SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ +0 सार बा | क्षितिपतेदृशं वञ्चयित्वा कस्यचित्तत्र सुप्तस्य तापसस्य समीपे सर्वाणि धनानि मुक्त्वा स्वयमुद्याने चरित्रम् । प्राविशत् । तदनु तत्रागतो नृपश्चोरितानि द्रव्याणि दृष्ट्वा तं सुप्तं तापसमेव चौरममन्यत । नूनमेष तापसः स्तेनोऽस्ति । अयमेव मम नगर्याः सर्वस्वमचूचुरत् । अधुनात्र कपटनिद्रया निद्राति । इत्यवधार्य नृपस्तमेवमवोचत-रे दुष्ट पापिष्ठ ? तापसीभूय मम नगरी लुण्टयसि, त्वमेव | प्रतिरात्रं खात्रं विधाय सर्वेषां धनान्यपहरासि । इदानीं साधुवेषेण सुप्तोऽसि, अत इदानीमेव त्वां दीर्घनिद्रायां स्वापयामि । पश्य पश्य स्तेनस्य फलं कीदृशं भवतीति । अथात्मसुभटेन निर्दोषमेव Foll तं तापसं स्वस्थानमानाय्य प्रभाते तस्य हननाय कोहपालमादिशत् । ततो नृपादिष्टः स तापसं Mal मुण्डयित्वा गर्दभोपरि संस्थाप्य सर्वत्र नगरे चतुष्पथादौ भ्रामयित्वा शूलिकायामारोपितवान् । स एव मृत्वा राक्षसोऽभवत् । ततः प्राग्वैरमनुसन्धाय प्रकुपितो राक्षसः प्रथमं राजानं जघान । लोकांश्च सर्वान् नगरान्निष्काशितवान् । राजा प्रमादवशात्तथा कृतवान् । तेनैव दोषेण समस्ताः प्रजाः खिद्यन्ते । अद्यापि यः कोऽपि पुमानन्तः प्रविशति तं स घातयति । यतः-अन्तःपुरमागतं पुरुषं कोऽपि नैव सहते । भोः कुमार ! अतस्त्वामन्तःपुरे गन्तुं निवारयामि । यदि कदाचित्स IN ॥१८॥ Sain I n ternational For Personal Private Use Only Hilaww.jainelibrary.org.
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy