SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। बर्द्धनसार १०॥ स विचारयति स्म-अहो कोऽप्यसौ महाश्चर्यकारी पुमान् प्रतीयते । यत्केनापि न कारितं तच्चिकीर्षति मत्तः । अत्याश्चर्यमेतत् । यन्मृगारातेः शृगाल इवासौ मत्तः पादयोस्तलं विमर्दयितुं कामयते । एष कीदृशः साहसिकः, कीदृशी चास्य धृष्टता वर्त्तते, कियती चास्य गम्भीरता विद्यते । यन्मामपि भृत्यकृत्यमुपदिशति, आस्तां तावदेषः । एतस्यैक आदेशस्तावत्कर्त्तव्यो मया । इति | विचिन्त्य स राक्षसेश्वरः सुरभिघृतमिश्रितशीतलजलेन कुमारस्य पादौ मर्दितुमलगत् । अहो । कीदृशो धर्मस्य महिमा वर्त्तते, यल्लोके कुत्रापि केनापि न श्रुतं न वा दृष्टम् । यल्लोके दुर्लभमस्ति । तदपि धर्मप्रभावेण लोकैराप्यते । Koil अथ निजभृत्यमिव पादौ मर्दयन्तं राक्षसराजमालोक्य समुत्थाय कुमारस्तमेवं व्याजहारall भो राक्षसेन्द्र ! मया मनुष्येण यदादिष्टं तत्कृपामानीय क्षमस्व । तवानया भक्त्याधिकं प्रसन्नोऽ स्मि, किञ्च यदीप्सितं भवेत्तन्मत्तः प्रार्थय । भवदर्थे दुष्करमपि सुखेन कत्तुं शक्नोमि । दुर्लभमपि वस्तु तुभ्यं दातुं समर्थोऽहम् । इति कुमारभाषितं श्रुत्वा स स्वचेतस्येवमचिन्तयत्-सम्प्रति विपरीतं जातं यदसौ मानुषीभूय मयि देवेऽपि निजप्रसादं दर्शयति । इतोऽप्यद्भुतमिदं दृश्यते, ॥२०॥ emaine For Personal Private Use Only
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy