SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥ मरणान्तेऽप्यहं गृहीतव्रतं न त्यक्ष्यामि। ईदृशं कुमारोक्तं श्रुत्वा सोऽधिकं प्रससाद तदैव राक्षसरूपं | त्यक्त्वा देवतारूपं व्यधात् ततः स्थलजैर्वारिजैश्च रम्यैः सुरभिकुसुमैः कुमारमानर्च । अर्थात्कुमा- IN | रोपरि सुकुसुमानां वृष्टिमकृत । जयजयारावं कुर्वन् स राक्षसः कुमारसमपिमागत्यैवमाचख्यौ। भोः कुमार ! त्वं धन्योऽसि, मान्योऽसि, श्लाघ्योऽसि, किञ्च त्वादृशेन पुरुषरत्नेनैवेयं पृथ्वी रत्नगर्भेत्युच्यते । तवेदृशी धर्मे दृढतास्ति । यादृशी क्वाप्यन्यत्र नैवास्ति मया ते भूयानुपसर्गः | कृतस्तत्क्षम्यताम् । ____पुरा ममाग्रे देवेन्द्रसेनापतिर्हरिणगमेषी समस्तामरैर्मण्डितायामिन्द्रसभायां त्वां प्रशंश तच्छ्रुत्वा । सर्वे देवा अतिविस्मिता अभूवन् । इतश्च सौधर्मदेवलोकेशानदेवलोकयोश्च नवाविन्द्रावुदपद्यताम् । तौ मिथो विमानस्यैकस्यार्थे युयुधाते, द्वात्रिंशल्लक्षाणि विमानानि सौधर्मदेवलोके वर्तन्ते, तथेशानदेवलोके विमानान्यष्टाविंशतिलक्षाणि विद्यन्ते । धिगस्तु यदेतावत्सु विमानेषु सत्स्वपि तावुभौ परस्परं माविव चिरमयुध्येताम् । लोभो हि लोके वलवत्तरो हि, करोति सर्व वशमात्मनो हि । Sain Education International For Personal & Private Use Only nelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy