SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 8 चरित्रम्। बद्धंनसार २२॥ अनेन वचसा त्वं खस्मिन्नेव कुपितो हतभाग्यो वा लक्ष्यसे । यदधुना दुरापमिदं राज्यं त्यजसि । अरे मूढ ! यो हि क्रोधादिना जीवान् हिनस्ति युध्यते वा । तत्रैव पापं जायते । देवार्पितस्य al राज्यस्य स्वीकारे तव पापं कथं लगिष्यति ?, यदिदं राज्यं मया दीयते तत्सोत्साहं कथं नाङ्गी कुरुषे ? सुरभिघृतं पातुं बु बु इति शब्दं कथं कुरुषे ? । प्रथमं त्वया मम मन्दिरमागत्य मदीयशय्यायां सुखेन चिरं सुप्तम् । त्वत्पादतले च मया मर्दिते ! ईदृशमकृत्यं ते मयाकारि। त्वं तु मदुक्तं हितमपि न करोषि, तर्हि तत्फलं पश्यतु भवान् । इदानीमेव दर्शयामीत्युक्त्वा क्षणादेव स कुमारं करौ गृहीत्वा गगने निरस्यत् ! तदनु समुद्रमध्ये कुमारं प्राक्षिपत् ततस्तमादाय बहिरानीय राक्षसोऽवदत्-रत्नासार ! स्वकीयं कदाग्रहं कथं न जहासि ? अहं तु राज्यं समपर्यामि, किमप्यनिष्टं वस्तु न ददामि, तत्सहर्ष किमिति न गृह्णासि ? अतः राज्यं गृहाण, आग्रहं मुञ्च, नोचेद्रजको वसनमिव त्वामस्याः शिलाया उपरि निपात्य निपात्य हनिष्यामि ! इति ब्रुवता तेन रत्नसारो गृहीत्वा शिलान्तिकं नीतः, अभाणि च-मदुक्तं कुरुष्व, मम हस्तान्मुधा मा म्रियस्वेति । कुमारोप्येवमुवाच-राक्षस ! यद्रोचते, यच्च चिकीर्षसि, तत्सत्वरमेव क्रियताम् ॥ २२ ॥ For Personal Private Use Only l ibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy