________________
बर्द्ध
यानम् ।
मूल्यं प्रदायाऽऽदास्यामि " । श्रेष्ठी तद्वाक्यं समाकातिप्रसद्य सद्यः समीचीनां शाटिकां नि- तकाऽऽ
कास्य तस्मै समपर्यत् । कपटकठिनमनाः स तामादाय स्वप्रियां प्रादर्शयत्, सा तां परिनिरीक्ष्य 'नेयं मेऽभिमता' इति व्याहृत्य प्रत्यार्पयत् । स पुनस्तां गृहीत्वा श्रेष्ठिनो निकटमटित्वा विस्पष्टमाचष्ट । महायशः ! मम वनिता नेमामभिनन्दति तदपरां प्रयच्छ । तेन प्रत्तामपरामपि प्रियां दर्शयित्वाऽनभिमतत्वात् पुनः प्रतिददौ । एवं पञ्चकृत्वोऽकरोत् कामपालः, षष्टे वारे प्रकुपितो मनोरमोऽमनोरमं वचोऽभ्यधत्त । अरे भद्र ! किं त्वमेवं शाटिकाऽऽदानप्रति
दानाभ्यां मां व्याकुलीकरोषि ? नाहं पुनर्वस्त्रं दास्यामि । त्वं स्वस्त्रियमत्रैव कथं नाऽऽनयसि ? Mयेन सा यथेच्छं गृह्णीयादिति । ततः कामपालो होलिकां श्रेष्ठिसंनिकष्टमानैषीत । सश्रेष्ठी तस्याः
पुरोऽनेकाः शाटिका निधाय यथेष्टं गृहाणेति बभाण । सा शाटिकावलोकनेऽघटत । श्रेष्ठी तु कार्यान्तरमपास्य तदीयमास्यं संपश्यन् विस्मयमवाप- नूनमेषा होलिकेव दृश्यते ' इति यावन्निश्चिनोति तावत् कामपालः कुपित इव तमगदत्--' श्रेष्ठिन् ! किं भवान् मे भार्यामभीक्ष्णं निरीक्षते, वृद्धस्य प्रामाणिकस्य भवतः पराङ्गनायामियं कुदृष्टिोंचिता खलु' इति कामपालवचनं
॥१०॥
in Ed
e
mnational
For Personal & Private Use Only
Nw.jainelibrary.org