामी, क्वचेदं गीतं, क च शिवानां रुतमिति खगारवमिषेणाऽऽक्रन्दन्तितमाम् । तस्य भूपतेर्गजभञ्जनो नाम तनयोऽभवत्, यो हि संग्रामावनौ गजराजकुम्भान् अभनक्, कृतवांश्च नैजमन्वर्थं नाम । सचैकदा तुल्यवयोरूपैर्वयस्यैः सत्रा नन्दनाकारं पुरोपवनमीयिवान् । तत्र च कायोत्सर्गस्थितं गतस्पृहं निरहङ्कारं मुक्तेनिःसोपानमिव कञ्चनमाम्रतरोस्तले व्यलोकत । तदा स्वरूपयौवनमदोन्मत्तो न्यूनधीः कृताङ्गरागसौरभ्यवासितो पवनावनिर्भूपात्मजस्तस्य मुनेः प्रस्वेदमलदौर्गन्ध्यभरेण व्यथितस्तं जुगुप्साञ्चक्रे, दुर्मतित्वात्कुलाबैरवज्ञामपि तस्य भूयसीमकरोत् । तस्मिन् काले कश्चिदेको वयस्यस्तमेवमभाषत, कुमारस्य भविष्यता पुण्यनिचयेन प्रणुन्न इव । अये कुमार ! एनं भवान् माऽवहेलयतु । यदसौ पुण्यप्राप्यपदद्वयदायकः पावनादपि पावनः परमस्तीर्थोऽस्ति । ये खलु भव्यात्मानः परया भक्त्या महताऽऽदरेण नित्यममुं महात्मानं नमस्यन्ति, पूजयन्ति च, तेषामाशु सर्वार्थसिद्धयः करगता जायन्ते। अत एनं प्रणम्य निजं जन्म पवित्रीकुरु, यतोह्यमुष्य दर्शनेनापि प्राणिना ॥ ७१॥ Sain Ellenatonal For Personal & Private Use Only bhaw.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ 187 मनेकजन्मार्जितान्यपि पापानि तोयस्थलवणमिव चणाद्विलीयन्ते । इत्थं मधुपाकोपमां वयस्य भणितां गिरं समाकर्ण्य स राजपुत्रस्तन्मित्रं भृशं स्तुवन् नात्मानं निनिन्द | तदनु श्रद्धाभक्तिभरो राजकुमारस्तं मुनिं यथाविधि प्रणनाम । मुनिरप्यवधिज्ञानबलेन तमुपकर्तारं विदित्वा कायोत्सर्ग पारयित्वा कृपया धर्ममुपादिशत् । तथाहि - भो भव्यात्मन् ! इहापारसंसारसागरे पतितानां प्राणिनां धर्मात्परः कोपि त्राता नास्ति, धर्मएव जनान् सुखयति, स एव सदा जीवान् भवाम्भोधितो निस्तारयति, इत्थंभूतस्य धर्मवृक्षस्य कल्पवृक्षोपमस्यातिदृढं मूलं जीवदया निगदिता 1 कृता वाऽमुष्य संसारसागरस्य तटोस्ति । किञ्च हिंसा हि क्रोधरिपोर्भल्लीव दोषाणां पल्लीव सर्वानर्थकरी जागर्तितमाम्, अतो भव्यैः सा हिंसा खलु सदैव त्याज्या धर्मतरुरेव कल्पतरुरिव सेवनीयः । किञ्चाऽस्मिन् संसारे प्राणिनो हि जीवहिंसया कुष्ठित्वं व्रजन्ति, कियन्तः कुनखा जायन्ते, केचिच्च व्यङ्गाः, अपरे च पङ्गवा भवन्ति । किमधिकं कथयामि, जीवहिंसावतां सर्वा अपि विपदः पदे पदे लगन्ति । पातयति च परत्र चामुत्र च महाक्लेशोदधौ । अतः सा हिंसा सदैव हेया, कदाचिदपि नोपादेया सेति । यादृशं पुण्यं सुखं च लोकानां जीवदयया जायते, तादृशं For Personal & Private Use Only jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ प्रबद्ध चरित्रम् । 188 पुण्यं सुखादिकं वा सर्वे वेदा अपि दातुमलं नो भवन्ति, नवा विधिवद्विहिताः सर्वे यज्ञास्त- टकुमार पुण्यं जीवानां प्रयच्छन्ति । नैव समेषां तीर्थानामभिषेका वा तावन्ति पुण्यानि वितरन्ति । इत्थं मुनिमुखाद्धर्म निशम्य प्रतिबुद्धो विशुद्धधी राजकुमारो निरागसां जीवानां निग्रहाऽ| भिग्रहमकरोत् । तदा लोकोत्तरोऽपि मुनिस्तस्य राजसूनोर्मनः प्रतिज्ञातार्थपालने दृढीकर्तुं भूयोऽपि जीवदया प्रशशंस । तथाहि-भो राजपुत्र ! त्वमतःपरं मुनीनामपि श्लाध्यतामापिथ; यतः Mi पारम्पर्यगतामपि जीवहिंसां जहिथ इति हेतोनिरतिचारजीवदयापरिपालनात्तव दुर्लभा अपि नराऽमरसम्पदः सुलभा एव भविष्यन्ति । परमेतन्महाव्रतं गृहीत्वा कदाचिदपि लोकानामनुरोधेन मात्याक्षीः, यदुत्तमाः पुमांसः प्राणात्ययेऽपि स्वीकृतं नोज्झन्ति । यदुक्तम् अद्यापि नोज्झति हरः किल कालकूटं, कूर्मा विभर्ति धरणीं खलु पृष्टभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्नि-मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥१॥ व्याख्या-पुरास्वीकृतं कालकूटं प्राणापहारकरमपि विषम्, अद्यापि अद्यपर्यन्तं हरो नोज्झति-नो जहाति, एवं कूर्मः कमठोपि निजपृष्ठभागे दुर्भरामपि पृथ्वीं बिभर्ति-धत्ते, तथा ॥ ७२ ॥ Sain 1 T erational For Personal Private Use Only S w.jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ 189 सागरोऽपि पुरैकदा धृतं दुर्वहं वोढुमशक्यं वाडवाग्निमद्यापि वहत्येव, अतः-सुकृतिनो महान्तो जना अङ्गीकृतं परिपालयन्त्येव, जात्वपि न जहतितमाम् । इति मुनेर्वाचमाकलय्य कुमारः स्माह-मुने ! प्राणं सुखेन त्यक्ष्यामि परममुं गृहीतं धर्म कदापि नैव हास्यामि. यथाकश्चिद्भव्यात्मा गर्तादौ पतन्तमालम्बं प्रदाय समुद्धरति, तद्वदधुना संसारकूपे पतन्नहं धर्मात्मकं दृढतरमालम्बं दत्त्वा त्वया कृपयोद्धृतोऽस्मि। किञ्च मामिदानीमधर्मादेतस्मान्निवर्त्य शाश्वतसुखप्रदे न्याय्ये धर्मपथे न्ययुङ्क्त भवानिति महानुपकारस्ते मया मन्यते। किञ्च-यदपेक्ष्यते तत्कथय, मामनुकम्पय, महत्तं किमपि सम्प्रति गृह्यताम् , क्षम्यतां च 2 मामको मन्तुरित्यादि प्रार्थयन्तं विनीतं राजपुत्रं स मुनिरभाषिष्ट-भोः कुमार ! साम्प्रतं निवृत्ताऽ- शेषकामस्य परब्रह्मैकचेतसो मम किमपि नापेक्ष्यते, त्वं याहि, धर्म पालय, राज्यं शाधि, इति । ___अथेनिरीहत्वादिगुणैस्तदीयैर्लोकाऽतीतैस्तपोभिश्च रञ्जितो राजपुत्रस्तं प्रणम्य निजगृहमाययौ । अथ वर्धमानमनोरङ्गस्तनूज बल्लभमिवाऽनारतं जीवानुकम्पात्मकं धर्ममवन् स कुमारः सुखेन तत्राऽऽस्तेस्म । अथैकदा मासक्षपणपारणायायान्तं तं मुनिमालोक्यं नत्वाऽऽत्मसदनमानीय Sain Educ a tional For Personal Private Use Only nelibrary.org Page #182 -------------------------------------------------------------------------- ________________ 130 चरित्रम् । १३॥ बिद्ध प्रसन्नमना भक्तादियोग्यनिर्दोषमाहारं तस्मा अदात् , ततो मुनीन्द्रे तल्लात्वा निर्गते मेषादीनां । टकुमार यम इव महानष्टमीमहः समायातः । तस्मिन्महामहे सर्वे लोका बालेयान्महिषान् छागांश्च बहून् । क्षिप्रापूपानिव प्रगुणयामासुः । तदनु पुत्रसामन्तसेनानीपरिवृतः सन्नद्धभटसेनाङ्गः क्षितिपतिस्तत्रराजवाट्यां विनिर्ययौ । तत्रागत्य गोत्रेश्वरीं नमस्कृत्यं तां यथामति संस्तुत्य महद्भिपचारैरभ्यर्च्य || तस्यै बलिं दातुं कुमारमादिशद्राजा। तदा ते सर्वे कुमारा निर्दयहृदया धृताऽसयो यमसुता इव चेष्टमानाः स्पर्द्धया गजभञ्जनकुमारं बभाषिरे-कुमार ! येन त्वया मृगपतिनेव पुरा दन्तिनां कुम्भोऽभञ्जि, भुजाबल ! तदिदानीं सकललोकसमक्षं प्रत्यक्षं दर्शय, अमुष्मिन् महिषे प्रहरतु || भवान् निशितासिमेनमरम् , यत्कस्य प्रहारादेष कुष्माण्डमिव झटिति द्विधा भवतीति लोकाः पश्येयुः। तदाकर्ण्य सोऽजल्पत्-अये कुमाराः! युष्माकमिव मामिकामतिरन्याये नोत्सहते प्रवर्तितुमनागपि, कथं तर्हि निर्मन्तूनेताञ्जन्तून् हन्यामहम् । किञ्च नूनमेतत्प्राणिघातनं कैश्चित्प्राक्तनैरऔधूर्ततरैः प्रावर्ति, जगदम्बा तु साक्षादानन्दरूपा शुद्धसत्त्वस्वरूपैषा वेदे निगदितास्ति, अनारतमेषा चराऽचरमिदं सर्वं रिरक्षत्येव, जात्वपि जीवमेनं जननीपुत्रमिव सा त्रिभुवनजननी नो PAN ॥७३॥ Sain Edl m ational For Personal Private Use Only Tww.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ 131 जिघांसति, अतो जीवहिंसात्मकं सावधं बलिं विहाय तस्य क्षिप्राऽपूपाद्यैरेव बलिर्दीयताम् , इति | कुमारोक्तमाकर्ण्य तदन्ये न्यगादिषुः । कुमार ! एवं मावादीः । यथा लोके धेन्वर्थे तृणानि लुनतां ब्राह्मणानां दोषो न लगति, तथा देवीप्रीत्यर्थं महिषादीनिमान् पशून् घ्नतामस्माकमपि दोषो नैव लगिष्यति, किञ्च-यथा वणिजां कृते शस्यानि, तिरश्चां कृते तृणादीनि, विहितवान् विधिस्तथाऽस्मदर्थमेतान् महिषच्छागादीन् पशून् विदधे प्रजापतिरिति हेतोरेतेषां बलिदाने मनागपि दोषो न लगति। त्वमशङ्कमनाः प्रहर ? इत्थमसमञ्जसमन्योऽन्यं जल्पन्तस्ते दुरात्मानः कुक्कुराः शूकरमिव तमेकं विलक्षीकृतवन्तः। तदा पित्रादिमान्यजनैः प्रोत्साहितः कुमारः कृपाणमुद्यम्य तद्वधात् पुनः करुणोलासिचेता जवान्यवर्तत, एवं पित्राद्यैः पौनःपुन्येन हिंसां कार्यमाणोऽपि त्रिरुद्यम्याप्यसिं परमेकशोऽपि स तस्मिन् नैव प्राहरत। किन्तु-मुहुर्मुहुः पापकारिणमात्मानं धिग् धिगिति निनिन्दतमाम् । यतो-गृहीताऽभिग्रहोऽप्यहं प्रहारोद्यतोऽभवम् । उवाच चैवम्-हन्त ! एतदकृत्याचारादग्नौ प्रवेश एव श्रेयान् , अथवा विशुद्धचेतसां पुंसां यन्त्रनिपीडनेन मरणमपि वरं, न पुनर्ग्रहीतव्रतत्याग इति। | इत्थं पश्चात्तापयतस्तस्य कुमारस्योपरि तुष्टा सैव देवी कृपालुत्वात्तदैव पुण्यकणानीव मनोरमाणि APITAL Jain Educati For Personal & Private Use Only dinelibrary.org Page #184 -------------------------------------------------------------------------- ________________ चरित्रम् । 192 कुसुमानि ववर्ष । बभाषे च-धन्योऽसि, कुमार ! त्वमिवाऽपरो दृढप्रतिज्ञो विरलएवास्ति लोके । यदेवं नृपादिभिः प्रेर्यमाणो भवन्नपि शैल इव स्वप्रतिज्ञातान्मनागपि न चेलिथ । अतः परं ममागे कोऽपि जीवबलिं माकार्षीत् , यतश्चेयं जीवहिंसा महाघोरनरकं कर्तारं नयति, अत एनां दुर्गति | प्रतोलीमिव सर्वे लोकास्त्यजन्त्वेवेति । तदा देवीवाक्यं शृण्वन्तः सर्वे नरपतिप्रमुखा लोका देव मिव कुमारं तुष्टुवुः, जहुश्च जीवानां हिंसनम्, इष्टवैभवां प्राणिदयामङ्गीचक्रुश्च । तस्मिन्नवसरे कुमा| रस्तु कृपोद्भुतं महाश्चर्यमालोकमानस्तत्रैव परमात्मनि योगीव सर्वात्मना लीनो भवन्नासीत् । तदNI नन्तरं प्रमुदितमनसः सर्वे लोका निजनिजसदनमाययुः। तदनु स्वायुषः क्षये राजा स्वाराज्यं प्रपेदे। तत्स्थाने च गजभञ्जनकुमारो राजाऽभूत् । अथैकदा रथयात्रायां रत्नमये रथे रोहणाद्राविव प्रच- | लिते सौधद्वारमुपगते सति हर्षोत्कर्षाद्भक्तिमान् राजा जगदय॑ञ्जिनेश्वरमानर्च । चिरं राज्यं कृत्वा सत्यायुःपरिपूर्णे नरेन्द्रो गजभञ्जनः शुभपरिणामेन कालमुपेयिवान् । स त्वमत्र धरित्र्यामधुनाऽवतीर्णोऽसि, मुनिनिन्दाप्रभावतो नीचैर्गोत्रं तेऽभवत् । किञ्च-मुनिदानमाहात्म्यात् तवेदानीमुत्तमा | भोग्यसामग्री जज्ञे, जिनेश्वराऽर्चनप्रभावेणाऽत्र जन्मनि तिरस्कृतेन्द्रराज्यमिदं राज्यमजायत । यत्तदा ।। ७४॥ ww.jainelibrary.org sain International For Personal & Private Use Only W Page #185 -------------------------------------------------------------------------- ________________ Jain Educat 193 चतुर्वारमुद्यतासिर्भवान् बभूवान्महिषस्य हननाय, तेन कर्मणाऽत्र भवे चतस्र आपदो जज्ञिरे । परन्तु समुद्भूतकारुण्याद्यत्तदा तस्मिन्नसिमप्रहरन्नेव त्वं न्यवर्तथास्तेन ता आपदोऽपि सम्पदएव समपद्यन्त । सोऽहं महिषजीवस्तदा धर्मं श्रुत्वा सञ्जातवैराग्यवशादनशनमरणात् सुघटितोनाम राजाऽभूत्रपूर्याम् । तेनैव हेतुनाऽत्र जन्मनि त्वयि मम मनःप्रतिकूलतामापत् । बन्धूनामपि पूर्ववैश्वदत्र जन्मनि वैचित्र्यमध्यजायत । येचैते भवतामुपकर्तारस्ते सर्वे भवान्तरे तव सुहृद आसन् । सम्प्रति निज निजकर्मानुसारेण भवता सत्रा राज्यसुखमनुभवन्तितमाम् इत्येतद् गुरुमुखादाकर्ण्य जातजातिस्मृतिर्नरपतिः प्रत्यक्षमिव तदशेषमपश्यत् । अवोचच्च मेदिनीपतिस्तदैवम्-भगवन् ! अहमधुना भवद्वचनाऽऽलोकप्रभावतोऽज्ञानतिमिरपटलीपिहितातोपि सर्वं प्राग्भवीयमपश्यम् । तदैव सपरिवारो नरपतिस्तस्यैव गुरोः पार्श्वे भवाम्भोधेस्तरीमिव सम्यक्त्वमूलकद्वादशश्राद्धव्रतात्मकं देशविरतिमुररीकृतवान् । क्रमशः सर्वारम्भपरित्यागरूपं सर्वविरतिचारित्रमापद्य मतिमान् राजा क्षतनिःशेषकर्तव्यः परमां निर्वृतिमाप । भो भो लोकाः ! अघटनरपतेरिदं प्राग्भवीयं सम्पदामापदाञ्च निदानञ्चरितमाकर्ण्य महोदारे निरतिचारेऽमुष्मिन् धर्मकर्मणि मतिं कुरुत, प्रमादमतिं च For Personal & Private Use Only Inelibrary.org Page #186 -------------------------------------------------------------------------- ________________ बद्ध टकुमार ७५ ।। Jain Ed 194 जहित, येन कदाचिदपि मनागप्य मूर्विपदो युष्माकं नागच्छेयुः । स सुघटितो नरेन्द्रः पापेनैव प्रसिद्धं सुतराज्यवियोगजं महादुःखमायिष्ट । नीचकुलावतीर्णोऽप्यसहायोऽप्यघट कुमारस्तु सुविहितैरगण्यैः पुण्यैरेव तदीयं प्राज्यं राज्यमग्रहीत् । अत ऐहिकामुष्मिक सुखलिप्सवो भवन्तः सुतरामधर्म - ज्झन्तु, धर्ममेव चिन्तामणिमिव समाश्रयन्तु. ternational उक्तश्च धनदो धनमिच्छूनां कामदः काममिच्छताम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १ ॥ अथ प्रशस्तिः— श्रीसौधर्म बृहत्तपोगच्छीयराजेन्द्रसूरीश्वर शिष्यः । मुनियतीन्द्रविजयोऽब्दे, जलधित्रसुनवभूमिते गुरुसप्तम्याम् ॥ १ ॥ काव्ये मासि सहस्ये, शुक्ले दलेऽघटकुमारचरित्रम् । गद्यपद्यमयमेनं, मुदितमनाः समापयामास ॥ २ ॥ For Personal & Private Use Only चरित्रम् | ॥ ७५ ॥ Page #187 -------------------------------------------------------------------------- ________________ अशुद्ध विहिना प्रधानं च श्रेष्टिनी युक संयतीनां गुरुणां दुखं प्रतिसद्मं चोत्पादन्ती भवादशी शुद्ध विहीना प्रधानश्च श्रेष्टिना युक्त संयतानां गुरूणां दु:खं प्रतिसद्म चोत्पादयन्ती भवादृशी गद्यबद्ध श्रीचरित्रचतुष्टयस्य शुद्धिपत्रकम् । पृष्ठ पंक्ति १ पत्र २ २ २ ३ ३ ३ ३ ४ ५ ५ १ १ १ १ १ २ २ १ 195 १ अशुद्ध १ न्येवेनां ४ नीरोगी ८ निध्याय १ ह ε १२ ९ प्रहारा कुरुत कालिक जलयित्वा संहारी महामरी भेदा ९ For Personal & Private Use Only शुद्ध न्यवैनां नीरोगा विज्ञाय प्रहरा कुरुथ का लक ज्वलयित्वा संहारि महामारी भेदो पत्र ५ ६ ६ ७ ७ ११ १२ १३ १३ १३ पृष्ठ १ १ १ १ २ २ २ पंक्ति ११ ८ ६ - १ १२ १० ६ jainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ 190 W द्विशुद्धिा प्रतिदुष्टा तुष्ठुवुः ७६ ॥ भाण्डा रागद्वेपू व्यघात् as is संस्तुत्य IN! पत्रकम् । तस्या अती ६ २५ चतुष्पष्टि राक्षसा स्वकीयाया १६ १ १० धीर्बुद्धि रुच्चत्व १६२ भङ्ग रत्नसार प्रशंस केचन om अतिदुष्टा १३ २ ८ | संस्तूय तुष्टुवुः तस्याती भाण्ड चतुष्पष्टी रागद्वेषपू राक्षशा व्यधात् स्वकीया केनचन धीबुधि ध्यायेत् रुच्यत्व १५ २ १२ भङ्ग बृहत्तपो १७ २ ४ रत्नासार अनुकार्याः प्रशंश युध्यमा द्यावधि सन्मान्य समार्पय कमार मभिष्टुत्य ६१ ८ निर्दिष्ट For Personal Private Use Only ध्यायेत् सुगन्ध वृहत्तयो अनुकार्या दको द्यावधि समर्पय मभिष्ट्रय सुगन्धि दको युध्यमा सम्मान्य कुमार निदिष्ट G|| ७६॥ SainEdu rernational inlibraryong Page #189 -------------------------------------------------------------------------- ________________ 197 पङ्कजैः M श्वान्वितं ससुप्र चाह सत्वान् प्रेमाधिक्या प्रेषितानि स्त्वदुचित पिषति यद्देह पूरितास्याः राज्ञा खपासुला समर्पयत् समर्पयन ५ । प्रार्दुवभूव श्वाऽनन्वितं यतितवान् सा सुप्र ३४१७ दुर्लभ्येयं चाहं ३५१७ ज्ञापययि सत्त्ववान् ३६१ ३ तादृशो प्रेमाधिक्यान्न अतोस्वे प्रेषितः पापत्मन स्तदुचित ३६२ ७ महती यिषति राज्ञो यदेह विस्मरमि पूरिता ४२१ समर्पयत् राजा तमब्रुवम् रथा ४६१ १० प्राप्स्यामि समार्पयत् १० नागरीका समार्पयन ४६ २ सर्वऽपि प्रादुर्बभूव रचितवान् दुर्लभेयं ज्ञापयि तादृशौ अतः स्वे पापात्मन् ! महती राजा विस्मरामी समार्पयत् तमनवम् प्राप्स्यामी नागरिका मर्वेऽपि ६० - 15 - 23 Sain Educat onal For Personal Private Use Only Alinelibrary.org Page #190 -------------------------------------------------------------------------- ________________ 16 2 मोदी मयोपायः द्रोहान्म मनस्येवं ग्रहीतु ववन्दे बालार्क मवलोक्य 55 (द्धिशुद्धि! ममोपायः द्रोहात्म मनस्येव गृहीतु ववन्द वालर्क भवलोक्य भर्भक पुरोधसे दलम्मिः पतिस्ता शिशुजीवन्ने निष्कण्टो 2 मोदीत्तताम् समालिङयस्त मर्पयत् मामैषीः अमुष्यं मुररीकृत्वा प्रश्रयामासि यत पङ्गवा जीवदया मोदीत्तमाम् समालिङ्कग्यत मार्पयत् माभैषीः अमुष्य मुररीकृत्य प्रश्नयामासि यतः पङ्गवो जीवदयां कूर्मो मालोक्य नमस्कृत्य मर्भक कुर्मा पुरोधसो दलम्भि पतिस्तो शिशु वन्ने निष्कण्टको 63 1 2 मालोक्यं 10 नमस्कृत्यं 2 रिरक्ष्यत्येव - * रखत्येव // 77 // Sain temational For Personal & Private Use Only T ww.jainelibrary.org