SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ क कश्चिददिव्याकृतिको दिव्यवासाः सर्वाभरणमण्डितगात्रः खड्गपाणिश्चौर्यकुशलः कोपादरुणलोचनः पुमान् गुप्त्या तद्गृहान्तराययौ । तावत्कुमारो जजागार । यतो महीयांसोऽचिरमेव स्वपन्ति । ततः स चिन्तयति-अहो सत्यपि सकलद्वाराऽपिधाने कथमेष महाचौर इव समायातो दृश्यते । इत्यादि यावन्निश्चिनोति कुमारस्तावत्स वक्ति-कुमार ! यदि वीरोऽसि तर्हि सज्जीभूय मया सह युध्यस्व । वणिग्जातीयस्य तव कियदस्ति वलमित्यहं ज्ञास्यामि । अतिधूर्तस्य श्रृगालस्य शौर्यं । मृगपतिरिव तव बलमहं कियन्तं कालं सहेय । इत्थं जल्पन्नेव स तत्कालमेव कुमारोऽपि कोशादसिमाकृष्य तत्पृष्ठमधावत् । अग्रे पुमान् तत्पृष्टे कुमार इत्थं तावुभौ मिथः पश्यन्तौ कियद् दूरं जग्मतुः। चौरस्यानुपदं तं जिघृक्षुः पुमान् यथा याति तथा कुमारस्तत्पृष्टं गतः। अत्रान्तरे स पुमान् । कीरमादाय यदा व्योम्नि समुदडीयत, तदाऽऽकाशे तं घुमासं कियडूरं ब्रजन्तमद्राक्षीत् कुमारः । अदृश्ये च तस्मिन् मनसि विस्मयं दधत्कुमार एवमचिन्तयत्-नूनमनेन केनापि देवेन विद्याधरेण दानवेन भूतेन महीयसा मद्वैरिणा भाव्यम् । योऽस्तु सोऽस्तु, परंतु मदीयराजकीरमपहृत्य गत | इति महदाश्चर्यमभूत् । अये प्राणप्रिय ! कीर ! तव किमभूत् ?, मां विहाय क्व गतोऽसि ?, त्वां Jain Educati onal For Personal Private Use Only I nelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy