SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ रेण सहाऽचीकरत् । पश्चात् स चन्द्रचूडदेवो रूपान्तरं कृत्वा चक्रेश्वरीपार्श्वमागत्य सकलमुदन्तमुवाच । तच्छ्रुत्वा चक्रेश्वरी देवी सपरिवारा विमानमारुह्य तत्रागतवती । रत्नसारो वधूभ्यां सह तां प्रणनाम । सापि झटिति कुलं ते वर्धतामित्याशिषं तस्मा अदात् । तदनु सा देवी विवाहोपयोगिनी सर्वां सामग्री विरचय्य महामहेन ते राजकुमार्यों समुदवाहयत् । ततश्चक्रेश्वरी सप्तभौमं दिव्यं सौधं निर्माय निवासाय कुमाराय ददौ । तत्र सौधे रत्नसारस्ताभ्यां स्त्रीभ्यां सह निरुपम सुखमनुभवन् न्यवात्सीत् । ____ अथ चक्रेश्वर्या आदेशेन चन्द्रचूडो देवः कनकपुरे गत्वा कनकध्वजं नृपं पुत्र्योः कुमारेण सह महामहेन सम्पादितविवाहवर्धापनं व्यजिज्ञपत्। तच्छ्रुत्वा हृष्टो नृपो मन्त्रिसामन्तसाधुकारप्रमुखाऽपरिमितपरिवारयुतस्तत्रागतः । तमागतं क्षितिपतिमुभे पुत्र्यौ सकीरो रत्नसारश्च नृपाभिमुखमागत्य विधिवत्प्राणमत् । कुमाररूपमालोक्य स राजा नितरामतुष्यत् । ततो देव्याः प्रभावेण कुमारः सपरिवारं श्वशुरं तत्रागतमभोजयत् ।नानाविधदिव्याशन पानमिष्टवचनैस्सुप्रसन्नः क्षोणिपालः कुमारमे| वमाख्याति स्म-महाभाग्यशालिन् ! भवान् जामातास्ति, सकलपौरजनः श्रीमन्तं भवन्तं दिदृक्षति Jan Educe For Personal Private Use Only
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy