________________
रेण सहाऽचीकरत् । पश्चात् स चन्द्रचूडदेवो रूपान्तरं कृत्वा चक्रेश्वरीपार्श्वमागत्य सकलमुदन्तमुवाच । तच्छ्रुत्वा चक्रेश्वरी देवी सपरिवारा विमानमारुह्य तत्रागतवती । रत्नसारो वधूभ्यां सह तां प्रणनाम । सापि झटिति कुलं ते वर्धतामित्याशिषं तस्मा अदात् । तदनु सा देवी विवाहोपयोगिनी सर्वां सामग्री विरचय्य महामहेन ते राजकुमार्यों समुदवाहयत् । ततश्चक्रेश्वरी सप्तभौमं दिव्यं सौधं निर्माय निवासाय कुमाराय ददौ । तत्र सौधे रत्नसारस्ताभ्यां स्त्रीभ्यां सह निरुपम सुखमनुभवन् न्यवात्सीत् । ____ अथ चक्रेश्वर्या आदेशेन चन्द्रचूडो देवः कनकपुरे गत्वा कनकध्वजं नृपं पुत्र्योः कुमारेण सह महामहेन सम्पादितविवाहवर्धापनं व्यजिज्ञपत्। तच्छ्रुत्वा हृष्टो नृपो मन्त्रिसामन्तसाधुकारप्रमुखाऽपरिमितपरिवारयुतस्तत्रागतः । तमागतं क्षितिपतिमुभे पुत्र्यौ सकीरो रत्नसारश्च नृपाभिमुखमागत्य विधिवत्प्राणमत् । कुमाररूपमालोक्य स राजा नितरामतुष्यत् । ततो देव्याः प्रभावेण कुमारः सपरिवारं श्वशुरं तत्रागतमभोजयत् ।नानाविधदिव्याशन पानमिष्टवचनैस्सुप्रसन्नः क्षोणिपालः कुमारमे| वमाख्याति स्म-महाभाग्यशालिन् ! भवान् जामातास्ति, सकलपौरजनः श्रीमन्तं भवन्तं दिदृक्षति
Jan Educe
For Personal Private Use Only