SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । बानसार ७॥ विना मम का गतिर्भविष्यति, इति विलपन् रत्नसारः पश्चादेवं दध्यौ अरे चित्त ! खेदं मा गाः, IN अलमिदानीं शोकेन । शोकेन गतं वस्तु कस्यापि न मिलति । अतो धैर्यमालम्ब्य स्थलान्तरे | तदन्वेषणं विधातव्यम् । कदाचित्प्राप्ते काले मिलिष्यत्येव सः । तमधिगत्यैव परावर्तिष्ये, नो | चेत्कदाचिदपि पश्चान्नैव परावर्तितव्यं मयेति निर्धार्य कुमार इतस्ततः परिभ्राम्यन् बहुधा कीरम- | न्वेषयामास । परन्तु कुत्रापि तच्छुद्धिं नाप्तवान् । यतः आकाशे यद्वस्तु गतं तद्भूमौ मार्गितेऽपि कथमासादयेत्तथापि कुत्रापि स मिलिष्यतीत्याशया रत्नसारः सकलं दिनं सर्वत्र बभ्राम । सन्ध्याकाले समागते तेन कुमारेण वप्रतोरणध्वजादिसुमण्डिता मणिमयसौधचयशोभायमाना नगर्येका ददृशे । तस्या अद्भुतां शोभां विलोक्य चमत्कृतचेताः कुमारो नगरीसमीपमागतः तत्र च दूरत । एवापूर्वां तच्छोभां पश्यन् नितरां स तुतोष । अथ मुख्यद्वारे समागत्य स यावदन्तः प्रविशति तावत्तत्रोपविष्टा काचिदेका सारिका तमेवमभाषत । भोः कुमार! अन्तमा गाः, इत एव पश्चाद् M|| याहि । कुमारोऽवदत्-अयि सुन्दरि ! सारिके ! मामन्तर्यान्तं कथं निषेधयसि ? तदा पुनरूचे सा-हे सुपुरुष ! मद्वचस्यवज्ञां मा कृथाः अहं ते कल्याणमिच्छामि, अतस्तत्र प्रवेष्टुं वारयामि। ॥ १७ ।। ternational For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy