________________
चरित्रम् ।
गद्यवयं
व्याख्या-लञ्चस्य-अस्मिन्कार्ये तवैतावद्दास्यामीति पुराङ्गीकृतस्य करणे तथोचितादि पञ्चधा रत्नसार IN| दानकर्मणि, ऋणशोधनकरणे, तथा होडकरणे, भृत्यादेर्वेतनदाने, गृहकरणे, धर्मकृत्ये, रोगस्य ।
शत्रोश्च मूलोच्छेदनकरणे कालक्षेपः-कालस्य-समयस्य क्षेपो विलम्बो न शस्यते प्रशस्तो न भवतीत्यर्थः । तर्हि कालक्षेपः क्व प्रशस्यते ?, इत्याह
क्रोधावेशे नदीपूरप्रवेशे पापकर्मणि । अजीर्णभुक्तौ भीस्थाने कालक्षेपः प्रशस्यते ॥२॥ व्याख्या-क्रोधस्य कोपस्याऽऽवेशे वेगे, नद्याः पूरे प्रवेशकरणे, पापाचरणे, सत्यजीर्णे भोजने, भयस्थाने गन्तुं कालक्षेपः कर्त्तव्यः सबैरिति भावः ।
तदनु सा तिलकमञ्जरी भोः पुरुषसिंह ! त्वादृशे पुरुषोत्तमे महोपकारकरे नरेऽदेयं किमपि | नास्ति । यद्यपि सर्वस्वदानेऽपि त्वदुपकृतेः प्रतिक्रियां विधातुमहं नार्हामि, तथापि यदस्ति तद्ददामीत्युक्त्वा कुमारकण्ठे मौक्तिकी मालां परिधापितवती सोऽपि सहर्ष सादरं तां स्रजं पर्यधत्त। पुनरेको || कमलस्रजं तस्य कीरस्याधिग्रीवं न्यधत्त । तदा चन्द्रचूडो देवो जगाद-भोः कुमार ! पुरा तुभ्यमिमे
कन्ये दैवेन दत्ते, साम्प्रतमहमपि ते ददामीति । ततो देवता तयोः कन्ययोः पाणिग्रहणं रत्नसा
For Personal Private Use Only
..