________________
त्वामपि हन्यात्तदाहं तद्रष्टुं न शक्नुयाम् । इति सारिकावचनमाकर्ण्य सञ्जातविस्मयः कुमार आख्यत्-सारिके ! त्वयोक्तं सर्वं पथ्यं तथ्यं च मन्ये, परन्तु मनागपि ततो राक्षशान्नाहं बिभेमि, इत्युक्त्वा राक्षसस्य बलपरीक्षार्थी कुमारस्तत्र नगरे रणक्षेत्र इव प्राविशत् , अकुतोऽभय इव स तत्र नगरे परिभ्रमन् कुत्राप्यापणे चन्दनतरूणां राशिमपश्यत् । क्वापि स्वर्णराशिना भृतमापणम् , तथा
परस्मिन्नापणे कर्पूराणां, क्वचित्पूगीफलानां, क्वचिच्च नारिकेरफलानां निचयं, क्वचिच्च सुगन्धिद्रव्यैः ।। | परिपूर्णानि गान्धिकानामापणान्यद्राक्षीत् । कानिचिच्च दिव्यादिव्यविविधजातीयवस्त्राणामन्नादीना
मापणानि ददर्श । परन्तु क्रयविक्रयौ कुर्वन्तमेकमपि जनं स नापश्यत्कुत्रापि । अथैवमनुक्रमेण राजपथेन गच्छन् नगरीशोभां वीक्षमाणः स राजसदने समायातः । तत्रैकः सप्तभौमः सौधः प्रैक्षि तेन । तत्र सप्तमं भौमं गत्वा नानाजातीयसद्रत्नरचितामपूर्वामेकां शय्यामालोकत। तस्याञ्च निर्भीः । कुमारः सुखेन स्वकीयामिव सुष्वाप । अथ मानुषपदसञ्चारादिनाऽगतं जनं विदित्वाऽतिक्रुद्धः स राक्षसस्तत्रागात् । तत्र सुखेन सुप्तं रत्नसारमालोक्य स दध्यौ । अहो अत्याश्चर्यमेतत्, यत्र केऽपीतरे लोका मनसापि गन्तुं नेहन्ते । तत्र दुर्गमे स्थाने समागतोऽसौ पुमान् धृष्ट इव निर्भीकः
Sain Educ
a
tional
For Personal & Private Use Only
Mainelibrary.org