SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 76 चरित्रम्। अतो ब्रवीमि कुमार ! यदि याचनां नो भञ्ज्यास्तहि त्वां किमपि याचेय । कुमारोऽवदत्-भो देव ! मत्साध्यं कार्यमाज्ञापय । राक्षसेश्वर आह-यदेवमस्ति तर्हि श्रूयताम् । अस्या नगर्या राजा भव, अहं ते राज्यं ददामि । एतद्राज्यमासाद्य यथेच्छं सुखं भुंक्ष्व, अहं किल तव दिव्यां समृद्धिमर्पयिष्यामि, दासवत्सदा त्वां सेविष्ये च। अन्येऽपि सकलाः क्षितीशास्ते वशंवदाः स्थास्यन्ति । अतो मयार्पितमेकच्छत्रमिदं राज्यमकण्टकं गृहाण । रत्नसारो मनसि चिन्तयति-असौ राक्षसपति, राज्यमर्पयति । यदिह लोके सकलसौख्यप्रदमतिदुरापमस्ति यच्च सदैव महता सुकृतपुञ्जेनाप्यते । भाग्यहीनैः पापिभिः स्वप्नेऽपि नैव लभ्यते । परमेतत्पुरा मम परित्यक्तमस्ति पुराऽहं सद्गुरोः सन्निधौ परिग्रहपरिमाणं व्रतमङ्गीकृतवांस्तदा | राज्यं न ग्रहिष्यामीत्यपि प्रतिज्ञातम् । तदधुना कथं त्यजामि, व्रतभङ्गकारिणां महान् दोषो | | लगतीति शास्त्रे निरुक्तमस्ति । अधुना मया किं कर्त्तव्यम् ?, महासङ्कटो मे पतितः अहो उभयतः | पाशरज्जुरिवैतवयमुपस्थितं लक्ष्यते । यदि राज्यमिदं गृह्णामि, तर्हि महापापीयान् भवामि, पुरागृहीतव्रतभङ्गात् । अनङ्गीकारेऽपि स एव दोषः, एतदीयप्रार्थितस्य भङ्गात् । हा दैव ! किं जातम् । ॥ २१ ॥ mation For Personal Private Use Only
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy