________________
M यानि विमानानि सन्ति, तानि सर्वाणि सौधर्मेन्द्रस्य, उत्तरस्यां यानि विमानानि तेषां सर्वेषां ।
स्वामीशानेन्द्रोऽस्ति । तथा पूर्वपश्चिमदिग्भागे यानि त्रयोदशगोलाकारविमानानि, तानि सौधर्मन्द्रस्य । एवमेव प्राच्यानि प्रतीच्यानि यानि त्रिकोणानि चतुष्कोणानि च विमानानि सन्ति, | तेष्वर्धं सौधर्मेन्द्रस्यार्धमीशानेन्द्रस्य बोध्यानि । एष एव क्रमः सनत्कुमारमाहेन्द्रकुमारदेवलोक-11 योरप्यस्ति । इत्थं वृद्धदेवतया विभक्तं सर्वं श्रुत्वा तावुभाविन्द्रौ चिरजातमपि वैरं विहाय परस्परं । प्रीतिभाजौ जाती। ____ अथैकदा चन्द्रशेखरो देवो हरिणगमेषिणं देवमपृच्छत्-हरिणगमेपिन् ! अस्ति कोऽपि जनः | संसारे, यो हि वशीकृतजगत्त्रयस्य लोभस्य वश्यतां नो धत्ते । देवेन्द्रौ भूत्वाप्यावां लोभग्रस्त
चेतसौ परस्परं यध्यावहे. तर्हि मानां का गणना ?, हरिणगमेषी न्यगदत-भ्रातः ! त्वं सत्यं जगदिथ, परं सर्वेषां मनांसि लोभाकृष्टानि न भवन्ति । अपरेषां वार्ता किं ब्रवीमि, साक्षादिन्द्रारणीमप्यालोक्य यस्य चित्तं मनागपि न चलति, तादृश एको वसुसारश्रेष्टिनः पुत्रो रत्नसार! कुमारोऽस्ति, अयं सदैव निर्लोभो विद्यते, किमधिकमधुनापि देवार्पितमपि राज्यं पुराङ्गीकृतव्रत
Sain Educh
Frontal
Finelibrary.org