SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 13 सर्वतोऽपमानमनुभवन्तोऽतीवसंसारवेदनां वेदयन्ते । उक्तं च-- नेत्रकज्जलसंकाशं, संभाति गृहिणां धनम् । मसीलेपनिभं वक्त्रे, साधूनां तन्न शोभते ॥ १॥ ___ अतो हे प्राणप्रिये ! यदि त्वमनुमन्यस्व तदाऽहं प्रचुरद्रव्यमुपार्जयितुं देशान्तरं गच्छेयम् । इति प्राणेश्वरवाक्यं समाकर्ण्य होलिका व्यचिन्तयत्-'मया केवलमेतेन साकं कामभोगलाभायैव सर्वमेतदकृत्यमप्यनुष्ठितम , अथापि यद्ययं मामपास्य देशान्तरं गच्छेत् तदा विफलमेव मे यौवनं भवेत् , अत एव कश्चनोपायो विधेयो यथा वल्लभावियोगः प्रभूतद्रविणयोगश्च भवेत् ' इति मनसि समवधार्य प्रत्युवाच-प्रियवर ! सत्यमभिहितं भवता किन्वत्रैव यदि धनोपलब्धिः स्यात् । कृतं तर्हि विदेशगमनेन । सोऽवादीत्-कथमत्रैवार्थागमः संभवति ? साऽवोचत्-उपायेन सर्व संभवति, त्वं मामकीनं वचोऽनुतिष्ठ, भूयिष्ठं द्युम्नमत्रैवाधिगमिष्यसि । तत्र तावत् त्वं मत्पितुराप- | णमुपेत्य ततो ममानभिमतं बहुमूल्यं शाटकमानय । स सपदि ततः समुत्थाय मनोरमश्रेष्ठिनः समुपेत्य सप्रश्रयं बभाषे–“ श्रेष्ठिन् ! ममाङ्गना बहुमूल्यां सर्वोत्तमामेकां शाटिकां सम्प्रति सम्प्रतीच्छति, सा सपदि दीयताम् , अहं तां स्वप्रियां दर्शयिष्यामि. यदि सा अभिनन्दिष्यति तदा Jain Education IN For Personal & Private Use Only
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy