________________
घबद्धं- लिकाऽऽ
ख्यानम् ।
भाति भाग्यशालिनाम् । परिणयनादिसमीचीनमहविहीनं जीवनं भवनं वा किं वनमिव न भवति ? । ततो होलिकाऽलिकमुत्क्षिप्य वचनविरचन चतुरतरा पितरं प्रावोचत्-हे प्रिय पितः ! ममापि पितृकुले कोऽपि नास्ति, भवतः सुता नास्ति, तस्मात् मामेव स्वसुतां विधाय धारयतू. दवसिते। ततो मोहनीयकर्मवशीभूतोऽर्यवर्यस्तद्वाचं सम्यगभिनन्द्य कामपालसहितां होलिकां स्वगृहमनैषीत् । तत्र परमान्नाशनसुवसनपरिधानविविधालङ्करणधारणादिसत्कारं समवाप्य सा परां मुदमवाप । श्रेष्ठी तु स्वमहिलामालपत्-प्रिये ! स्वात्मजाया होलिकायाः स्थानेऽनुरूपमिदं मिथुनं | मन्तव्यम् , तदाकर्ण्य सर्वोऽयवरपरिग्रहो दैवात् साधु साध्विति प्रशशंस । एवं होलिकाकामपालो सुदिष्टसृष्टममन्दमानन्दमनुबभूवतुः।
अथ ढूँढावृत्तान्तः श्रोतव्यः । एकदा तस्मिन्नेव पत्तने महामारीरोगः प्रादुर्बभूव । शतशो मानवा नवाविर्भूतप्रभूतरोगयोगेन मनुः । तथापि यदा विषमामयो न विरराम, तदाऽमदाः परिव्या| कुलराजकुलप्रमुखाः सर्वकार्यपराङ्मुखाः परिरक्षन्निजपरिजनांस्तत्पत्तनजनाः स्वस्वसदनान्निर्गत्य माषवलिं गृहीत्वा बहिण्याने संभूय तान् माषानूव॑मुत्क्षिप्याञ्जलिं बवा प्राब्रुवन् । हे देवदान
।
For Personal & Private Use Only
.
w.dainelibrary.org