________________
Jain Education
69
यदि तत्कारणं शुश्रूषसि, तर्हि श्रूयताम् ।
इदं हि रत्नपुरं नाम नगरमस्ति । अत्र पुरन्दर इव पुरन्दराभिधानः प्रजापाल आसीत् । न्यायनिष्ठे प्रजाः शासति सति तस्मिन् कोऽप्येको महाचौरो नानावेषधारी समागतः प्रतिरात्रं चोरयन्नासीत् । ततोऽचिरादेव समृद्धिशालिनोऽपि लोका निर्धना अभूवन्, ततः पौरप्रधानजना मिलित्वा नृपमेतदाचचक्षिरे । तच्छ्रुत्वा कुपितः चितिपतिः कोट्टपालमाकार्य सरोषमाह-रे रक्षकाः ! यूयं रात्रौ क तिष्ठथ ? कथं वा युष्मासु रक्षकेषु सत्स्वपि धनिनां गृहेषु चौर्यं जातं जायते च ?, तत्कारणं निगदत | नो चेदधुना सर्वेषां वः प्राणदण्डं दास्यामि । रतका ऊचुः - नाथ ! वयं सदैव सावधाना रक्षामः । तस्य निग्रहणाय सर्वे उपायाः कृताः । परं समस्तोऽपि प्रयत्नो वैफल्यमेव व्रजति । सर्वथासौ तस्करो महारोग इव दुर्ग्रहः प्रतीयते । अतोऽहं तं ग्रहीतुं न शक्नोमि । ततो नृपालः स्वयमेव खड्गपाणिस्तस्य चौरस्य ग्रहणाय निरगच्छत् । अथैकस्यां रजन्यां कस्यचिच्छेष्टिनो गृहे खात्रं कृत्वा प्रचुराणि सारभूतानि धनानि लात्वा यान्तं तं स्तेनशिरोमणि राजाऽपश्यत् । ततस्तत्पृष्ठे राजाऽधावत् । अग्रे चौरस्तत्पृष्ठे राजा, इत्थं कियद्दूरं तावुभौ चेलतुः । स चौरः
For Personal & Private Use Only
delibrary.org