________________
Jain Edur
21
निशम्य श्रेष्ठी बाष्पपूरपूरितलोचनो गद्गदस्वरेण तं प्रत्यूचे - - नैषा मे कुदृष्टिः, किन्तु मत्सुतेवेयं दृश्यते, अतोऽहमस्या आकृतिं परिनिरीक्ष्यैनां स्वसुतामेव मन्ये । किन्तु सती मत्सुता तु ज्वलनेन निजकलेवरं ज्वलयित्वा लेखलोकमलञ्चकार । तस्याल्पीयानेवाऽनेहा व्यगमत्, अद्य तु भवद्वनितानामवलोक्य सा मम स्मृतिपथमुपयाति । अतोऽहमेनामद्य भूयोऽवलोकयामि, नात्र भवता सो विधेय इति । कामपालेनाऽभ्यधायि - अस्मिन् भूमण्डले सहस्रशो योषितः पुमांसश्च तुल्यरूपाकृतयोऽवलोक्यन्ते, नात्र चित्रं किमपि तस्मिन् सूर्य्यसपर्यामहोत्सवे भवदात्मजायां मे स्वस्त्रीभ्रमोऽभवत् एवमेवाद्य मम भार्य्यायां भवतः स्वतनयाभ्रमो विद्यते । भवत्पुत्र्या भार्य्यायाश्च रूपादौ भेद एव नास्ति, तेन मिथ्याभ्रमो ऽपनेतव्यः इति तद्वाक्यं श्रुत्वा प्रमुदितवदनो मनोरमः तमवादीत् - - अद्यप्रभृति ते वनिता मे दुहितास्थानमलङ्करोतु, यतो मया ' इयं पुत्री ' इत्यभिहिता, अतः सर्वथेयं मे पुत्री संजाता। कामपालेन निगदितं भाग्यशालिनो भवन्तः, अतोऽसौ भवत्सुतैव भवेत् । महात्मनां परमोदाराचारनिरतानां पञ्चजनानां तु सर्वाः प्रौढाङ्गना भगिनीनीकाशाः, निखिला वालावलास्तु सुतासन्निभा भवन्ति । तनयामन्तराऽन्तः पुरमेव न
"
Personal & Private Use Only
jainelibrary.org