________________
चरित्रम्।
बर्द्धनसार १०॥
स विचारयति स्म-अहो कोऽप्यसौ महाश्चर्यकारी पुमान् प्रतीयते । यत्केनापि न कारितं तच्चिकीर्षति मत्तः । अत्याश्चर्यमेतत् । यन्मृगारातेः शृगाल इवासौ मत्तः पादयोस्तलं विमर्दयितुं कामयते । एष कीदृशः साहसिकः, कीदृशी चास्य धृष्टता वर्त्तते, कियती चास्य गम्भीरता विद्यते । यन्मामपि भृत्यकृत्यमुपदिशति, आस्तां तावदेषः । एतस्यैक आदेशस्तावत्कर्त्तव्यो मया । इति | विचिन्त्य स राक्षसेश्वरः सुरभिघृतमिश्रितशीतलजलेन कुमारस्य पादौ मर्दितुमलगत् । अहो ।
कीदृशो धर्मस्य महिमा वर्त्तते, यल्लोके कुत्रापि केनापि न श्रुतं न वा दृष्टम् । यल्लोके दुर्लभमस्ति । तदपि धर्मप्रभावेण लोकैराप्यते । Koil अथ निजभृत्यमिव पादौ मर्दयन्तं राक्षसराजमालोक्य समुत्थाय कुमारस्तमेवं व्याजहारall भो राक्षसेन्द्र ! मया मनुष्येण यदादिष्टं तत्कृपामानीय क्षमस्व । तवानया भक्त्याधिकं प्रसन्नोऽ
स्मि, किञ्च यदीप्सितं भवेत्तन्मत्तः प्रार्थय । भवदर्थे दुष्करमपि सुखेन कत्तुं शक्नोमि । दुर्लभमपि वस्तु तुभ्यं दातुं समर्थोऽहम् । इति कुमारभाषितं श्रुत्वा स स्वचेतस्येवमचिन्तयत्-सम्प्रति विपरीतं जातं यदसौ मानुषीभूय मयि देवेऽपि निजप्रसादं दर्शयति । इतोऽप्यद्भुतमिदं दृश्यते,
॥२०॥
emaine
For Personal
Private Use Only