SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ विद्यु चरित्रम। नसार अतो मदीयनगरमागत्य पुनीहि । अथ भूपानुरोधवशतः कुमारस्तेन सहैव कनकपुरनगरमागतः । महामहेन जामातरं पुरं प्रावेशयद्राजा । ततः सुसजिते सुन्दरतरे महासौधे वधूभ्यां सह रत्नसारस्तस्थिवान् । शुकोऽपि स्वर्णपिञ्जरे तिष्ठन् सुखमनुभवन्नासीत् । इत्थं पुण्यप्रभावतः कुमारो नानाविधमनुपमं सुखं भुञ्जानः सुखेन दिनानि गमयन्नासीत् । उक्तञ्च स्वाराज्यसौख्यमतुलं नयते नराणां, राज्यं ददाति विमलं यश प्रातनोति । शत्रुप्रचण्डभुजदण्डबलं क्षिणोति, किं किं न साधयति कल्पलतेव धर्मः ॥१॥ व्याख्या-नराणां धर्मः कल्पलतेव-कल्पतरुमिव किं किं न साधयति-जनयति-ददातीति, तदेव समर्थयते-अतुलं-निरुपमं स्वाराज्यसौख्यं-स्वर्गीयसुखं नयते-प्रापयति, प्रान्ते । इह लोके तु राज्यं ददाति, निर्मलं यशः-सुकीर्तिश्च आतनोति-विस्तारयति, तथा शत्रूणां प्रचण्डा ये भुजदण्डास्तेषां बलं-पराक्रम क्षिणोति-नाशयति । इत्थं धर्म एव सर्वेषां सर्वार्थसाधनमिति स एव सञ्चेतव्यः। अथैकस्यां रजन्यां सुखेन शयान आसीत्कुमारः। सर्वाणि द्वाराणि पिहितान्यासन् । तथापि Sain Ed a lernational For Personal & Private Use Only S w .jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy