________________
13 सर्वतोऽपमानमनुभवन्तोऽतीवसंसारवेदनां वेदयन्ते । उक्तं च--
नेत्रकज्जलसंकाशं, संभाति गृहिणां धनम् । मसीलेपनिभं वक्त्रे, साधूनां तन्न शोभते ॥ १॥ ___ अतो हे प्राणप्रिये ! यदि त्वमनुमन्यस्व तदाऽहं प्रचुरद्रव्यमुपार्जयितुं देशान्तरं गच्छेयम् । इति प्राणेश्वरवाक्यं समाकर्ण्य होलिका व्यचिन्तयत्-'मया केवलमेतेन साकं कामभोगलाभायैव सर्वमेतदकृत्यमप्यनुष्ठितम , अथापि यद्ययं मामपास्य देशान्तरं गच्छेत् तदा विफलमेव मे यौवनं भवेत् , अत एव कश्चनोपायो विधेयो यथा वल्लभावियोगः प्रभूतद्रविणयोगश्च भवेत् ' इति मनसि समवधार्य प्रत्युवाच-प्रियवर ! सत्यमभिहितं भवता किन्वत्रैव यदि धनोपलब्धिः स्यात् । कृतं तर्हि विदेशगमनेन । सोऽवादीत्-कथमत्रैवार्थागमः संभवति ? साऽवोचत्-उपायेन सर्व संभवति, त्वं मामकीनं वचोऽनुतिष्ठ, भूयिष्ठं द्युम्नमत्रैवाधिगमिष्यसि । तत्र तावत् त्वं मत्पितुराप- | णमुपेत्य ततो ममानभिमतं बहुमूल्यं शाटकमानय । स सपदि ततः समुत्थाय मनोरमश्रेष्ठिनः समुपेत्य सप्रश्रयं बभाषे–“ श्रेष्ठिन् ! ममाङ्गना बहुमूल्यां सर्वोत्तमामेकां शाटिकां सम्प्रति सम्प्रतीच्छति, सा सपदि दीयताम् , अहं तां स्वप्रियां दर्शयिष्यामि. यदि सा अभिनन्दिष्यति तदा
Jain Education
IN
For Personal & Private Use Only