________________
घबड़ेलिका ९ ॥
18
. निचिक्षिपुः । इतरे नराः स्वबालकानानीय तां नमस्कारयन्ति स्म। केऽपि मानवा अञ्जलिं बद्धा 'हे ख्यानम्। महासति ! अस्माकमयं मनोरथः पूर्णः स्यात् ' इति यथेच्छं प्रार्थयाश्चक्रिरे। वृद्धा ऊचुः-यः सती- INT भस्म शरीरे लिम्पति तस्य सर्वाणि व्याधिकुलानि विनश्यन्ति । एवं कजलीकृत्य लोचनाञ्जनविधानेन तस्य विकारो विनिवर्तते । भक्षणात् सुतोत्पत्तिः धान्यकोष्ठके निक्षेपणात् तस्याक्षयत्वम् एतेऽन्ये चानेके गुणाः सतीभस्मनि विद्यन्ते इति । एवं वृद्धवचनं निशम्य सकलो लोकः प्रससाद सती माहात्म्यं तद्वतं चाङ्गीचकार । राजकर्मचारिणस्तूर्णं तत्रागत्य चितिभूति गृहीत्वा धान्यागारेषु हस्त्यश्वप्रमुखानां वाहनानां विग्रहेषु कोशगृहेषु स्वजनभवनेषु च प्राक्षिपन्। इत्थं होलिकाया | इज्यासमज्या समग्रं नगरं व्यानशे, ततो देशादेशान्तरं प्रसरन्ती समग्रे भारते प्रससार ।
अथ तस्या जननीजनयितारौ क्रमशो होलिकाशोकं विस्मृत्य स्वकार्ये प्रावताम् । इतो | होलिकाकामपालौ यथाभिलषितमपरिमितमानन्दमनुवभूवतुः । अधिककालानन्तरमेकस्मिन्नहनि | कामपालो होलिकामभ्यधात्-प्रिये ! धनं विनेह खलु मनुजजीवनं निधननिभं भाति । सांसारिक सुखमपि समुचितमर्थमन्तरेणापार्थ मेव न खल्वात्मानमानन्दयति धनविहीनगृहस्थास्तु मृतप्रायाः
JanEdu
For Personel Private Use Only
jainelibrary.org