SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । गद्यवयं व्याख्या-लञ्चस्य-अस्मिन्कार्ये तवैतावद्दास्यामीति पुराङ्गीकृतस्य करणे तथोचितादि पञ्चधा रत्नसार IN| दानकर्मणि, ऋणशोधनकरणे, तथा होडकरणे, भृत्यादेर्वेतनदाने, गृहकरणे, धर्मकृत्ये, रोगस्य । शत्रोश्च मूलोच्छेदनकरणे कालक्षेपः-कालस्य-समयस्य क्षेपो विलम्बो न शस्यते प्रशस्तो न भवतीत्यर्थः । तर्हि कालक्षेपः क्व प्रशस्यते ?, इत्याह क्रोधावेशे नदीपूरप्रवेशे पापकर्मणि । अजीर्णभुक्तौ भीस्थाने कालक्षेपः प्रशस्यते ॥२॥ व्याख्या-क्रोधस्य कोपस्याऽऽवेशे वेगे, नद्याः पूरे प्रवेशकरणे, पापाचरणे, सत्यजीर्णे भोजने, भयस्थाने गन्तुं कालक्षेपः कर्त्तव्यः सबैरिति भावः । तदनु सा तिलकमञ्जरी भोः पुरुषसिंह ! त्वादृशे पुरुषोत्तमे महोपकारकरे नरेऽदेयं किमपि | नास्ति । यद्यपि सर्वस्वदानेऽपि त्वदुपकृतेः प्रतिक्रियां विधातुमहं नार्हामि, तथापि यदस्ति तद्ददामीत्युक्त्वा कुमारकण्ठे मौक्तिकी मालां परिधापितवती सोऽपि सहर्ष सादरं तां स्रजं पर्यधत्त। पुनरेको || कमलस्रजं तस्य कीरस्याधिग्रीवं न्यधत्त । तदा चन्द्रचूडो देवो जगाद-भोः कुमार ! पुरा तुभ्यमिमे कन्ये दैवेन दत्ते, साम्प्रतमहमपि ते ददामीति । ततो देवता तयोः कन्ययोः पाणिग्रहणं रत्नसा For Personal Private Use Only ..
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy