________________
___ अथ कनकध्वजस्य राज्ञः श्वशुरस्याज्ञया सामन्तप्रधानादिकतिपयोत्तमपरिवारयुतः पत्नीभ्यां सहितः कुमारः स्वनगरी प्रति चचाल । मार्गे च प्रतिग्रामेषु राजभिः सत्कृतः कतिपयदिवसैः रत्नसारो रत्नविशालां नगरीमाससाद । तत्रावसरे महत्या समृद्धया समागतं रत्नसारमवगत्य समरसिंहनरपतिवसुसारश्रेष्ठिप्रमुखाः सर्वे पौरास्तत्संमुखमागताः । महामहेन कुमारं पुरप्रवेशमकारयन् । ततः सुखेन समुपविष्टेषु पौरजनेषु नृपप्रमुखेषु सर्वं कुमारचरित्रं स कीरो व्याजहार । तदाकर्ण्य प्रमोदमापन्नाः सर्वे जनास्तुष्टुवुः । अथ पत्नीयुगलसंयुतो रत्नसारः शाश्वतमाहतं धर्म वर्धयन् सांसारिकमनुपमं भोगं भुञ्जानः कालं सुखेन गमयन्नासीत् । ___अथैकदा तत्र नगरे रम्योद्याने चतुर्ज्ञानधरो धर्मपतिसूरीश्वर आययौ । तस्य वन्दनायै रत्नसारप्रमुखाः पौरजनास्तत्राजग्मुः । समरसिंहभूपोप्यागतः सपरिवारः । उपाविशंश्च सर्वे स्वोचितस्थाने । आचार्यवर्यश्च धर्मदेशनां प्राह
धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ।। १ ॥ व्याख्या—यस्य पुरुषस्य धर्मार्थकाममोक्षाणामेषां चतुर्णा वर्गाणां पुरुषार्थानां मध्ये
Sain Education international
For Personal & Private Use Only
Amlainelibrary.org