________________
वयक्षराक्षसभूतप्रेतपिशाचव्यन्तरादयः ! युष्माकं मध्ये केनचन हेतुना कुपितेन येनेयं निखिललोकसंहारकरी महामारी प्रकटीकृता सोऽस्माकं दीनमानसानां प्रार्थनां निशम्य सद्यः प्रसद्याद्य कोपकारणं स्पष्टं स्फुटीकुर्यात् , येन वयं तस्य सम्यक् सपर्या विधाय तदनुकम्पयाऽस्मान्महोपद्रवान्मक्षु मुच्येमहि' इत्यतिदीनादभ्राक्रन्दननिगदनसमनन्तरमेवाम्बरे व्योमभाषा बभूव "अरे! पौराः! वालिशाः! यदि यूयमस्माकमाज्ञां पालयिष्यथ तदैव शुभं भवतां भविष्यति, नान्यथा” इति निशम्य निःशेषा अपि पुरुषास्तारस्वरेण युगपदूचिरे-" भवदीयामाज्ञां सदा वयं पालयिष्याम इति । तदा व्योम्नि देवी बभाषे-अरे नागरिकाः ! यदि यूयं महामारीप्रकोपात् त्राणं समीहध्वे | तदा होलिकाकामपालयोः कुत्सितां निन्दां कुरुत, स्त्रीपुरुषबालकबालिकाः सर्वे मिथस्त्रपामपास्यासभ्यभाषणं कुरुध्वम् , परस्परं गालिं प्रलपत । अत्रत्याः सर्वे नरा होलिकां सती मन्यन्ते, अद्यारभ्य | तामसती मन्यध्वम् , वेश्यावत् तत्र व्यवहरत । माघशुक्लपूर्णिमामारभ्य फाल्गुनशुक्लपूर्णिमापर्यन्तं कामपालं नग्नरूपं रचयित्वा चतुष्पथे स्थापयत । तत्र नितरां लोकनिन्दनीयामसभ्यभाषां | भाषध्वम् । धूलिमण्डलमुड्डापयत । मिथो हास्यविलासमालपत । विवाहिता अविवाहिताश्च सर्वे
For Personal & Private Use Only
Enelibrary.org