SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 80 बर्द्ध चरित्रम् । सार जयेदमुं यो हि स एव लोके, धन्यः प्रशस्यो महतामपीह ॥ १॥ व्याख्या-लोके-जगति लोभो महाबलवानस्ति, कमपि नोज्झति । सर्वं लोकोत्तरसमृद्धिमन्तमपि आत्मनः स्वस्य वशमाधीनं करोति, तर्हि निर्धनानां का वार्ता । अमुं-लोभं यो नरो जयेत्-त्यजेत् , स एव पुमान् लोके धन्यः कृतकृत्यः महतामपि लोकानां प्रशस्यः-स्तुत्यो भवतीति भावः। ____ लोके युध्यमानमेकम् , अपरो वारयति । एवं देवं तथाभूतं देवो निवारयति । परन्तु यदा लोभाकृष्टचतसाविन्द्रावेव मिथोऽश्वमहिषाविव युध्येतां तर्हि तौ कः शक्नुयाद्वारयितुम् । तयोरिन्द्र। योयुध्यमानयोः कियान्कालो गतस्तत एकदा वृद्धदेवतयोक्तम् । यन्माणवकस्तम्भे जिनेन्द्रदंष्ट्रा वर्त्तते । तस्या वारिणाऽभिषिक्तस्य तत्क्षणं महान्तो दोषाः प्रलीयन्ते । महीयानपि वैरः प्रलीयते । सकलाश्च रोगाः क्षणेन प्रणश्यन्ति । इत्थं विचिन्त्य काचिद्वृद्धदेवता जिनेन्द्रदंष्ट्राभिषेकजलेन परस्परं जिघांसन्तौ तावुभावपीन्द्रावभिषिक्तवती । तत्प्रभावात्तत्कालमेव तावुभौ मिथो वैरत्वमत्यजताम् । तदनु वृद्धदेवतया तयोर्विमानविषये यथा निरणायि, तथा दर्शयति-दक्षिणस्यां दिशि ॥२३॥ Sain Ed i onal For Personal & Private Use Only M w.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy