________________
बा
__सार |
१९॥
कथं सुप्तोऽद्य दृश्यते । नूनमेष मे महान् विरोधी लक्ष्यते। एनमहं केन प्रकारेण हन्याम् , किमहं चरित्रम् । तालफलमिव मस्तकमस्य त्रोटयेयम्, अथवा नखैरेव विदारयेयम् , किमु गदयानया सचूर्णयेयम्, किमु महत्या क्षुरिकया खण्डशः कृन्तानि, किमु प्रज्वलिताग्नौ प्रक्षिपाणि, किमाकाशे समुरिक्षपाणि, किमब्धौ मज्जयानि, किमजगर इवैनमधुनैव गिलानि, किम्वा ममाऽऽलये समायातमतिथिमिव प्रसुप्तं नो हिनसानि । यतो हि गृहागतं रिपुमपि नैव हन्यादित्यादि नीतिवाक्यानि शिक्षयन्ति । तदाहअागतस्य निजगेहमप्यरे गौरवं विदधते महाधियः । मानमात्मसदनमुपेयुषे, भार्गवाय गुरु रुचतां ददौ॥१॥ ___ व्याख्या-महाधियः महती धीवुधिर्येषान्ते, मतिमन्तः पुमांसो निजालयमागतस्य, अरेःशत्रोरपि गौरवं-सत्कारमेव विदधते-कुर्वते । तथाहि-आत्मसदनं-मीनाख्यराशिम् उपेयुषे-प्राप्तवते समागताय भार्गवाय शुक्राय गुरुः बृहस्पतिः, मानं सत्कारम् मानाहमिति यावत् उच्चतां महत्वं ददौ दत्तवान् । अयमाशयः-मीनराशिगुरोरस्ति तत्रागतं नैसर्गिकं वैरमपि, गुरुरुच्यत्वमेव नयति। तथा स्वसदनसमागतः शत्रुरपि सत्कार्यएवास्ति महतामिति ।
alu १९॥
Sain E
r national
For Personal & Private Use Only
ww.jainelibrary.org