________________
चरित्रम् ।
बानसार ७॥
विना मम का गतिर्भविष्यति, इति विलपन् रत्नसारः पश्चादेवं दध्यौ अरे चित्त ! खेदं मा गाः, IN
अलमिदानीं शोकेन । शोकेन गतं वस्तु कस्यापि न मिलति । अतो धैर्यमालम्ब्य स्थलान्तरे | तदन्वेषणं विधातव्यम् । कदाचित्प्राप्ते काले मिलिष्यत्येव सः । तमधिगत्यैव परावर्तिष्ये, नो |
चेत्कदाचिदपि पश्चान्नैव परावर्तितव्यं मयेति निर्धार्य कुमार इतस्ततः परिभ्राम्यन् बहुधा कीरम- | न्वेषयामास । परन्तु कुत्रापि तच्छुद्धिं नाप्तवान् । यतः आकाशे यद्वस्तु गतं तद्भूमौ मार्गितेऽपि कथमासादयेत्तथापि कुत्रापि स मिलिष्यतीत्याशया रत्नसारः सकलं दिनं सर्वत्र बभ्राम । सन्ध्याकाले समागते तेन कुमारेण वप्रतोरणध्वजादिसुमण्डिता मणिमयसौधचयशोभायमाना नगर्येका ददृशे । तस्या अद्भुतां शोभां विलोक्य चमत्कृतचेताः कुमारो नगरीसमीपमागतः तत्र च दूरत । एवापूर्वां तच्छोभां पश्यन् नितरां स तुतोष । अथ मुख्यद्वारे समागत्य स यावदन्तः प्रविशति
तावत्तत्रोपविष्टा काचिदेका सारिका तमेवमभाषत । भोः कुमार! अन्तमा गाः, इत एव पश्चाद् M|| याहि । कुमारोऽवदत्-अयि सुन्दरि ! सारिके ! मामन्तर्यान्तं कथं निषेधयसि ? तदा पुनरूचे
सा-हे सुपुरुष ! मद्वचस्यवज्ञां मा कृथाः अहं ते कल्याणमिच्छामि, अतस्तत्र प्रवेष्टुं वारयामि। ॥ १७ ।।
ternational
For Personal Private Use Only
www.jainelibrary.org