________________
विद्यु
चरित्रम।
नसार
अतो मदीयनगरमागत्य पुनीहि । अथ भूपानुरोधवशतः कुमारस्तेन सहैव कनकपुरनगरमागतः । महामहेन जामातरं पुरं प्रावेशयद्राजा । ततः सुसजिते सुन्दरतरे महासौधे वधूभ्यां सह रत्नसारस्तस्थिवान् । शुकोऽपि स्वर्णपिञ्जरे तिष्ठन् सुखमनुभवन्नासीत् । इत्थं पुण्यप्रभावतः कुमारो नानाविधमनुपमं सुखं भुञ्जानः सुखेन दिनानि गमयन्नासीत् । उक्तञ्च
स्वाराज्यसौख्यमतुलं नयते नराणां, राज्यं ददाति विमलं यश प्रातनोति ।
शत्रुप्रचण्डभुजदण्डबलं क्षिणोति, किं किं न साधयति कल्पलतेव धर्मः ॥१॥ व्याख्या-नराणां धर्मः कल्पलतेव-कल्पतरुमिव किं किं न साधयति-जनयति-ददातीति, तदेव समर्थयते-अतुलं-निरुपमं स्वाराज्यसौख्यं-स्वर्गीयसुखं नयते-प्रापयति, प्रान्ते । इह लोके तु राज्यं ददाति, निर्मलं यशः-सुकीर्तिश्च आतनोति-विस्तारयति, तथा शत्रूणां प्रचण्डा ये भुजदण्डास्तेषां बलं-पराक्रम क्षिणोति-नाशयति । इत्थं धर्म एव सर्वेषां सर्वार्थसाधनमिति स एव सञ्चेतव्यः।
अथैकस्यां रजन्यां सुखेन शयान आसीत्कुमारः। सर्वाणि द्वाराणि पिहितान्यासन् । तथापि
Sain Ed
a
lernational
For Personal & Private Use Only
S
w
.jainelibrary.org