SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पबद्धं चरित्रम् । नसार २४॥ ४२ भङ्गभिया न गृह्णाति । यद्राज्यं महान्तोऽपि जीवाः कामयन्ते परं रत्नसारस्तु तुच्छमेव गणयते ।। ____ रत्नसार ! हरिणगमेषिणोक्तमेतदाकर्ण्य चन्द्रशेखरो नामन्यत, ततस्तव परीक्षायै सोऽत्रागत्य IN पुरा राक्षसीभूय निर्जनमेकं नगरं निर्ममौ सारिकां कृतवान् , आऽऽदावेवान्तःप्रविशन्तं त्वां न्यवारयत् । स एव तव राजकीयकीरं सपिञ्जरमपाहरत् । प्रान्ते समुद्रपातादिनानोपसर्गस्ते विहितः । स एव चन्द्रशेखरदेवोऽस्मि । महाभाग ! मया तेऽतिगर्हितं कृतं तदधुना क्षमस्व । कृतागसि मयि प्रसीद, किमप्यभीष्टं वस्तु वरय । यतः देवदर्शनं सर्वस्य सफलमेव भवति, विफलं कस्यापि नैव जायते। रत्नसारोवादीत्-भो देव । ममाहतशाश्वतधर्मप्रभावात्सर्वं विद्यते, कस्याप्यपेक्षा नास्ति, तथापि यदि त्वं किमपि दातुमीहसे, तर्हि मे नन्दीश्वरमहातीर्थयात्रां कारय ? एतदेव त्वामभियाचे । ततश्चन्द्रशेखरदेवता तथास्तु, इति निगद्य सपिञ्जरं कीरं कुमाराय दत्तवान् । ततः पश्चात् नन्दीश्वरमहातीर्थयात्रां कारयित्वा सकीरं रत्नसारं कनकपुरं नगरमनैषीत् । तत्र च कनकध्वजनृपाग्रे रत्नसारमाहात्म्यं व्याख्याय सन्मान्य च मिष्टवचनादिना स देवः स्वस्थानमगात् । RA.दर ॥२४॥ in one For Personal Private Use Only Allww.jainelibrary.org.
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy