SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 17 M किं कर्त्तव्यतामूढतामुपगतोऽस्म्यहं । प्रान्ते कुमार एवमुवाच-भो देव ! अतोऽन्यत्प्रार्थय ? | एतत् कर्तुं नार्हामि । यतोऽहं गुरुसन्निधौ तदत्यजम् , पुरा त्यक्तस्य राज्यस्याङ्गीकारे व्रतलोपो भविष्यति । ततश्चाधर्मो मां नरकं नेष्यति । यत्स्वर्णाभरणं कर्णावेव त्रोटयेत, तेन किं प्रयोज| नम् ?. येन कृत्येन मम धर्मो न लुप्येत, तदेव स्वार्थं परार्थं वा मया कर्तुं शक्यते इति निश्चयं । जानीहि । राक्षसोऽवदत्-रत्नसार ! शरीरेऽस्मिन् लोभलज्जादाक्षिण्यगांभीर्यादयः सर्वेऽपि तिष्ठन्ति ! यः पुमान् उत्तमोऽस्ति स तु प्राणान् सुखेन जहाति, परन्तु दत्तं वचनं नैव परावर्त्तयति, यद्वदति तत्करोत्येव । तत्र दोषादोषौ नैव विचारयति ! कुमारोऽवदत्-देव ! त्वया साधूक्तं, परन्तु मया पूर्वं गुरुसन्निधौ नियमोऽकारि, यदहं पापानां निलयमधर्मस्य च हेतुं राज्यं कदापि न ग्रहीष्यामीति । यो हि नियमं लात्वा परित्यजति, तस्य नियमविराधनान्महान् दोषो लगति, पश्चात्तापश्च जायते । महाभाग ! इति हेतोर्दुष्करमप्यन्यद्वरय । यदहं सुखेन कुर्याम् , नियमोऽपि मे नैव | हीयेत । राक्षस उवाच-अरे ! प्रथमं यत्प्रार्थितं मया तदपूरयित्वा पुनरन्यन्मार्गयितुं किं ब्रूषे ?, anelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy