________________
138 प्रार्दुबभूव । अयि पाठकाः ! विचारयन्तां नितरां निजचेतस्सु यत् सदाचारवृक्षसुयशःपुष्पं || चरित्रम् । कृशानुज्वालायां प्रदीप्यमानायां दाहमन्तरा कथं नाम सन्तिष्ठेत ।' अग्नितोऽस्मात् राज्ञोऽन्तः करणरुधिरमुत्पपात । तच्च निखिलशरीरे प्रससार, शरीरं च प्रजज्वाल । स नृपती रोगस्यास्य निवारणाय स्वीयं प्रधानमंत्रिणमाहृतवान् । राजनीतिनिपुणो हि स प्रधानमंत्री-अवसरं विज्ञाय निजप्रतिस्पर्धिनं हरिबलं निस्सारणाय यत्नं यतितवान् । स चागत्याञ्जलिं बद्ध्वा सनम्रस्तं प्रोवाचअयि राजन् ! तव कामज्वरः शान्तिमापद्येत । एतदर्थं का नामौषधिः, मद्विचारे तु हरिबलपार्चे ये वसन्तश्रीकुसुमश्रियौ स्तः, ते एव भवदीयौषधिर्भवितुमर्हन्त्यौ । ते वै विचित्रगुणवत्यो, दृष्टिगोचरमात्रादेव महाविषयोऽपि कामज्वरो निवृत्तिमाप्नुयान्नाम । एवंभूते हि ते द्वे अपि । अवश्यं रक्षितव्या सा भवतौषधिः, भवतो मनोविकारं शाम्येत्सा, हृदयारविन्दं समानन्दयेत् , जगवृद्धिं वितनुयात् , ऐहलौकिकसुखानि दद्यात् । अतो धराधिप ! माङ्गल्यसम्पादयित्रीमवश्यं तामुररीकुर्याः । इत्थं प्रधानामात्यवचः श्रावं श्रावं स मदनवेगो व्याकुलीभवस्तमाह-मंत्रिन् ! हीनदेवाय मे कथं लब्धा नाम सौषधिः । दुर्लभ्येयं मया, मदपेक्षया स हरिबल एव महापुण्यशीलो ना, ॥ ४७ ॥
Jain
i
nternational
For Personal Private Use Only
www.jainelibrary.org