SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Educa 73 यावदसौ स्वेच्छया जागृतो न भवेत्तावदस्य किमपि न कर्त्तव्यम्, पश्चादस्य यथायोग्यं भविष्यति, तथा विधास्यामि, इति निश्चित्य स राक्षसः स्वस्थानमागात् । पुनः कियत्कालानन्तरं प्रभूतभूतादिगणैः सह स तत्रागत्य पूर्ववत्सुप्तमेव कुमारमैक्षत । अत्रावसरे स जगाद - अरे निर्भीक ! निर्लज्ज ! यदि जिजीविषसि, तर्हि सत्वरमेवेतः पलायस्व, नो चेन्मया सह युध्यताम् । इति राक्षसवच आकर्ण्य जागृतः कुमार श्राह - राक्षसराज ! मम निद्राभङ्गं कथमकार्षीः ? सुखसुतस्य निद्राभङ्गकरणे कियान् दोषो लगति । तन्न जानासि किम् ? उक्तञ्च -- धर्मनिन्दी पंक्तिभेदी, निद्राच्छेदी निरर्थकम् । कथाभङ्गी वृथापापी पञ्चैतेऽत्यन्तपापिनः ॥ १ ॥ व्याख्या - यो हि धर्मं निन्दति यश्च पंक्तिं भिनत्ति अर्थादेकत्र पंक्तौ भुञ्जानानामेकस्मै ददाति परस्मै न ददाति सः । तथा हेतुं विना परस्य सुखेन सुप्तस्य निद्रां छिनत्ति । एवं यः कथामुच्छेदयति, प्रयोजनं विनैव यः पापानि कुरुते, एते पञ्च महापापिन उच्यन्ते । भवानपि मदीयनिद्राभगकरणान्महापापी जातः । अतस्तत्पापापनोदाय सद्योजातघृतमिश्रितशीतलवारिणा तावन्मे पादौ मर्दय, यावन्मे निद्राऽऽगच्छेत् । इति कुमारोक्तं निशम्य For Personal & Private Use Only jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy