________________
बर्द्ध
लेकाss १२ ।।
24
कामपालं पूजयत। फाल्गुनशुक्लपूर्णिमायां होलिकां ज्वलयत । कामपालं भक्त्वा तदङ्गप्रत्यङ्गशकलानि कुरु । द्वितीये दिवसे प्रतिपदि पुरीषप्रत्रावरजसां प्रतिवर्षं विदधीत । एकं कमपि पुमांसं राजानं रचयित्वा तत्कण्ठे पादत्राणमालां परिधापयत, तन्मस्तके शूर्पातपत्रं विधाय तं गर्दभयानेन सर्वतो भ्रमयत । मार्गे कर्दमाभिषेकेन तं संभावयत । एवं व्योमभाषां श्रुत्वा सर्वे साश्चर्यं तां पप्रच्छुः - भगवति ! होलिका तु लोके परमसतीति प्रसिद्धा तत्कथं तद्विषये भवती एवमाज्ञापयति ? का च श्रीमती इत्यपि विविदिषामि । देव्युवाच - अरे नागरिका मूढाः ! यूयं होलिकारहस्यं न जानीथ, अतो वच्मि, श्रूयताम्-यदेयं होलिका बुद्धिपूर्वकं रुग्णाऽभवत् तदाऽस्याः पिता ढूंढा तापसीमाहूयैनामदर्शयत् । साऽस्याः सर्वाङ्गं परीक्ष्य यदा कमपि व्याधिं नाबुद्धयत, तदा विविक्ते होलिकामन्त्रयुङ्क्त- अयि वाले ! तथ्यमात्थ, किन्ते मनसि वर्त्तते, तदा तदाशयज्ञा यज्ञाद्यनुष्ठानेन मनोरथपूरयित्र्यास्तस्याः पुरो व्यजिज्ञपत् । अयि मातः ! त्वं सत्वरं मां कामपालेन सह सङ्गमय, अन्यथा मे नूनं निधनं भविष्यति । सा तापसी तापसीदद्धृदयायास्तस्या मनोरथमपूरयत् । पतिमुपलभ्य साऽदृष्टसृष्टस्वभावतया तपस्यसितपूर्णिमायां शयानां तापसीं जलयित्वा कामुकेन
For Personal & Private Use Only
ख्यानम् ।
॥ १२ ॥
ww.jainelibrary.org