________________
पबद्धं
चरित्रम् ।
नसार २४॥
४२ भङ्गभिया न गृह्णाति । यद्राज्यं महान्तोऽपि जीवाः कामयन्ते परं रत्नसारस्तु तुच्छमेव गणयते ।। ____ रत्नसार ! हरिणगमेषिणोक्तमेतदाकर्ण्य चन्द्रशेखरो नामन्यत, ततस्तव परीक्षायै सोऽत्रागत्य IN पुरा राक्षसीभूय निर्जनमेकं नगरं निर्ममौ सारिकां कृतवान् , आऽऽदावेवान्तःप्रविशन्तं त्वां न्यवारयत् । स एव तव राजकीयकीरं सपिञ्जरमपाहरत् । प्रान्ते समुद्रपातादिनानोपसर्गस्ते विहितः । स एव चन्द्रशेखरदेवोऽस्मि । महाभाग ! मया तेऽतिगर्हितं कृतं तदधुना क्षमस्व । कृतागसि मयि प्रसीद, किमप्यभीष्टं वस्तु वरय । यतः देवदर्शनं सर्वस्य सफलमेव भवति, विफलं कस्यापि नैव जायते। रत्नसारोवादीत्-भो देव । ममाहतशाश्वतधर्मप्रभावात्सर्वं विद्यते, कस्याप्यपेक्षा नास्ति, तथापि यदि त्वं किमपि दातुमीहसे, तर्हि मे नन्दीश्वरमहातीर्थयात्रां कारय ? एतदेव त्वामभियाचे । ततश्चन्द्रशेखरदेवता तथास्तु, इति निगद्य सपिञ्जरं कीरं कुमाराय दत्तवान् । ततः पश्चात् नन्दीश्वरमहातीर्थयात्रां कारयित्वा सकीरं रत्नसारं कनकपुरं नगरमनैषीत् । तत्र च कनकध्वजनृपाग्रे रत्नसारमाहात्म्यं व्याख्याय सन्मान्य च मिष्टवचनादिना स देवः स्वस्थानमगात् ।
RA.दर
॥२४॥
in
one
For Personal Private Use Only
Allww.jainelibrary.org.