SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 138 प्रार्दुबभूव । अयि पाठकाः ! विचारयन्तां नितरां निजचेतस्सु यत् सदाचारवृक्षसुयशःपुष्पं || चरित्रम् । कृशानुज्वालायां प्रदीप्यमानायां दाहमन्तरा कथं नाम सन्तिष्ठेत ।' अग्नितोऽस्मात् राज्ञोऽन्तः करणरुधिरमुत्पपात । तच्च निखिलशरीरे प्रससार, शरीरं च प्रजज्वाल । स नृपती रोगस्यास्य निवारणाय स्वीयं प्रधानमंत्रिणमाहृतवान् । राजनीतिनिपुणो हि स प्रधानमंत्री-अवसरं विज्ञाय निजप्रतिस्पर्धिनं हरिबलं निस्सारणाय यत्नं यतितवान् । स चागत्याञ्जलिं बद्ध्वा सनम्रस्तं प्रोवाचअयि राजन् ! तव कामज्वरः शान्तिमापद्येत । एतदर्थं का नामौषधिः, मद्विचारे तु हरिबलपार्चे ये वसन्तश्रीकुसुमश्रियौ स्तः, ते एव भवदीयौषधिर्भवितुमर्हन्त्यौ । ते वै विचित्रगुणवत्यो, दृष्टिगोचरमात्रादेव महाविषयोऽपि कामज्वरो निवृत्तिमाप्नुयान्नाम । एवंभूते हि ते द्वे अपि । अवश्यं रक्षितव्या सा भवतौषधिः, भवतो मनोविकारं शाम्येत्सा, हृदयारविन्दं समानन्दयेत् , जगवृद्धिं वितनुयात् , ऐहलौकिकसुखानि दद्यात् । अतो धराधिप ! माङ्गल्यसम्पादयित्रीमवश्यं तामुररीकुर्याः । इत्थं प्रधानामात्यवचः श्रावं श्रावं स मदनवेगो व्याकुलीभवस्तमाह-मंत्रिन् ! हीनदेवाय मे कथं लब्धा नाम सौषधिः । दुर्लभ्येयं मया, मदपेक्षया स हरिबल एव महापुण्यशीलो ना, ॥ ४७ ॥ Jain i nternational For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy