SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Educatio 75 देवतयापि यन्न प्राप्यते, वा यन्न कर्त्तुं शक्यते, तदप्यसौ मे दातुं वाञ्छति । एतत्तथा प्रतिभाति यथा कल्पवृक्षः सेवकात् किमप्यभीष्टं याचेत । एष मानवो मम देवस्य किं दद्यात् । अथवा मनुष्यतः प्रार्थनीयं देवानां किमपि नैवास्ति, तथापि प्रसन्नमेनं नरमहं किमपि याचेय इत्यवधार्य मधुरस्वरेण स कुमारमित्याख्यत् - भोः ! इह संसारे यः पुमान् परस्मै वांछितमर्थं प्रयच्छेत्स त्रिलोक्यमपि विरल एवास्ति, किञ्च याचनात्सर्वे सद्गुणा नरस्य प्रणश्यन्ति । अत उक्तम्- लघुधूली तृणं तस्यास्तृणात्चूलं ततोऽनिलः । ततोऽपि याचकस्तस्मादपि याचकवञ्चकः ॥ १ ॥ व्याख्या-- लोके सर्वतो लघीयसी धूली रजोऽस्ति तस्मादपि लघु तृणमस्ति अस्मादपि लघु तुलमर्कतूलं भवति । इतोऽपि लघुरनिलो वायुरस्ति, तस्मादपि लघुः कनिष्ठो याचकः अर्थी भवति, याचकादपि लघुर्याचकानां वञ्चकः प्रतारको भवति । अन्यदप्याह- परपत्थणापवन्नं मा जणणि जसु एरिसं पुत्तं । मा उयरे विधरिज्ज, सुपत्थियभंगो को जेण ॥ १ ॥ व्याख्या-मातः ! यः परमन्यं याचेत, ईदृशं पुत्रं मा जनिष्टाः । तथा यो हि परप्रार्थनं विफलीकुर्यात्, तादृशं पुत्रं तूदरे गर्भे मा धृथाः नैव धारय । For Personal & Private Use Only helibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy